________________
रसपद्धतिः।
उद्दीप्तेन तुषानलेन शनकैः संपाचितः सप्तधा शुद्धश्वोपरिपातयत्रपतितः सर्वोपयोगी रसः ॥१६॥ टी-अथेति विकल्पार्थे । संतप्तखल्वे लोहमये समव्रीह्यभ्रं रसं परिमर्य, वज्रान्धमूषोदरे संस्थाप्य, भूधरपुटे उद्दीप्तेन तुषानलेन शनकैः सप्तधा संपाचितः सन् शुद्धो भवति, पश्चादुपरिपातयन्त्रपतितो रसः सवोपयोगी भवतीति योजना। तप्तखल्वभूधरलक्षणं तु प्रागुक्तम् । वज्रमूषालक्षणं तु-"मृदस्त्रिभागाः शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः । किट्टार्धभागं परिखण्ड्य वज्रमूषां विध्यात्किल सत्त्वपाते"-इति । “गौर्वरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते। तद्गोवरपुटं प्रोकं रसभस्मप्रसिद्धये"-इति प्रतिपादितम् । ब्रीह्यभ्रोऽत्र धान्याभ्रकः । अन्धता तु उपरि चक्री दत्त्वा पूर्वोक्तमृदा वस्त्रेण छादनं, यद्वा मूषापिधानयोः सन्धौ काचचूर्ण दत्त्वा उपर्यग्निं दत्त्वा सन्धिलेपः कार्यः ॥ १६ ॥ शोधनान्तरमाहभूगर्तेऽजशकृत्तुषानलपुटे संस्थापिते लोहजे खल्वे जम्भलकाञ्जिकेन बलिना साध दशांशेन सः । संमोपरिपातयत्रविधिना निष्कासितः सप्तधा शुद्धः पारदकर्मठेनिगदितो वैद्यैरवद्येतरैः ॥ १७॥ टी-अज़शकृत्तुषानलयुक्ते भूगर्ते लोहजे खल्वे संस्थापिते सति, दशांशेन बलिना सार्धं सः रसः जम्भलकाचिकेन संमर्यः, पश्चादुपरिपातनयन्त्रेणोपरिपातनं, एवं सप्तधा निष्कासितः सन् शुद्धः पारदः पारदकर्मठैवैद्यैर्निगदितः । कीदृशैः? अवद्येतरैरत्युत्तमरित्यर्थः । बलिरत्र गन्धकः। जम्भलं जम्बीरं निम्बूफलं वा । अथवा दीपिकायन्त्रे निपातितः सर्वदोषनिर्मुक्तस्तिर्यक्पातन विधिना निपातितः सूतराजः स्यात् । दीपिकायन्त्रं तु— “कच्छपयन्त्रान्तर्गतमृन्मयपीठस्थदीपिकासंस्थः । यस्मिनिपतति सूतः प्रोक्तं तद्दीपिकायन्त्रम्"-इति । "भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत् । कांस्यपात्रद्वयं कृत्वा संपुटं जलगर्भितम् ॥ नलिकास्यं तत्र योज्यं दृढं तच्चापि कारयेत् । युक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र घटे रसः ॥ अमिना तापितो नालात्तोये तस्मिन्पतत्यधः । यावदुष्णं भवेत्सर्व भाजनं तावदेव हि ॥ जायते रससन्धानं दीपयन्त्रमिति स्मृतम्" इति ॥ १७॥ एतत्करणासमर्थेन हिड्डुलारपारदो निष्कास्यः, स रसेषु योज्य इत्याहहिङ्गलात्पृथुपारिभद्रकरसैर्वा जम्भवारा दिनं पिष्टादूर्ध्वगपातयन्त्र विधिना निष्कासयेत्पारदम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com