SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मूर्छनमाहकामाताकटुकत्रयार्कपयसा कन्यानलोल्लासिना संमृच्छर्योपरिपातयत्रविधिना ज्ञानी तमुत्थापयेत् । अन्तर्वल्यपराजिताजलकणासृष्ट्यम्बुजामानवीपुष्पैरनिसहं विधाय च परैरेनं त्रिधा पातयेत् ॥८॥ टी०-कामाता काकमाची 'काचमाची तु वायसी' इत्यमरः; 'कालिकामोणी' इति लोके; कटुकत्रयं प्रसिद्धं, अर्कपयः रूपिकादुग्धं, कन्या गृहकुमारी, अनलश्चित्रकः 'चित्रको वह्निसंज्ञकः' इत्यमरः, तेन उल्लासिना मिश्रितेन संमूर्च्छनीयः। मर्छनं मर्दनेन औषधतुल्यत्वापादनं नष्टपिष्टत्वापादनं वा। उत्थापनमाह-उपरिपातयन्त्रविधिनेति । ज्ञानी भिषक् उपरिपातयत्राविधिना ऊर्ध्वपातयन्त्रविधिना उत्थापयेत् । ऊर्ध्वपातनयन्त्रविधिस्त्वग्रे वक्ष्यते । रसरत्नाकरे तु-"मेषशृङ्गी कृष्णधूर्ती बला श्वेतापराजिता । गोजिह्वा बाकुची नीली गरुडी क्षीरकन्दकः ॥ राजिका काकमाची च रविक्षीरं च काजिकम् । व्यस्तानां वा समस्तानां द्रवैरेषां विमर्दयेत् । यामैकं रसराजं तु मूषायां सन्निरोधयेत् ॥ पुटैकेन पचेत्तं तु भूधरेऽथ विमर्दयेत् । पूर्वद्रावैर्यथापूर्वं रुवा रुवा विपाचयेत् ॥ इत्येवं सप्तधा कुर्याज्जायते मूच्छितो रसः। जलैः सोष्णारनालैर्वा क्षालनादुत्थितो भवेत् ॥ अथवा पातनायत्रे पातनादुत्थितो भवेत् । एवमुत्थापितः सूतस्त्रिधा पात्यः क्रमेण तु"-इति । भूधरयन्त्रम्,-"या मृत्तिका दुग्धतुषैः शणेन शिखित्रिकैर्वा हयलद्दिना च । लौहेन दण्डेन च कुट्टिता सा साधारणा स्यात्खलु मूषिकार्थम् ॥ मृत्तिका या च कौलाली वल्मीकमृत्तिकाऽथवा । वालुकागूढसर्वाङ्गां गर्ते मूषां रसान्विताम् ॥ दीप्तोपलैः संवृणुयाद्यत्रं तद्भूधराह्वयम् । वह्निमित्रां क्षितौ सम्यङ्गिखन्यायगुलादधः॥ उपरिष्टात्पुटं यत्र पुटं तद्भूधराह्वयम्-" इति । पुटं चात्र कापोतं कौक्कुटं वा । “षडङ्गुलप्रमाणेन मूषा मञ्जूषसंज्ञिता ॥ मञ्जूषाकारमूषा या निम्नतायामविस्तरा । भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि"-इति । इयमेवात्र ग्राह्या । एवं स्थले स्थले विचारणीयम् । भेदान्वितं पातमाह–अन्तर्वल्यपराजितेत्यादि । अन्तर्वल्ली गगनवल्ली, अपराजिता श्वेतापराजिता 'आस्फोटा गिरिकी स्याद्विष्णुक्रान्ताऽपराजिता' इत्यमरः, जलकणा जलपिप्पली, सृष्टयम्बुजा भूस्फोटः, छत्राकमिति केचित् , मानवी महाराष्ट्री, एतेषां पुष्पैः। अग्निसहं कृत्वा विधाय। अपरैव्यैरग्निसहं कृला । एनमुत्थापितं सूतं पातयेत् त्रिधा पातनं कुर्यात् ॥ ८ ॥ १'यत्रं' इति पा०। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy