Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
२०
रसपद्धतिः।
क्रियया शनैर्लघुपुटैर्भस्मनी सुवर्णपारदयोः स्यातां भवेताम्। भस्मपरीक्षामाहजाम्बवनिमे कृष्णारुणे । जम्ब्वाः फलं जाम्बवम् ॥ २१ ॥भस्मप्रकारान्तरमाहयद्वा कजलिकोपलिप्तमसकृद्धेनो दलं काश्चनत्वमध्यस्थितमन्धपात्रपुटितं द्विःसप्त भसीभवेत् ॥ २२ ॥ टी०--हेम्नो दलं कण्टकवेध्यं कृत्वा, वारंवारं पुटे पुटे कजलिका वक्ष्यमाणा, तया लेपितं किंचिच्र्छष्कं कृत्वा, काश्चनत्वमध्यस्थ कोविदारत्वपिण्डान्तरे विद्यमानमन्धमूषागतं कृत्वा, चतुर्दशधा पुटितं भस्मीभवेत् । इदं पत्राणामेव ॥ २२ ॥ कजली विनैव भस्मप्रकारमाहस्थूलं वा लघु किंच काञ्चनदलं त्रिः काञ्चनारिद्रवप्रक्लिद्यन्मृतशृङ्गलिप्तपुटितं भस्मत्वमापद्यते । टी०–हेमपत्रं पृथु कण्टकवेध्यं वा कोविदारद्रवभावितं मृतगवादिशृङ्गे न्यस्तं संविलिप्तं त्रिःपुटितं भस्मत्वमापद्यते । अथवा मृतं भस्मीकृतं शुझं मृद्दारलं, तेन विलिप्तम् । अत्र लोहमारणं अरिलोहेन न कर्तव्यं, किन्तु रसगन्धौषधीभिः; तदुक्तं-"लोहाना मारणं श्रेष्टं सर्वेषां रसभस्मना । मूलिमिर्मध्यमं प्राहुः कनिष्ठ गन्धकादिभिः ॥ अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् । धातुमिर्गन्धकायैश्व निर्देवैमर्दितो रसः ॥ सुश्लक्ष्णकन्जलाभासः कज्जलीत्यभिधीयते"-इति । अत्र तु हेनो द्रुतिरपि ज्ञेया । तदुक्तम्-"चूर्ण सुरेन्द्रगोपानां देवदालीफलद्रवैः । भावितं शतशो हेम करोति जलवद्रुतम् ॥ मण्डूकास्थिवसाटङ्कहयलालेन्द्रगोपकैः । प्रतीवापेन कनकं सुचिरं तिष्ठति द्रुतम्" इति । सुवर्ण पञ्चधा-प्राकृतसहजवह्निसंभूतखनिसंभवरसेन्द्रवेधसंभवमेदात् ; तेषामप्राप्तेः प्रकृतानुपयोगाश्च यल्लोके प्रसिद्धं तञ्चतुर्दशवर्ण ग्राह्यं, षोडशवर्णं तु देवादिषु प्रसिद्धम् । ततो न्यूनवर्ण चेत्पत्राणि कण्टकवेध्यानि कृत्वा लवणभस्मकाञ्जिकं दत्त्वा पुनः पुटानि दद्यात् । अन्धमूषा तु संप्रदायात् वज्रमृत्तिकया वर्तुलां कृत्वा तन्मध्ये गोलकं दत्त्वोपरि खर्परचक्रिकां दत्त्वा सप्त मृत्कर्पटान् दत्त्वा कुर्यात् ; अथवा मूषाखर्परयोः सन्धौ काचटकणादिकं दत्त्वा धमनं कुर्यात् । अन्धमूषापुटे तु प्रागुक्ते । तदुक्तम् ,-"निर्वक्त्रगोलकाकारा पुटनद्रव्यगर्भिणी । गोलमूषेति सा प्रोक्ता सत्वरं द्रव्यरोधिनी"-इति । प्रथमपुटं च गोवरैरेव । द्वितीयादिपुटे पुनर्गन्धकं दत्त्वा निम्बूरसेन मर्दयित्वा कुक्कुटं लावकं वा पुटं दद्यात् । एवं यावद्विहितं महापुटपर्यन्तं कुर्यात् । इदं च सर्वत्र लोहादिमारणे ज्ञेयम् । यदि तु तीक्ष्णादिलोहमा१ 'किञ्चित्तप्तं' इति पा०।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144