________________
ऊर्णाभस्मनिशानिशान्तवलमीधूमेष्टिकापांसुभिः प्रत्येकं रसषोडशांशमिलितैर्मन्दं विमो रसः॥७॥ टी-कल्याणेऽह्नि तिथिनक्षत्रवारकरणयोगशुद्धियुक्ते। सुशिक्षितेन गुरोः सम्यगभ्यस्तकर्मणा भिषजा वैद्येन मद्यः मर्दनीयो रस इति संबन्धः । मन्दमिति क्रियाविशेषणम् । क्व? खल्वे; खल्वोऽत्र पाषाणनिर्मितो लोहनिर्मितश्च । तदुक्तम्,-"उत्सेधेन दशाङ्गुलः खलु कलातुल्याङ्गुलायामवान् विस्तारेण दशाङ्गुलो मुनिमितैर्निम्नस्तथाऽधोमुलैः । पाल्यां व्यङ्गुलविस्तरश्च मसृणोऽतीवार्धचन्द्रोपमो घर्षों द्वादशकाङ्गुलोऽत्र कथितः खल्वो मतः सिद्धये ॥ लौहो नवाजुलः खल्वो निम्नत्वे च पडङ्गुलः । मर्दकोऽटाङ्गुलश्चैव तप्तखल्वोऽभिधीयते ॥ कृत्वा खल्वाकृति चुल्लीमगारैः परिपूरिताम् । तस्यां निवेशितं खल्वं पार्श्वे भस्त्रिकया धमेत् ॥ रसेन मर्दिता पिष्टिः क्षारैरम्लैश्च संयुता। प्रद्रवत्यतिवेगेन स्वेदिता नात्र संशयः॥ कृतः कान्तायसा सोऽयं भवेत्कोटिगुणोत्तरः" इति। विशालेतरे द्वन्द्वैकवचनं कृत्वा खल्व विशेषणं, विशालो विस्तृतः, इतरो लघुः "अस्मिन् पञ्चपलः सूतो मर्दनीयो विशुद्धये। तत्तदौचित्ययोगेन खल्वेष्वन्येषु योजयेत्" इति वचनादुभयोरुपादानम् । सुस्निग्धेति । सुस्निग्धोपलाजन्म यस्य तस्मिन् । खरूपकथनं पाषाणघर्षणदोषनिवारणार्थम् । त्रिदिवसमिति अत्यन्तसंयोगे द्वितीया । जम्भाम्भसा निम्बुरसेन। 'स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः' इत्यमरः । संभृतैः संमिश्रितरित्यर्थः । ऊर्णेति ऊर्णा मेषादिलोम, तस्य भस्म क्षारः, निशा हरिद्रा; निशान्तं गृहं तस्य वलभी गोपानसी तत्रत्यः धूमः 'विहिंसा' इति लोके; इष्टिका पक्वेष्टिका तस्याः पांशुश्चूर्णम् । प्रत्येकमिति समुदायभागनिवृत्त्यर्थः षोडशांशं रसापेक्षया, एको भाग
औषधस्य रसस्य षोडशभागाः । मिलितपदं पादपूरणार्थम् । इदं पांशुभिरित्येतस्य विशेषणम् । केचित्तु इष्टिकाचूर्ण दधिगुडलवणासुरीभिर्विमर्दितं कर्तव्यमित्याहुः, रागग्रहणार्थं जीर्णाभ्रकचूर्णेन सह विमर्दनं कर्तव्यं, गृहकन्यात्रिफलाचित्रकैः क्रमेण मर्दयित्वा मूर्च्छना सप्तवारं कर्तव्या इति वदन्ति; तद्धातुवादे न रसेषु । रसरत्नाकरस्तु,-"प्रक्षाल्य काजिकैः साम्लैस्तमादाय विमर्दयेत् । गृहधूमेष्टिकाचूर्णदुग्धोर्णालवणं निशा ॥ राजिका त्रिफला कन्या चित्रकं बृहती कणा । वन्ध्याककर्कोटकी चैतयस्तं वाऽथ समस्तकम् ॥ क्वाथयेदारनालेन तेन मर्यो रसत्यहम् । प्रक्षाल्य का जिकेनैव तमादाय विमूर्च्छयेत् ॥ यन्त्रे लोहमये पात्रे पार्श्वयोवलयद्वयम् । तादृक्स्वल्पतरं पात्रं वलयप्रोतकोष्टकम् ॥ पूर्वपात्रोपरि न्यस्तं स्वल्पपात्रोपरि क्षिपेत् । रसं संमूच्छितं स्थूलपात्रमापूर्य काजिकैः ॥ द्वियामं स्वेदयेदेवं रसोत्थापनहेतवे। एतत्स्याजलहार्यत्रं रससाद्गुण्यकारकम्" इति । अनेन प्रकारेण मर्दनान्तरमुत्थापनं कार्यम् । इति मर्दनम् ॥ ७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com