SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ तेन कृत्वा शतयोजननिम्नाः पञ्चकूपा जाता गङ्गायास्तीरे, तत्संबद्धायां गिरिभुवि तन्मलाधानात् यत्र तत्र धातवो जाताः, ते पञ्चकूपाः सर्वेषामुपयोगित्वात्सर्वे गिरितुल्या जाताः, त्रयः कूपा देवैः शिवस्य प्रार्थनया शिवेनैव शप्ताः । एककूपस्थ ईषत्पीतः रूक्षाङ्गः दोषयुक्तः दशाष्टसंस्कृतिसिद्धो देहलोहकरः; अन्योऽपि मिश्रकः अत्यन्तचपलः श्वेतः सोऽपि संस्कृतः सर्वरोगहरो भवति; तौ द्वौ प्रचरदवस्थौ, अन्ये त्वसत्कल्पाः । एतदनन्तरं तौ इन्द्रप्रार्थनया रुद्रेण कञ्चकादिदोषैश्वाभिशप्तौ कृती। तेनासंस्कृतात्सिद्धिर्नास्ति । तस्य पञ्चगतयः-जलगा वायुगा मलगा धूम. गा च, एता दृश्याश्चतस्रो गतयः, अन्या च गति ववत् सूक्ष्मत्वेन केनापि नोपलभ्यते, सा पञ्चमी। अतोऽत्यन्तचपलस्य तस्य संस्कारः अतिनैपुण्येन मन्त्रध्यानादिना च कर्तव्यः । इममर्थ मनसि निधाय संक्षेपतो वक्तुं दोषानाह-अत्रेति । अत्र रसेऽमी वक्ष्यमाणाः सप्त दोषाः । तानेवाह-नाग इत्यादि । नागदोषो वङ्गदोषो विषदोषो मलदोषश्चपलतादोषो वह्निदोषो गिरिदोषश्च । क्रमेण तेषां व्याधिकर्तृत्वमाह-गण्ड इत्यादि । नागदोषाद्गण्डः इत्यादिक्रमेण तेभ्यो दोषेभ्यो व्याधयो भवन्ति । दुराराधना दुःखेनोपचरितुं शक्या इत्यर्थः । अत्रेयं कल्पना-नागवझौ यौगिको दोषौ, चलताविषवह्निमलजाश्च दोषा नैसर्गिकाः, गिरिभूमिजाश्चौपाधिकाः । एवं भूमिजाः कुष्ठं कुर्वन्ति, गिरिजा जाज्यं कुर्वते, वारिजा वातादिसंघातम् । अन्ये तु भूगिरिजलनागवङ्गसंमिश्रणजाः सप्त कञ्चुकाः कथयन्ति ॥ ४ ॥ तस्मान्निपुणैः सहायैः सर्वोपकरणानि संपाद्य सर्वकारम्भः कार्य इति प्रतिपादयितुं रसस्य संस्कारानुद्दिशति खेदो मर्दनमूर्च्छनोत्थिति ततः पातोऽपि भेदान्वितो रोधः संयमनं प्रदीपनमिति स्पष्टाऽष्टधा संस्कृतिः। अस्याः सर्वरसोपयोगिकतया त्वन्या न विन्यस्यते ग्रन्थेऽस्मिन्प्रकृतोपयोगविरहाद्विस्तारभीत्याऽथवा ॥५॥ टी०–स्वेदः स्वेदनम् । तदुक्तम् ,-"क्षाराम्लेरौषधैर्वापि दोलायन्त्रे स्थितस्य हि। पाचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् "-इति । दोलायन्त्रंतु वक्ष्यते । पाकस्तु कुत्रचित्रिदिनं कुत्रचिदेकदिनैमनवच्छेदेन कार्यः । मर्दनं खल्वे दत्त्वा यत्पेषणम् “उद्दिष्टैरौषधैः सार्धं सर्वाम्लः काजिकैरपि । पेषणं मर्दनाख्यं स्यादहिमलविनाशनम्" इति। मूर्छनं मर्दनविशेषेणैव मूर्छापादनम् । “मर्दना १ एकदिनमित्य स्याग्रे 'केचित् दीप्ताग्निना एकप्रहरं, मध्याग्निना प्रहरद्वयं, मन्दाग्निना प्रहरचतुष्टयं पचेत्, एवं वासरे एकवारं स्वेदनं कार्यमिति वदन्ति' इत्यधिकः पाठः कचिदुपलभ्यते। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy