________________
"
दिष्टभैषज्यैर्नष्टपिष्टककारकम् । तन्मूच्छेनं हि वार्यद्विभूजक चुकनाशनम् ”— इति । भूजकञ्चुको भूदोषः । " स्वरूपस्य विनाशेन पिष्टत्वापादनं हि यत् । विद्वद्भिर्जितसूतोऽसौ नष्टपिष्टः स उच्यते " - इति । उत्थितिरुत्थापनम् । “स्वेदपातादियोगेन स्वरूपापादनं हि यत् । तदुत्थापनमित्युक्तं मूर्च्छाव्यापत्तिनाशनम् ” – इति । तत अवधित्वे पञ्चमी । भेदान्वितः ऊर्ध्वाधस्तिर्यग्भेदेन पातस्त्रिविधः । “उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् । निर्यापणं पातनसंज्ञमुक्तं वङ्गाहिसंपर्कजकञ्चुकघ्नम् ”— इति । रो (बो) धः कुम्भमध्ये रोधनम् । तदुक्तम्, – “जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् । स्थितिराप्यायनी कुम्भे याऽसौ रोधनमुच्यते"इति । संयमनम् - " रोधनाव्धवीर्यस्य चपलत्वनिवृत्तये । क्रियते पारदे स्वेदः प्रोक्तं नियमनं हि तत्”– इति । प्रदीपनं स्वेदन विशेषः । “धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यगः । ग्रासार्थं त्रिदिनं स्वेद्यो दीपनं तन्मतं बुधैः” – इति । इत्यटधा संस्कृतिः संस्काराः । आसां प्रधानत्वमाह- -अस्या इत्यादि । अस्मिन्ग्रन्थे अन्या न विन्यस्यते अन्ये संस्कारा अत्र नोच्यन्ते, जात्यभिप्रायेणैकवचनम् । कुतः ? प्रकृतोपयोगविरहात् अथवा विस्तारभयेन । तर्हि इयमपि न कर्तव्येत्यत आहअस्या इति । रसभस्मादौ सर्वत्रोपयोगात् । अत्र वैद्यानां बोधार्थमनुक्तमप्युच्यते । “इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः । इयतीत्युच्यते याऽसौ ग्रासमानमितीरितम् " - इति । ग्रासमानं नाम संस्कारः । " ग्रासस्य चारणं गर्भद्रावणं जारणं तथा । इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः " - इति जारणा संस्कारः । " ग्रासः पिण्डः परीणामस्तिस्रवाख्या परा पुनः " । तत्र चारणा द्विविधा । "समुखा निर्मुखा चेति चारणा द्विविधा पुनः । निर्मुखा चारणा प्रोक्ता बीजदानेन भागतः ॥ शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते । चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ॥ एवं कृते रसो ग्रासलोलुपो मुखवान्भवेत् । कठिनान्यपि लोहानि क्षमो भवति भक्षितुम् ॥ इयं हि समुखा प्रोक्ता जारणा मृगचारिणा । दिव्यौषधिसमायोगात् स्थितः प्रकटकोष्टिषु || भुञ्जीताखिललोहाद्यं योऽसौ राक्षसवक्त्रवान् । इयं हि निर्मुखा प्रोक्ता जारणा वरवार्तिकैः । रसस्य जठरे ग्रासक्षेपणं चारणा मता ॥ ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता । बहिरेव द्रुतीकृत्य घनसत्त्वादिकं खलु ॥ जारणाय रसेन्द्रस्य सा बाह्या द्रुतिरुच्यते" । इति द्रावणस्य लक्षणद्वयं प्रतिपादितम् । द्रुतिलक्षणं तु, “निर्लेपत्वं द्रुतत्वं च तेजस्त्वं लघुता तथा ॥ असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणम् ॥ औषधाध्मानयोगेन लोहधात्वादिकं तथा । संतिष्टते द्रवाकारं सा द्रुतिः परिकीर्तिता ॥ द्रुतग्रासपरीणामो बिडयन्त्रादियोगतः । जारणेत्युच्यते तस्याः प्रकाराः संति कोटिशः " - इति जारणालक्षणम् । “क्षारैर
१ 'यो घटे' इति पा०. । २ 'धातुवापनमूलाद्यैः' इति पा०. ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
--
www.umaragyanbhandar.com