Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 19
________________ पूजयेत् । पश्चाद्धैरव्याद्यष्टयोगिनीचक्रं यथासंप्रदायं पूजयेत् । पट्टशिष्यः स्वहस्तमस्तकयोगेनैकः कार्यः । एका कालिनी स्त्री साऽपि मन्त्राराधनार्थं संपादनीया तरुण्येव । एवं मन्त्राराधनं ताभ्यां कारणीयम् । तत्र पट्कोणमण्डले रसखल्वं स्थापयित्वा षदकोणेषु वज्रवैकान्ताभ्रककान्तटङ्कणभूनागान्गन्धतालककासीसशिलाकष्टकांक्षीराजावर्तगैरिकानष्टदलेषु पूर्वादिक्रमेण पूजयित्वा रसकविमलताप्यतुत्थचपलाजनहिङ्गुलसस्यकान् पत्राग्रेषु, स्वर्ण रौप्यं पूर्वद्वारे, ताम्रसीसकं दक्षिणद्वारे, वङ्गकान्तौ पश्चिमद्वारे, उत्तरे मुण्डतीक्ष्णको अघोरेण पूजयेत् । अत्र संभाराः संपादनीयाः-बिडकाजिकक्षारमृल्लवणयन्त्राणि, कोष्टीमूषावनालतुपाङ्गारवनोपलभस्त्रिकानलिकाः शिलाखल्बोलुखलमुसलानि वर्णताम्रलोहकारोपकरणानि सर्वाणि, समस्ततुलनानि, दिव्योषधीवर्गरक्षकवर्गस्नेहवर्गमूत्राण्यम्लफलानि सर्वाणि संग्राहयेत् । यद्यदुपयुक्तमन्यत्सर्वं तत्तद्देशेभ्यः संग्राहयेत् । गुरुभक्तिश्च सर्वदा कार्या । अथ परिभाषोच्यते-गन्धकाद्यैः समभागेन मर्दितो रसः कज्जलाभासः सा कजली, द्रवेण मर्दिता सैव पङ्कः, द्वादशभागपरिमितो रसस्तन्मध्ये गुञ्जाद्वयमात्रं गन्धकं निष्काध वा दत्त्वा तीव्रधर्म मर्दिता नवनीतरूपा पिष्टिभवति । सेव दुग्धयुक्तेन गन्धकेन मर्दिता अन्या पिष्टिर्भवति । एवं वङ्गादिष्वपि भवति । रसाच्चतुर्थांशसुवर्णेन मर्दिता पातनपिष्टिर्भवति, रूप्यसुवर्णयोः रसगन्धाभ्यां हतयोः बहुशः समुत्थितयोर्या कृष्टी सा हेमकृष्टी रजतकृष्टीत्युच्यते। सा च हेमकृष्टी सुवर्णमध्ये दत्ता तं न नाशयति रञ्जनं च करोति । तथा तानं तीक्ष्णेन सह ध्मातं मिश्रितं सगन्धके लकुचाम्ले एकविंशतिवारं निक्षिप्तं वरलोहकं भवति । तेन रक्तीकृतं सुवर्ण हेमरक्तीत्युच्यते, द्रुतयोः स्वर्णतारयोनिक्षिप्ता वोत्कर्षकारिणी रञ्जनी च भवति; एवं ताररक्ती कर्तव्या। मृतेन रसेन वद्धरसेन वाऽन्यलोहं साधितं सितं पीतं च भवति, तच्चन्द्रानलदलं ज्ञेयम् । माक्षिकेण तानं हत्वा दशवारमुत्थाप्य तद्वन्नागमप्युत्थापितमुभयं चतुष्पलं नीलाञ्जनहतं कृत्वा पुनः सप्तवारमुत्थितं शुल्बनागं भवति । तेन साधितः पारदो गुटिकाकारो मेहवलीपलितादि हर्ता भवति । लोहान्तरे क्षिप्तं लोहं वहुधा मातं निर्वापितं बहुशः यदा पाण्डुपीतप्रभं भवति तदा पिञ्जरीत्युच्यते । षोडश तारस्य भागाः, द्वादश ताम्रस्य, एकत्रावर्तिताश्चन्द्राकमित्युच्यते । त्रिंशत्पलमितं नागमर्कदुग्धेन मर्दितं सहस्रपुटैः यदा अर्धकर्षावशेषं भवति तदा नागसंभवश्चपलस्तस्य रजसा स्पृष्टमात्रः पारदः बद्धो भवति। एवमेव वङ्गस्यापि कार्यः। अन्याः परिभाषा यथाप्रकरणे उदाहरिष्यन्ते ॥ ५॥ खेदनादीन्यष्टौ प्रतिज्ञातानि, तत्र स्वेदनमाहकाथे त्र्यूषणकन्यकानलवरामीनोरगाक्षीस्नुहां काथ्यादष्टगुणारनालमिलितं तत्षोडशांशीकृतम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144