SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ बद्धवा द्वित्रिपुटे पटे पटुतरं दोलाधिरूढं रसं दोषोत्लेदकृते शनैत्रिदिवसं मृद्वग्निना स्वेदयेत् ॥६॥ टी0-त्र्यूषणं शुण्ठीमरिचपिप्पल्यः, कन्यका कुमारी, अनलचित्रकः, वरा त्रिफला, मीनाक्षी मत्स्याक्षी, 'ब्राह्मी मीना तु मत्स्याक्षीय'मरः, बाम्बीति लोकाः, होनगोंदा इत्यपरे, उरगाक्षी साक्षी, 'नकुलेष्टा भुजङ्गाक्षी'त्यमरः, मुमुसीकन्द इत्यपरे, स्नुक स्नुही, 'स्नुक स्त्री स्नुही गुडे'त्यमरः । एतेषां काथे; एतानि समभागानि, 'कल्पयेत्सदृशान् भागान्प्रमाणं यत्र नोदितम्' इति वचनात् । क्वाथ्यादष्टगुणेति । क्वाथ्यंपलप्रमाणम् । तच्च पूर्वोक्तं सर्वमेव । 'क्वाथ्यद्रव्यपले कुर्यात्प्रस्थाधं पादशेषितम्'इति वचनात् । अष्टगुणमारनालमिति आरनालं काचिकम् । 'आरनालकसौवीरे'त्यमरः। तत्षोडशांशीकृतमिति तस्मात्पारदात्षोडशभागेन तुलितानां ओषधीनां विशेषणं, एतदेव वस्त्रे लेपयेत् । क्वाथश्च जलेन साध्यः । तत्रारनालप्रक्षेपः, अथवाऽऽरनालेनैव साधनं कुर्यात् । द्वित्रिपुट इति द्वित्रिवारं कृते पुटे, पटुतरं यथा भवति तथा दोलावत् हिन्दोलावदधिरूढं स्थापितं रस, त्रिदिवसं मृद्वग्निना शनैः स्वेदयेत् । कस्मै? दोषोत्क्लेदकृते दोषोक्लेदनार्थम् । दोषाः कञ्चुकादयः पूर्वोक्ताः सप्त । स्वेदनं च दोलायन्त्रेण । तदुक्तम्,-"द्रवद्रव्येण भाण्डस्य पूरिताधोदरस्य च । कण्ठस्योभयतो द्वारद्वयं कृत्वा प्रयत्नतः ॥ तयोस्तु निक्षिपेद्दण्डं तन्मध्ये रसपोटलीम् । बद्धा तु स्वेदयेदेतदोलायन्त्रमिति स्मृतम्" इति । केचित् मर्दनपूर्वकं स्वेदनमिति वदन्ति । तन्न, विरोधात् । तदुक्तं रसरत्नाकरे,'नानाधान्यैर्यथाप्राप्तैस्तुषवज्र्जलान्वितैः । भाण्डार्ध पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥ तन्मध्ये भृङ्गिकामुण्डी विष्णुकान्ता पुनर्नवा । मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥ त्रिफला गिरिकर्णी च हंसपादी च चित्रकम् । समूलकं कुट्टयित्वा यथालाभं निवेशयेत् ॥ पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् । स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ॥ अत्यम्लमारनालं वा तदभावे नियोजयेत्"इति । "न्यूषणं लवणं राजी रजनी त्रिफलाऽऽर्द्रकम् ॥ महाबला नागबला मेघनादः पुनर्नवा । मेषशृङ्गी चित्रकं च नवसारं समं समम् ॥ एतत्समस्तं व्यस्तं वा पूर्वाम्ले नैव पेषयेत् । तत्कल्कैर्वेष्टयेद्वस्त्रं यावदङ्गुलमात्रकम् ॥ तन्मध्ये निक्षिपेत्सूतं बद्धवापट्टे दिनत्रयम् । दोलायत्रेऽम्लसंयुक्त स्वेदितो जायते रसः” इति स्वेदन विधिः ॥६॥ मर्दनामाहकल्याणेऽह्नि सुशिक्षितेन भिषजा खल्वे विशालेतरे : सुस्निग्धोपलजन्मनि त्रिदिवसं जम्भाम्भसा संभृतैः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy