________________
नीली चैषां समस्तानां व्यस्तानां च द्रवैर्दिनम् ॥ ताम्रपादयुतं सूतं मर्दयेदम्लकैः सह। तत्पिष्टिं पातयेद्यन्त्रे अ॒र्ध्वपातनके पुनः॥ आदाय मर्दयेत्तद्वत्ताम्रचूर्णेन संयुतम् । पातयेन्मदयेच्चैव तानं दत्त्वा पुनः पुनः ॥ इत्येवं सप्तधा कुर्यान्मर्दनं पातनं क्रमात्" इति ॥ ९॥
अधःपातनयन्त्रमाहकृत्वा संपुटमेवमेव हि समक्ष्माशिग्रुराजीवरावहिन्यूषणंसैन्धवं मृदुकृते लिवोर्ध्वभाण्डोदरे। ऊर्ध्वं प्रज्वलितानले वसुमतीसंरुद्धसर्वोदरे संपूर्णाम्बुनि कर्मठः पुनरधःपात्रे रसं पातयेत् ॥ १० ॥ टी०–समक्ष्माशिग्रुराजीवरावह्नित्र्यूषणसैन्धवं रसं मृदुकृते ऊर्ध्वभाण्डोदरे लिप्त्वा, कर्मठः वैद्यः, अधःपात्रे रसं पातयेदिति वाक्यान्वयः । समः समभागः । क्ष्माशिग्रुः महाराष्ट्रदेशे शिग्रुमूलान्यतितीक्ष्णानि भवन्ति तस्य नाम शिग्रुमूलमिति प्रसिद्धिः, राजी आसुरी, वरा त्रिफला, वह्निश्चित्रकः, त्र्यूषणं त्रिकटु, सैन्धवं सिन्धुलवणं, एतेषां वस्त्रपूतं चूर्ण अर्थानिम्बुफलरसेन सह खल्वे मर्दयित्वा यावनष्टपिष्टिर्भवति तावन्मृदुकृते ऊर्ध्वभाण्डस्यान्तराले लेपं दत्त्वा अधःपात्रे पातयेत् । अथ लेपानन्तरं पूर्ववत्संपुटं मृत्कर्पटानि कृत्वा, अत्र क्त्वाप्रत्ययस्तु रसपातापेक्षया, न तु लेपापेक्षया; संप्रदायात् । शुष्कं कृत्वा भूगर्ते निवेश्य ऊर्ध्व पुटं दद्यात् । अमुमेवार्थ विशेषणैः प्रकटयति-कीदृशेऽधःपात्रे ? वसुमतीसंरुद्धसर्वोदरे; वसुमती पृथिवी तस्यां संरुद्धं आसंधिलेपं सर्वोदरं यस्य; पुनः कीदृशे ? संपूर्णाम्बुनि, संपूर्णमम्बु यस्मिन् तत् संपूर्णाम्बु तस्मिन् । अनेन च विशेषणेन अधःसंपुटमात्रमध्ये जलं प्राप्यते, तच्च संप्रदायविरुद्धं, अतः संपूर्णाम्बुनीति विशेषणं न कर्तव्यं, किंतु संपूर्णाम्बुनि पात्रान्तरे भूमौ निखातिते तस्योपरि संपुटं दद्यात्, पश्चात्तस्य संपुटस्याधःपात्रस्य संधिरोधः कार्यः, इति तात्पर्यतो ज्ञेयम् । अत एव कीदृशे ? ऊर्ध्व प्रज्वलितानले । पुटेन प्रज्वलनं कार्यम् । पुटं चात्र कौक्कुटं यथायथं रसमानापेक्षया वा विंशतिवनोपलैः शनैः शनैर्देयम् । अत एव कर्मठ इति कर्मकुशलः पातयेदित्यर्थः । इत्यधःपातनम् । अधःपातनयन्त्रं तु प्रागुक्तं, तञ्च डमरुकाख्यं; रसरत्नाकरे-“त्रिफलाराजिकाशिग्रुव्योषं लवणपञ्चकम् । सूततुल्यं तु तत्सर्वं काजिकैर्मर्दयेद्दिनम् ॥ तेन लिम्पेदूर्ध्वभाण्डं पृष्ठे देयं पुटं लघु । अधःपातनयन्त्रे तु पातितं तं समुद्धरेत्" इति । अत्र च अधोजलस्यानुकत्वात् गोमयेनार्दमृत्तिकादिना वा पात्रस्याधः शैत्यं संपादनीयम् ॥ ..., ...१ 'मृदुकृतं' इति पा०। .. ..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com