SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ११ तत्र पातनायन्त्रप्रकारमाह कृत्वा मृन्मयभाण्डसंपुटमधः प्रक्षिप्य भाव तुर्याशार्क कणैर्मनाक्सकरकैः संमर्ध पिण्डीकृतम्' अन्यस्मिन् रचितोर्ध्ववारिणि मृदा संरुद्धसंधौ सुधीः पक्त्वा त्रिप्रहरं समेन शुचिना भाण्डे तमूर्ध्व नयेत् ॥ ९ ॥ टी० -- मृन्मयभाण्डं संपुटं कृत्वा मुखेन मुखं संलग्नं कृत्वेत्यर्थः । अत्राधोभाण्डोदरे पिण्डीकृतं रसं प्रक्षिप्य । किं कृत्वा पिण्डीकृतम् ? चतुर्थाशताम्ररजोभिः संमर्थ, मनागीषत्, सकरकैः करकः गारपाषाण इति लोके प्रसिद्ध:, तेन संमर्ध सम्यङ्मर्दनं कृत्वेत्यर्थः । पुनः कीदृशे अन्यस्मिन्भाण्डे ? रचितोर्ध्ववारिणि पृष्ठे मृदादिना आलवालं कृत्वा रचितोर्ध्ववारित्वम् । तच्च संप्रदायादुष्णं जलं निष्कास्य पुनः शीतं प्रक्षेप्यम् । अथवा वस्त्रखण्डेन पुनः पुनर्जलं निष्कास्यान्यजलेनाप्लवनं कार्यम् । कीदृशे ? मृदा संरुद्धसंधौ । मृदा संरुद्धः सन्धिर्यस्य तस्मिन्, सुधीः पण्डितो भिषक् । समेन नाधिकन्यूनेन, एकरूपेण दीप्ताभिना इत्यर्थः । शुचिना वह्निना, त्रिप्रहरं यामत्रयं पक्त्वा पाकं कृत्वा, ऊर्ध्वभाण्डे नयेत् प्रापयेदित्यर्थः । अत्र भाण्डसंपुट प्रतिपादनाट्टमरुकाख्यं यन्त्रं लभ्यते । तस्य रसभस्मनि विधानात्तदेवात्र ग्राह्यम् । ) तलक्षणं तु - "यत्र स्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरोधयेत् । यन्त्रं डमरुकाख्यं तद्रसभस्मकृते हितम्” – इति । मृञ्चात्र “खटिकापटुकिट्टैश्व महिषीदुग्धमर्दितैः । वह्निमृत्स्ना भवेद्घोरवह्नितापसहा खलु” – इति । तोयमृदपि, "लेहवत्कृतबच्चूलक्काथेन परिमर्दितम् । जीर्ण किट्टरजः सूक्ष्मं गुडचूर्णसमन्वितम् ॥ इयं हि जलमृत्प्रोक्ता दुर्भेद्या सलिलैः खलु” – इति । इयं मृद्यथासंभवं योज्या । एतदभावे कौलालमृत्तिकया एव सर्व कार्यम् । रसरत्नसमुच्चये तु–“अष्टाङ्गुलपरीणाहमानाहेन दशाङ्गुलम् । चतुरङ्गुलकोत्सेधतोयाधारं गलादधः ॥ अधोभाण्डे मुखं तस्य भाण्डस्योपरिवर्तिनः । षोडशाङ्गुलविस्तीर्णपृष्ठस्यास्ये प्रवेशयेत् ॥ पार्श्वयोर्महिषी क्षीरचूर्णमण्डूर फाणितैः । लिप्त्वा विशोषयेत्सन्धि जलाधारे जलं क्षिपेत् ॥ चुलयामारोपयेदेतत्पातनायन्त्रमीरितम् । अथोर्ध्वभाजने क्षिप्तं स्थापितं तज्जले सुधीः ॥ दीप्तैर्वनोपलैः कुर्यादधःपातं प्रयत्नतः” – इति । ऊर्ध्वपातनयन्त्रं तु कुलालेन कारणीयम् । इति यन्त्रद्वयं ज्ञेयम् । 'शुल्बेन पातयेत्पिष्टिं त्रिधोर्ध्व सप्तधा त्वधः' इति वचनात्रिधा सप्तधा वा कुर्यात् । रसरत्नाकरे तु – “काकमाची जया ब्राह्मी चाङ्गेरी रक्तचित्रकम् । अङ्कोलो राजवृक्षच तिलपर्णी कुमारिका ॥ मण्डूकी चित्रकः पाठा काकजङ्घा शतावरी । भूपाटली देवदाली निर्गुण्डी गिरिकर्णिका ॥ शङ्खपुष्ष्यार्द्रकं भृङ्गी गोजिह्वा क्षीरकन्दकम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy