Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 15
________________ ३ मुख्यत्वाद्रसकर्मणि प्रियतया पृथ्वीपतीनां तथा सम्यक्सर्वर सैककारणतयाऽप्यभ्यर्हितत्वादपि ॥ ३ ॥ - , टी० - तासु, आदौ प्रथमतः । अभिधीयते उच्यते । बहुविधा नानाप्रकारका । चिकित्सा व्याधिप्रतीकारः । अत्रैव च दैवीचिकित्सायां प्राक्पारदकर्माभिधीयत इत्यन्वयः । पारदानात्पारदः, तस्य कर्म संस्काराः, ते चाष्टादश, तेषु प्रधानत्वादष्टौ संस्कारा अभिधीयन्ते । कीदृशं ? साङ्गं, अङ्गानि यन्त्रौषधादिरचनाः, तैः सह वर्तमानं कर्म । अमलं निर्दूषणम् । चः समुच्चये तेन तदुपयोगिमहारसोपरससाधारणरसलोहादीनां शुद्धयादिकर्म समुच्चीयते । पश्चाच्च ते ते रसाः राजमृगाङ्कादयः निरूप्यन्ते । अत्र संगतिमाह — मुख्यत्वादिति । रसस्य शुद्धस्य सर्वोपयोगित्वात्, 'अशुद्धो मारयति' इति वचनाच्च । एतेन फलोपधानं प्रतिपादितम् । रसकर्मणि पारदशोधनादौ पारदस्य मुख्यत्वात् तेन न पौनरुक्त्यम् । द्वितीय हेतुमाह - पृथ्वीपतीनामित्यादि । राज्ञां प्रियत्वात्; एतेन कामपुरुषार्थसंपादकत्वेन भिषजोऽर्थसिद्धिश्च द्योतिता । हेत्वन्तरमाह - तथेति । सर्वे रसा वक्ष्यमाणास्तेषामसाधारणकारणत्वेनाभ्यर्हितत्वात् । तेन यागादिवद्रसकर्मणोऽवश्यकर्तव्यत्वं प्रतिपादितम् । अत एवोक्तम्, – “रसबन्ध एव धन्यः प्रारम्भे यस्य सततमितिकरुणा । सिद्धे रसे करिष्ये महीमहं निर्जरामरणाम् || मूर्च्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति । अमरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् ” - इति । उपसंहारे चोक्तम्, – “तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमम् । दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात् ” - इति । “सिद्धे रसे करिष्यामि निर्दारिद्र्यमिदं जगत् ' इत्यादिफलश्रवणात् तत्र सर्वदा यतनीयम् ॥ ३ ॥ "" रसखरूपमाह श्यामोऽन्तर्वहिरुज्ज्वलः किल रसः सप्तात्र दोषा अमी arit aai aorपलता वह्निगिरेर्जन्मजाः । गण्डश्वित्रकमृत्युवान्तिचलतासन्तापजाड्यादद्यचैतेभ्यः क्रमशो भवन्ति विविधा रोगा दुराराधनाः ॥ ४ ॥ टी० - बहिरुज्वल इति स्वरूपकथनम् । किलेति श्रूयते, तेन आख्यायिका सूचिता । सा चेत्थम् — परस्परजयाशया प्रीत्या प्रवृत्तयोः शिवयोः संभोग त्रैलोक्यस्य क्षोभः समभवत्, तन्निवारणार्थं तत्र वह्निः कपोतरूपेणाविरासीत्, तं दृष्ट्वा लज्जितः शम्भुस्तस्माद्विनिवृत्तः तेन स्खलितो धातुश्वरमः, तं पाणिना गृहीत्वा वह्निमुखे दत्तः, ततस्तं सोढुमशक्तो वह्निर्गङ्गायामपातयत्, तयाऽपि बहिरुत्क्षिप्तः, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144