________________
रसपद्धतिः।
हितः । पुनः कीदृशः ? सर्वरसेषु अकुण्ठमहिमा अव्याहतशक्तिः । तदुक्तं"विषं वह्निर्मलश्चेति दोषा नैसर्गिकास्त्रयः। रसे मरणसंतापमूर्छानां हेतवः क्रमात् ॥ यौगिको नागवङ्गो द्वौ तौ जाड्याध्मानकुष्ठदौ । औपाधिकाः पुनश्चान्ये कीर्तिताः सप्त कञ्चकाः ॥ भूमिजा गिरिजा वार्जा द्वौ च द्वौ नागवङ्गजौ । द्वादशैते रसे दोषाः प्रोक्ता रसविशारदैः ॥ भूमिजाः कुर्वते कुष्ठं गिरिजा जाड्यमेव च । वारिजा वातसंघातं दोषाढ्यं नागवङ्गयोः ॥ तस्मात्सूतविधानार्थ सहायैर्निपुणैर्युतः । सर्वोपस्करमादाय रसकर्म समाचरेत् । द्वे सहस्रे पलानां तु सहस्रं शतमेव वा ॥ अष्टाविंशत्पलान्येव दश पञ्चैकमेव वा । पलार्धेनापि कर्तव्यः संस्कारः सूतकस्य हि ॥ सुदिने शुभनक्षत्रे रसशोधनमारमेत्' इति । रसरत्नाकरे तु दीपनानन्तरमर्नुवासनाख्यो नवमः संस्कारोऽस्ति । “दीपितं रसराजं तु जम्बीररससंयुतम् । दिनैकं धारयेद्धर्मे मृत्पात्रे वासितो भवेत्"-इत्यनुवासनम् । अत्र पात्रं महाचषक काचादिरचितं ज्ञेयम् । अत एवाह रसरत्नाकरः,-"खेदनादिनवकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् ॥ अष्टमांशमवशिष्यते यदा शुद्धसूत इति कथ्यते बुधैः” इति ॥ १४ ॥ इदानीमष्टौ संस्कारान्कर्तुमशक्तस्य भिषजः संक्षेपेण संस्कारानाहचिश्चाषट्वटुदुग्धकाञ्जिकवरास्विन्नस्त्रिघसं ततः कन्याव्योषवरानलार्कपयसा संमूर्छितो वासरम् । सार्धाशाभ्ररविस्विरूपतनैरुत्पन्नशुद्धिः खराड्योज्यः सर्वरसेषु शुद्धमतिभिः श्रीपारदः पारदः ॥१५॥ टी०-विश्वा तिन्तिडिकाफलं, षटु षडूषणं, दुग्धं रविदुग्धं, काञ्जिकं सौवीरं, वरा त्रिफला, एतेषां द्रव्याणां क्वाथ्यत्वं, द्रवाणां तु क्वाथत्वम् । तत्र रसस्य दोलायन्त्रेण स्वेदनं कार्यम् । तत्र कालनियममाह-त्रिघसं त्रिदिनम् । ततः कन्याव्योपवरानलार्कपयसा वासरं मर्दनेन संमूर्छितः कार्यः । रसस्य षोडशांशेनौषधानि, ततः सार्धाशाभ्ररविः सन् ऊर्ध्वपतनैत्रिभिरुत्पन्नशुद्धिः शुद्धमतिभिर्वैद्यैः सर्वरसेषु योज्यः । कथंभूतः पारदः ? श्रीपारदः, श्रियो लक्ष्म्याः पारं ददातीति श्रीपारदः । पुनः कीदृक् ? खराट् खेनैव राजत इति खराट् । एतावतैव शुद्धो भवतीति प्रतिपादितम् ॥ १५ ॥ एतदपेक्षया खल्पं शोधनमाहवर्षाभूतुलसीजलैरथ रसं संतप्तखल्वे समव्रीह्यभ्रं परिमर्प भूधरपुटे वज्रान्धमूषोदरे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com