________________
यद्यप्यवगीतार्था न वा कठोरप्रकृष्टभावार्था । सद्भिस्तथाऽपि मय्यनुकम्पैकरसैरनुग्राह्या ॥ ८ ॥ यद्यपि वक्ष्यमाणदोषयुक्ता तथापि सद्भिरनुग्राह्येति सम्बन्धः । दोषानेवाहअवगीतार्था-अनादरणीयाभिधेया, वर्तत इति शेषः । तथा न वा कठोरप्रकृष्टभावार्था-नवेति निषेधे कठोरो-विबुधजनयोग्यो गम्भीर इत्यर्थः, प्रकृष्टःप्रधानो भावार्थः-पदाभिधेयो यस्यां सा तथा, अगम्भीरप्रधान-भावार्थेत्यर्थः । यद्वा नवा-नूतना आधुनिककविकृतत्वात् तथा अकारप्रश्लेषात् न विद्यते कठोरप्रकृष्टभावार्थो यस्यां सा तथा । सद्भिः-सज्जनैः । तथापि-एवमपि । मयीति विषयभूतात्मनिर्देशः, अनुकम्पैकरसैः-दयाप्रधानमानसैरनुग्राह्याअङ्गीकर्तव्या । इत्यार्यार्थः ॥ ८ ॥
શ્રુતવચનરૂપ ધા કણો અસાર હોવાથી તેમને ભેગા કરીને રચેલી આ પ્રશમરતિ સજજનોને આદર કરવા યોગ્ય ન જ હોય એથી કહે છે (=स४४नोने प्रार्थन। ४३ छ)
ગાથાર્થ- જો કે આ પ્રશમરતિમાં જે કહેવાનું છે તે આદરણીય નથી, તથા આમાં વિબુધજનને યોગ્ય ગંભીર અને શ્રેષ્ઠ ભાવાર્થો નથી, તો પણ મારા પ્રત્યે જેમના મનમાં દયાની પ્રધાનતા છે તેવા સજ્જનોએ આ प्रशमति स्वी२वी. (८)
इत्यभ्यर्थना कृता, यद्वा स्वभावत एव सन्तो दोषत्यागेन गुणानेव ग्रहीष्यन्तीत्यावेदयन्नाह
कोऽत्र निमित्तं वक्ष्यति, निसर्गमतिसुनिपुणोऽपि वाद्यन्यत् । दोषमलिनेऽपि सन्तो, यद् गुणसारग्रहणदक्षाः ॥ ९ ॥
को ? न कश्चिदित्यर्थः । अत्र-सौजन्यविचारे निमित्तं-कारणमन्यद्-इतरद् वक्ष्यति-भणिष्यति, वादी-जल्पाक इति योगः । कीदृशः ? निसर्गमत्यास्वभावबुद्ध्या, सुनिपुणोऽपि, आस्तां अनीदृशः । यद्-यस्मात्, सन्तः१. अनादरणीयाभिधेया ५६मां सभासविडसा प्रभो छ- अनादरणीयं अभिधेयं यस्यां सा अनादरणीयाभिधेया ।
પ્રશમરતિ - ૧૧