________________
पूजयेत् । पश्चाद्धैरव्याद्यष्टयोगिनीचक्रं यथासंप्रदायं पूजयेत् । पट्टशिष्यः स्वहस्तमस्तकयोगेनैकः कार्यः । एका कालिनी स्त्री साऽपि मन्त्राराधनार्थं संपादनीया तरुण्येव । एवं मन्त्राराधनं ताभ्यां कारणीयम् । तत्र पट्कोणमण्डले रसखल्वं स्थापयित्वा षदकोणेषु वज्रवैकान्ताभ्रककान्तटङ्कणभूनागान्गन्धतालककासीसशिलाकष्टकांक्षीराजावर्तगैरिकानष्टदलेषु पूर्वादिक्रमेण पूजयित्वा रसकविमलताप्यतुत्थचपलाजनहिङ्गुलसस्यकान् पत्राग्रेषु, स्वर्ण रौप्यं पूर्वद्वारे, ताम्रसीसकं दक्षिणद्वारे, वङ्गकान्तौ पश्चिमद्वारे, उत्तरे मुण्डतीक्ष्णको अघोरेण पूजयेत् । अत्र संभाराः संपादनीयाः-बिडकाजिकक्षारमृल्लवणयन्त्राणि, कोष्टीमूषावनालतुपाङ्गारवनोपलभस्त्रिकानलिकाः शिलाखल्बोलुखलमुसलानि वर्णताम्रलोहकारोपकरणानि सर्वाणि, समस्ततुलनानि, दिव्योषधीवर्गरक्षकवर्गस्नेहवर्गमूत्राण्यम्लफलानि सर्वाणि संग्राहयेत् । यद्यदुपयुक्तमन्यत्सर्वं तत्तद्देशेभ्यः संग्राहयेत् । गुरुभक्तिश्च सर्वदा कार्या । अथ परिभाषोच्यते-गन्धकाद्यैः समभागेन मर्दितो रसः कज्जलाभासः सा कजली, द्रवेण मर्दिता सैव पङ्कः, द्वादशभागपरिमितो रसस्तन्मध्ये गुञ्जाद्वयमात्रं गन्धकं निष्काध वा दत्त्वा तीव्रधर्म मर्दिता नवनीतरूपा पिष्टिभवति । सेव दुग्धयुक्तेन गन्धकेन मर्दिता अन्या पिष्टिर्भवति । एवं वङ्गादिष्वपि भवति । रसाच्चतुर्थांशसुवर्णेन मर्दिता पातनपिष्टिर्भवति, रूप्यसुवर्णयोः रसगन्धाभ्यां हतयोः बहुशः समुत्थितयोर्या कृष्टी सा हेमकृष्टी रजतकृष्टीत्युच्यते। सा च हेमकृष्टी सुवर्णमध्ये दत्ता तं न नाशयति रञ्जनं च करोति । तथा तानं तीक्ष्णेन सह ध्मातं मिश्रितं सगन्धके लकुचाम्ले एकविंशतिवारं निक्षिप्तं वरलोहकं भवति । तेन रक्तीकृतं सुवर्ण हेमरक्तीत्युच्यते, द्रुतयोः स्वर्णतारयोनिक्षिप्ता वोत्कर्षकारिणी रञ्जनी च भवति; एवं ताररक्ती कर्तव्या। मृतेन रसेन वद्धरसेन वाऽन्यलोहं साधितं सितं पीतं च भवति, तच्चन्द्रानलदलं ज्ञेयम् । माक्षिकेण तानं हत्वा दशवारमुत्थाप्य तद्वन्नागमप्युत्थापितमुभयं चतुष्पलं नीलाञ्जनहतं कृत्वा पुनः सप्तवारमुत्थितं शुल्बनागं भवति । तेन साधितः पारदो गुटिकाकारो मेहवलीपलितादि हर्ता भवति । लोहान्तरे क्षिप्तं लोहं वहुधा मातं निर्वापितं बहुशः यदा पाण्डुपीतप्रभं भवति तदा पिञ्जरीत्युच्यते । षोडश तारस्य भागाः, द्वादश ताम्रस्य, एकत्रावर्तिताश्चन्द्राकमित्युच्यते । त्रिंशत्पलमितं नागमर्कदुग्धेन मर्दितं सहस्रपुटैः यदा अर्धकर्षावशेषं भवति तदा नागसंभवश्चपलस्तस्य रजसा स्पृष्टमात्रः पारदः बद्धो भवति। एवमेव वङ्गस्यापि कार्यः। अन्याः परिभाषा यथाप्रकरणे उदाहरिष्यन्ते ॥ ५॥
खेदनादीन्यष्टौ प्रतिज्ञातानि, तत्र स्वेदनमाहकाथे त्र्यूषणकन्यकानलवरामीनोरगाक्षीस्नुहां काथ्यादष्टगुणारनालमिलितं तत्षोडशांशीकृतम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com