________________
दलोपीसमास आश्रीयते, तत्र च न प्राधान्याप्राधान्ये विवक्षिते इति न विरोधः । निष्कपटमिति क्रियाविशेषणम् । सैव सर्वदा साक्षितया हृदये परिस्फुरतीति ध्वन्यते । कया ? निरञ्जनधिया, अञ्जनं रजस्तमोभ्यां संवलनं, तस्मानिर्गतधियेत्यर्थः । एवं च रागद्वेषविनिर्मुक्तशुद्धसत्त्वधिया सर्वदा भावनमेव नमनम् । क्त्वाप्रत्ययेन भावनस्य ग्रन्थात्पूर्वकालत्वं द्योत्यते । निर्विघ्नमिति विघ्नाभावमित्यर्थः । क्रियाविशेषणे तु विघ्नाभावक्रियायां वैशिष्टयं न प्रतिपादयति । न च निपुणानां सर्वेषामपीयमुपयोगाय भवेदिति चेत्तत्राह-आयुर्वेदविदामिति । अष्टानहृदयवेदिनामित्यर्थः । एतेनैतदुक्तं-अष्टाङ्गहृदयवेदिनामेवात्राधिकारो न तु याहशतादृशाम् ॥ १॥ इदानी चिकित्सासखीत्युक्तं तत्र चिकित्सा विभजतेसा दैवी प्रथमा सुसंकृतरसैर्या निर्मिता सद्रसैशूर्णस्नेहकषायलेहरचिता स्यान्मानवी मध्यमा । शस्त्रच्छेदनलास्यलक्ष्मणकृताचाराधमा साऽऽसुरीत्यायुर्वेदरहस्यमेतदखिलं तिस्रश्चिकित्सा मताः ॥२॥ टी०-सुसंस्कृतरसैः सद्रसैर्या निर्मिता सा दैवी, सा प्रथमा । सद्रसाः ज्वराङ्कुशादयः। सुसंस्कृताः शुद्धिभस्मसत्त्वद्रुत्यादिभिः कर्मभिः, रसाः रसोपरसमहारससाधारणलोहमण्यादयो विद्यन्ते येषु ते, तैः । दैवी देवैर्महेश्वरादिभिरचिन्त्यप्रभावैर्योगिभिर्निर्मिता कथिता; सा प्रथमा उत्तमेत्यर्थः। मध्यमामाह-चूर्णस्नेहकषायलेहरचिता कथिता या सा मानवी; सा मध्यमा । चूर्ण क्षुण्णं द्रव्यं; स्नेहो घृततैलादिः; कषायो जलं, तेन च खरसादयो ग्राह्याः; लेहो गुडादिनिर्मितः पाकः, तेन गुटिकाऽपि संगृहीता; तै रचिता कृता या सा मानवी मनुष्यप्रोक्ता, सा मध्यमा न न्यूना नोत्तमा । हीनामाह-शस्त्रेत्यादि-शस्त्रच्छेदनलास्यलक्ष्मणकृताचाराधमा सा आसुरी सा अधमेत्यन्वयः। शस्त्राणि षड्विंशतिसंख्यानि तैः कृतानि छेदनादीनि कर्माणि तान्येव लास्यलक्ष्मणानि तैः कृतः आचारो यस्याः सा; आसुरी असुरैः प्रोक्ता शल्यतन्त्रविषया, सा चाधमा नीचेत्यर्थः । इति तिस्रश्चिकित्साः । एतदखिलमायुर्वेदरहस्यं तात्पर्यविषयीभूतं गोप्यमित्यर्थः ॥ २ ॥ इदानीमुद्देशसंगतिं द्योतयन् दैवी चिकित्सां प्रतिजानीतेतत्रादावभिधीयते बहुविधा दैवी चिकित्सात्र च प्राक्सत्पारदकर्म साङ्गममलं पश्चाच्च ते ते रसाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com