________________
श्रीमहादेवविरचितव्याख्यासहिता श्रीविन्दुपण्डितविरचिता रसपद्धतिः ।
शिवां प्रणम्य शिरसा शास्त्रसारं विभाव्य हि। भिषग्वरो महादेवो व्याख्याति रसपद्धतिम् ॥ १ ॥ मुरली नवरसखुरली यस्य च वंशः स्वरत्रयीवंशः।
करणं कविताभरणं शरणं करवाणि तन्महस्तरुणम् ॥ २॥ प्रत्यूहव्यूहव्यपोहहेतुस्वेष्टदेवताप्रणामपूर्वकं रसपद्धतिरूपं ग्रन्थं प्रतिजानीतेनत्वा निष्कपटं निरञ्जनधिया निर्विघ्नमीशप्रियामायुर्वेदविदां मुदे सुभिषजामेषा मया विन्दुना । ग्रन्थेभ्यः परिगृह्य सारमखिलं सूत्रश्चिकित्सासखी.. वृक्षेभ्यः स्रगिव प्रसूननिचयैः संग्रथ्यते पद्धतिः॥१॥ टी०-नत्वेत्यादि । विन्दुना मया सुभिषजां मुदे रसपद्धतिः संग्रथ्यत इत्यन्वयः । विन्दुः पण्डितः, "ज्ञाता तु विदुरो विन्दुः” इत्यमरः । ज्ञात्रा मया, अपरं विन्दुपण्डितनाम्ना, अतिनिपुणा ये भिषजस्तेषां मुदे तेषां प्रीतये, पद्धतिः रसविद्यारूपः प्रसिद्धो मार्गः, संग्रथ्यते वाक्यरचनारूपेण रच्यत इत्यर्थः; तथा च रसपद्धतिनामको ग्रन्थ इति सिद्धम् ।ग्रन्थस्यास्य खकपोलकल्पितत्वशङ्कां निराकतुमाह---ग्रन्थेभ्य इति।-ग्रन्थाः सप्तविंशतिसंख्याकरसशास्त्रप्रणेतृकर्तृकाः, तेभ्यः सारं निसृष्टार्थजातं,अखिलं न न्यूनातिरिक्तं, परिगृह्य ज्ञात्वेत्यर्थः । कै रच्यत इत्यत आह-सूत्रैरिति ।-सूत्रणात्सूत्राणि तैः, वाक्यैरिति यावत् । अत्र समुचितदृष्टान्तमाह-वृक्षेभ्य इति । यथा वृक्षेभ्यः प्रसूननिचयं संगृह्य, सूत्रैः स्रक् संग्रथ्यते; स्रक माला, निचयशब्दः प्रभूतार्थत्वं द्योतयति । कीदृशी ? चिकित्सासखी, चिकिसैव सखी यस्याः सा । इदं च विशेषणमभिधेयत्वप्रतिपादनार्थम् । 'मार्गे हि सखी अवश्यं भवति, इति लोकोक्तिः । किं कृत्वा ? ईशप्रियां नत्वा; ईशेन युक्ता प्रिया ईशप्रिया, अर्धनारीनटेश्वरं नत्वा नमस्कृत्य; यद्यपि ईशस्य प्रिया ईशप्रियेतीशस्याप्राधान्यं भवति तथाऽपि 'न शिवेन विना शक्तिः' इत्यागमात् मध्यमप१ अन्यूनानतिरिक्त' इति पा० । २ ‘सूचनात्' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com