Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 30
________________ रसपद्धतिः । पक्कात् मुक्तिलतैलकाञ्जिकरसैलॊहस्य पात्रेचिराकिंचोच्चप्रचलाकिपित्तसलिलैः संस्कारितात् सप्तधा ॥१८॥ टी०-पृथुपारिभद्रकरसैरथवा जम्भवारा दिनं पिष्टात् मर्दितादिङ्गुलापारदमूर्ध्वगपातयन्त्रविधिना निष्कासयेत् । पृथुर्वाष्पिका, पारिभद्रः निम्बः; पृथुपारिभद्रो महानिम्बो वा कण्टकिपलाशो वा । जम्भं निम्बूफलम् । प्रकारान्तरेण हिलाद्रसाकर्षणमाह-पक्कादिति । स्नुक्तिलतैलकाजिकरसैलॊहस्य पात्रे पक्वाद्धि लात्पारदमूर्ध्वपातयन्त्रविधिना निष्कासयेत् । किंच उच्चप्रचलाकिपित्तसलिलैलोहस्य पात्रे सप्तधा संस्कारितात् भाविताद्विषेलापारदमूर्ध्वपातयत्रविधिना निष्कासयेदिति वाक्यान्वयः । केचित्तु भावितं हिलं कूपिकामध्ये दत्त्वा पातालयन्त्रविधिनाऽगरूसारवद्रसं निष्कासयन्ति; अथवा “स्थालिकोपरि विन्यस्य सम्यक् स्थाली निरुध्य च । ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्नि प्रज्वालयेदधः ॥ एतद्विद्याधरं यत्रं हिङ्गलाकृष्टिहेतवे"-इति । इदमपि ज्ञेयम् - "मेषीक्षीराम्लवर्गाभ्यां दरदं धर्मभावितम् । शतधा तत्प्रयत्नेन शोष्यं पेष्यं खरातपे ॥ सितखर्णस्य पत्राणि लिवा लिप्त्वा पुटे चरेत् । एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काश्चनम्"-इति; प्रसङ्गादिदमपि प्रयोजनमुक्तम् ॥ १८ ॥ इदानीं लोहस्य शुद्धिमारणादिकमभिधत्तेरुक्मं रौप्यमयांसि शुल्बमुरगं रङ्गं घनं वर्तुलं घोषं लोहमिदं त्रयं च चरमं नानोपलोहं जगुः । कान्तं तीक्ष्णकमुण्डके त्रयमिदं तानि प्रशस्तं यथापूर्व शस्त्रभवं तु तीक्ष्णमितरत्साधारणोत्पादकम् ॥१९॥ टी-लोहं त्रिविधं--शुद्धलोह, पूतिलोहं, मिश्रलोहं च; एतत्रयमपि शुद्धलोहोपलोहाभ्यां द्विविधम् । रुक्मं सुवर्ण, रौप्यं रजतं, अयांसि मुण्ड तीक्ष्णकान्तमेदात्, तदा वहुवचनं सार्थकं; शुल्ब तानं, उरगं सीसं, रङ्गं त्रपु, धनं कांस्यं, वर्तुलं पित्तलजातिभेदः, घोषं पञ्चरसं वा। रुक्मादिषटुं मुख्यं लोहं, घनवर्तुलघोषाख्यत्रयमुपलोहं जगुः ‘रसज्ञा' इति शेषः (खपरसत्त्वं तु शीसकस्य मेदः, अतिरिक्तधातुरिति सर्वे)। तत्र सुवर्णस्य रौप्यस्य चैकैकरूपलाद्भेदमुपेक्ष्य लोकप्रसिद्धलोहमेदानाह-कान्तमित्यादि।-कान्तं कान्तसंज्ञकं, तीक्ष्णं गजवहयाख्यं 'पोलाद' इति या. वत् , मुण्डकं कटाहादिजनकं, इदं त्रयं यथापूर्व प्रशस्तं मुण्डकात्तीक्ष्णं तीक्ष्णात्कान्तम् । अत एवोक्तम्,-"किटाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शतोन्मितम् । कान्तं लक्षगुणं प्रोक्तं"-इति। तेषां लक्षणान्याह-शस्त्रभवं शस्त्रजनकं तीक्ष्णमित्युच्यते। इतरन्मुण्डं साधारणोत्पादकं कटाहराङ्गलाद्युत्पादकम् ॥ १९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144