Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
११
तत्र पातनायन्त्रप्रकारमाह
कृत्वा मृन्मयभाण्डसंपुटमधः प्रक्षिप्य भाव तुर्याशार्क कणैर्मनाक्सकरकैः संमर्ध पिण्डीकृतम्' अन्यस्मिन् रचितोर्ध्ववारिणि मृदा संरुद्धसंधौ सुधीः पक्त्वा त्रिप्रहरं समेन शुचिना भाण्डे तमूर्ध्व नयेत् ॥ ९ ॥
टी० -- मृन्मयभाण्डं संपुटं कृत्वा मुखेन मुखं संलग्नं कृत्वेत्यर्थः । अत्राधोभाण्डोदरे पिण्डीकृतं रसं प्रक्षिप्य । किं कृत्वा पिण्डीकृतम् ? चतुर्थाशताम्ररजोभिः संमर्थ, मनागीषत्, सकरकैः करकः गारपाषाण इति लोके प्रसिद्ध:, तेन संमर्ध सम्यङ्मर्दनं कृत्वेत्यर्थः । पुनः कीदृशे अन्यस्मिन्भाण्डे ? रचितोर्ध्ववारिणि पृष्ठे मृदादिना आलवालं कृत्वा रचितोर्ध्ववारित्वम् । तच्च संप्रदायादुष्णं जलं निष्कास्य पुनः शीतं प्रक्षेप्यम् । अथवा वस्त्रखण्डेन पुनः पुनर्जलं निष्कास्यान्यजलेनाप्लवनं कार्यम् । कीदृशे ? मृदा संरुद्धसंधौ । मृदा संरुद्धः सन्धिर्यस्य तस्मिन्, सुधीः पण्डितो भिषक् । समेन नाधिकन्यूनेन, एकरूपेण दीप्ताभिना इत्यर्थः । शुचिना वह्निना, त्रिप्रहरं यामत्रयं पक्त्वा पाकं कृत्वा, ऊर्ध्वभाण्डे नयेत् प्रापयेदित्यर्थः । अत्र भाण्डसंपुट प्रतिपादनाट्टमरुकाख्यं यन्त्रं लभ्यते । तस्य रसभस्मनि विधानात्तदेवात्र ग्राह्यम् । ) तलक्षणं तु - "यत्र स्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरोधयेत् । यन्त्रं डमरुकाख्यं तद्रसभस्मकृते हितम्” – इति । मृञ्चात्र “खटिकापटुकिट्टैश्व महिषीदुग्धमर्दितैः । वह्निमृत्स्ना भवेद्घोरवह्नितापसहा खलु” – इति । तोयमृदपि, "लेहवत्कृतबच्चूलक्काथेन परिमर्दितम् । जीर्ण किट्टरजः सूक्ष्मं गुडचूर्णसमन्वितम् ॥ इयं हि जलमृत्प्रोक्ता दुर्भेद्या सलिलैः खलु” – इति । इयं मृद्यथासंभवं योज्या । एतदभावे कौलालमृत्तिकया एव सर्व कार्यम् । रसरत्नसमुच्चये तु–“अष्टाङ्गुलपरीणाहमानाहेन दशाङ्गुलम् । चतुरङ्गुलकोत्सेधतोयाधारं गलादधः ॥ अधोभाण्डे मुखं तस्य भाण्डस्योपरिवर्तिनः । षोडशाङ्गुलविस्तीर्णपृष्ठस्यास्ये प्रवेशयेत् ॥ पार्श्वयोर्महिषी क्षीरचूर्णमण्डूर फाणितैः । लिप्त्वा विशोषयेत्सन्धि जलाधारे जलं क्षिपेत् ॥ चुलयामारोपयेदेतत्पातनायन्त्रमीरितम् । अथोर्ध्वभाजने क्षिप्तं स्थापितं तज्जले सुधीः ॥ दीप्तैर्वनोपलैः कुर्यादधःपातं प्रयत्नतः” – इति । ऊर्ध्वपातनयन्त्रं तु कुलालेन कारणीयम् । इति यन्त्रद्वयं ज्ञेयम् । 'शुल्बेन पातयेत्पिष्टिं त्रिधोर्ध्व सप्तधा त्वधः' इति वचनात्रिधा सप्तधा वा कुर्यात् । रसरत्नाकरे तु – “काकमाची जया ब्राह्मी चाङ्गेरी रक्तचित्रकम् । अङ्कोलो राजवृक्षच तिलपर्णी कुमारिका ॥ मण्डूकी चित्रकः पाठा काकजङ्घा शतावरी । भूपाटली देवदाली निर्गुण्डी गिरिकर्णिका ॥ शङ्खपुष्ष्यार्द्रकं भृङ्गी गोजिह्वा क्षीरकन्दकम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144