________________
હલાવવાથી પાણીમાં શુદ્ધિ-અશુદ્ધિનું મિશ્રણ થાય છે તેમ, કર્મના ઉપશમ રૂપ શુદ્ધિના અને કર્મના ઉદયરૂપ અશુદ્ધિના મિશ્રણથી થતો પરિણામ.
ઔદયિકઃકર્મના ઉદયથી થતો પરિણામ. પરિણામિક=પરિણામથી (=પોતાના જ સ્વાભાવિક સ્વરૂપથી) થયેલ (भाव (धर्म).] (१८६)
एतेषां क्रमेण भेदानाचष्टेते त्वेकविंशतित्रिद्विनवाष्टादशविधास्तु विज्ञेयाः । षष्ठश्च सान्निपातिक, इत्यन्यः पञ्चदशभेदः ॥ १९७ ॥ ते पुनरेकविंशतिश्च त्रयश्च द्वे च नव चाष्टादश च ते तथा ते विधाभेदा येषामिति समासो, विज्ञेया इति घटना । तत्र कर्मोदये भवः कर्मोदयनिर्वृत्तो वा (ग्रंथ ११००) औदयिकः स एकविंशतिभेदः, तत्र गतयो नारकाद्याश्चतुर्धा ४ कषायाश्चतुर्धा ४ लिङ्गत्रयं ३ मिथ्यात्वमेकप्रकारं १ अज्ञानं च १ असंयतत्वं च १ असिद्धत्वं च १ लेश्याः षट्प्रकाराः ६, एते गत्यादयः सर्वे कर्मोदयात्प्रादुर्भवन्ति, अत्र गतिग्रहणेन शेषभवोपग्राहिकर्म गृहीतं, कषायादिना घातिकर्म गृहीतं, इदं च गन्धहस्तिना भणितमास्ते, तर्हि अज्ञानादीनि कथमौदयिके भावे ?, सत्यं, तत्कार्यत्वात्तेषामौदयिकता भावनीया । तथा अनादिपारिणामिको भावस्त्रिधा-जीवत्वं १ भव्यत्वं १ अभव्यत्वं १ चेति, नैते कर्मोदयाद्यपेक्षन्ते । तथा कर्मोपशमनिमित्त औपशमिकः, सम्यकत्वं १ चारित्रं २ चेति द्विविधः । तथा क्षयोत्थःकर्मक्षयाज्जातः क्षायिकः, स नवभेदः-केवलज्ञानं १ केवलदर्शनं १ दानलब्धिप्रभृतयः ५ सम्यक्त्वं १ चारित्रं १ चेति । तथा क्षयोपशमजःक्षायोपशमिकः, सोऽष्टादशभेदो, मतिज्ञानादिज्ञानं चतुर्विधं ४ मत्यादि अज्ञानत्रयं ३ दर्शनं चक्षुरादि त्रिविधं ३ दानादिलब्धयः ५ सम्यक्त्वं १ चारित्रं १ संयमासंयमश्चेति १, तथा षष्ठश्च सान्निपातिकश्चेति, सन्निपातःसंयोगः, स प्रयोजनमस्येति सान्निपातिकः- संयोगजो भावः, तत्र पञ्चभावानामौदयिकादीनां द्विकादिसंयोगेन षड्विशतिर्भङ्गा भवन्ति, तत्र
પ્રશમરતિ • ૧૫૦