SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ म्लैश्च गन्धाधैर्मूत्रैश्च पटुभिस्तथा । रसमासस्य जीर्णार्थं तद्विडं परिकीर्तितम्"इति बिडलक्षणम् । "सुसिद्धबीजधात्वादिजारणेन रसस्य हि। पीतादिरागजननं रञ्जनं परिकीर्तितम्"-इति रञ्जनलक्षणम् । “सूते सतैलयन्त्रस्थे वर्णादिक्षेपणं हि यत् । वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता" इति सारणालक्षणम् । “व्यवायिमेषजोपेतो द्रव्ये क्षिप्तो रसः खलु । वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः॥ लेपः क्षेपश्च कुन्तथ धूमाख्यः शब्दसंज्ञितः । लेपेन कुरुते लोहं स्वर्ण वा रजतं तथा ॥ लेपवेधः स विज्ञेयः पुटमत्र च सौकरम् । प्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञितः॥ संदंशघृतसूतेन द्रुतद्रव्याहतिश्च या। सुवर्णत्वादिकरणं कुन्तवेधः स उच्यते ॥ वह्नौ धूमायमानेऽन्तः प्रक्षिप्तरसधूमतः। स्वर्णरूप्यत्वजननं धूमवेध इतीरितः॥ मुखस्थितरसेनाल्पलोहस्य धमनात्खलु । स्वर्णरूप्यत्वजननं शब्दवेध इतीरितः" इति। अथोद्धाटनं “सिद्धद्रव्यस्य सूतेन कालुष्यादिनिवारणम् । प्रकाशनं च वर्णस्य तदुद्घाटनमीरितम् ॥ क्षाराम्लेरौषधैः सार्ध भाण्डं रुद्धाऽतियत्नतः । भूमौ निखन्यते यत्नात्स्वेदनं परिकीर्तितम् ॥ रसौषधस्य युक्तस्य भाण्डरुद्धस्य यत्नतः । सदाऽग्नियुतचुल्ल्यन्तः क्षेपः संन्यास उच्यते ॥ द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् । गुणप्रभावजनको शीघ्रव्याप्तिकरौ तथा"-इति । क्रामणाख्योऽपि संस्कारो ज्ञेयः । एवमष्टादश संस्कारा ज्ञेयाः । मूलकृता तु एते असंभवितत्वशङ्कया नोक्ता इति ज्ञेयम् । अथ परिभाषां वक्तुं रसशालादिप्रक्रिया संक्षेपत उच्यते । तत्र क्रमेण विना शास्त्रं नास्ति, शास्त्रोदितक्रमेण विना इतिकर्तव्यताऽपि नास्ति, इति शास्त्रं क्रमश्चावश्यं ज्ञेयः । स च गुर्वधीनः । गुरुश्च सकलशास्त्रार्थाभिज्ञः देवदेव्योभक्तः मन्त्रसिद्धः कुशलः धैर्यादिगुणवान् सर्वदा देवताराधनपरः। तेन शिष्योऽपि परीक्ष्यः-असूयादिदोषरहितः गुरुभक्तः कुलीनः शुचिः; तादृशा एव परिचारकाः संपादनीयाः । ततो धर्मराज्ये निरातङ्के देशे चतु रोपशोभिता शाला कार्या । तत्र वेदी कृत्वा, तस्यां खस्तिकाद्यलङ्कारयुक्तायां सुमुहूर्ते सर्ववादित्रयुक्ते सुमङ्गले रस लिङ्गं प्रतिष्ठापयेत् । निष्कत्रयं सुवर्णस्य नवनिष्कं शुद्धपारदं निम्बूरसेनैकदिनं मर्दयित्वा नवनीतप्रायेण सुन्दरां लिङ्गघटनां कृत्वा जम्बीरमध्ये स्थापयित्वा आरनालेन दोलायन्त्रे पचेत् । तल्लिङ्गपूजनस्य कोटिलिङ्गपूजनसमं फलं, ब्रह्महत्यादिमहापातकनं, महदैश्वर्यप्रदं च ज्ञेयम् । तस्य पूजा तु अघोरमन्त्रराजेन । तद्धयानम्,-'अष्टादशमुजं शुभ्रं पञ्चवक्रं त्रिलोचनम् । प्रेतारूढं नीलकण्ठं' इति । तस्योत्सङ्गे एकवस्त्रां चतुर्भुजामक्षमालाङ्कुशपाशाभयान् दधतीं हेमाभां हेमवस्त्रां चिन्तयित्वा, वाङ्मयी श्रीकामराजशक्तिबीजैः सह रसाङ्कुशा या द्वादशाक्षरी विद्या, तया मत्रराजेन चोभयोरनेकोपचारैः पूजां कुर्यात् । नन्दीभृङ्गीमहाकालकुलीराः पूर्वादिचतुर्दिक्षु नाममन्त्रैः प्रणवादिनमोन्तैः १ स्वर्णाद्यापादनं लोहे' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy