SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ रसपद्धतिः। १३ तिर्यक्पातनमाहकृत्वा वक्रमुखौ घटावथ नभोहैयङ्गवीनस्थितं त्वन्यमित्रसमन्यतश्च सलिलं प्रक्षिप्य चुल्योन्यसेत् । कृत्वाऽधः सरसस्य मन्दमभितः पात्रस्य वह्नि शनैरन्यमिन्सलिले विचक्षणमतिस्तियग्रसं पातयेत् ॥ ११ ॥ टी०-अथानन्तरं विचक्षणमतिवैद्यस्तिर्यग्रसं पातयेत् । कथं ? वक्रमुखौ घटौ कृत्वा, एकस्य मुखमपरस्य मुखमध्ये यथा गच्छति तथा द्वौ घटौ द्वयोक्षुल्ल्योरुपरि स्थापयेत् ; एकस्मिन् घटे नभोहैयङ्गवीनस्थितं रसं कृत्वा, अन्यस्मिन् सलिलं प्रक्षिप्य, पश्चात् मुखमध्ये मुखं दत्त्वा, सन्धिलेपादिकं कार्य; पश्चाच्चुल्ल्योरुपरि स्थापनं कार्य, तत्र रसपात्रस्याधो मन्दं मन्दं यथा भवति तथा कृत्वाऽभितो वह्नि प्रज्वालयेत् , अन्यस्मिन्पात्रे दत्तसलिले रसं नयेदिति वाक्ययोजना। नमोहैयङ्गवीन स्थितं नभोऽभ्रकं तस्य हैयङ्गवीनं नवनीतप्राया दुतिः, तत्र स्थितं तेन सह मर्दितम् । तदुक्तम् ,-"श्लक्ष्णीकृतमभ्रदलं रसेन्द्रयुक्त तथाऽऽरनालेन। खल्वे दत्त्वा मृदितं यावनष्टपिष्टतामेति ॥ कुर्यात्तिर्यक्पातनपातितसूतं क्रमेण दृढवह्नौ । संस्वेद्यः पात्योऽसौ निपतति यावदृढश्चामौ ॥ तदाऽसौ शुध्यते सूतः कर्मकारी भवेद्धवम्" इति । रसरत्नाकरे तु,-"धान्याभ्रकं रसं तुल्यं मर्दयेदारनालकैः । नष्टपिष्टेन तत्पात्यं तिर्यग्यन्त्रे दृढामिना"-इति । तिर्यक्पातनयन्त्रलक्षणं तु-"क्षिपेद्रसं घटे दीर्धे नताधोनालसंयुते। तन्नालं निक्षिपेदन्यघटकुक्ष्यन्तरे खलु ॥ तत्र रुद्धे मृदा सम्यग्वदने घटयोरधः । अधस्तादसकुम्भस्य ज्वालयेत्तीव्रपावकम् ॥ इतरस्मिन्घटे तोयं प्रक्षिपेत्स्वादुशीतलम् । तिर्यक्पातनमेतद्धि वार्तिकैरभिधीयते"-इति । यद्वा "भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत् । कांस्यपात्रद्वयं कृत्वा संपुटं जलगर्भितम् ॥ नलिकास्यं तत्र योज्यं दृढ़ तच्चापि कारयेत् । युक्तद्रव्यैर्विनिक्षिप्तः पूर्व तत्र घटे रसः ॥ अमिना तापितो नालात्तोये तस्मिन् पतत्यधः। यावदुष्णं भवेत्सर्वं भाजनं तावदेव हि ॥ जायते रससंधानं दे(डे)कीयन्त्रमिति स्मृतम्”-इति । इति प्रकारेण यथाबुध्या यत्र संपादनीयम् । इति तिर्यक्यातनम् ॥ ११ ॥ रो(बो)धनमाह. कूप्यां वा नृफलोदरे रसमथ प्रक्षिप्य सर्वात्मना सार्धं सैन्धववारिणा त्रिदिवसं भूमौ मृदा रोधयेत् । रस. २ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy