Book Title: Prashamrati Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 257
________________ सामायिकं च कृत्वा, पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्प्यं, विधिवत्पात्रेषु विनियोज्य ॥ ३०४ ॥ तथा सामायिकं च कृत्वा - विधाय पौषधं उपभोगस्य पारिमाण्यंपरिमाणकरणं तच्च । न्यायागतं च- नीत्यागतं च । किमेवंविधं ? कल्प्यंकल्पनीयमन्नादि । केन ? विधिना, पात्रेषु चारित्रिषु विनियोज्य, दिग्व्रतादि कृत्वेति सम्बन्धः। व्यत्ययनिर्देशश्छन्दोऽर्थ इति ॥ ३०४ ॥ चैत्यायतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः । पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः ॥ ३०५ ॥ चैत्यायतनप्रतिष्ठापनानि - बिम्बगृहप्रतिष्ठाः कृत्वेत्यादि पूर्वक्रियाणां सिद्धिमेष्यतीत्युत्तरक्रियया सम्बन्धः । चाः समुच्चयार्थाः । कथं ? शक्तितः प्रयतः-आदरवान्, पूजाश्च कृत्वेति सम्बन्धः । कीदृशीः ? गन्धमाल्याधिवासधूपप्रदीपाः कृतद्वन्द्वाः आद्या यासां तास्तथा ताः कर्मतापन्ना इति ॥ ३०५ ॥ , प्रशमरतिनित्यतृषितो, जिनगुरुसाधुजनवन्दनाभिरतः । संलेखनां च काले, योगेनाराध्य सुविशुद्धाम् ॥ ३०६ ॥ कीदृशः ? प्रशमरतिनित्यतृषितः - उपशमे नित्यं पिपासितः, तथा जिना - दीनां कृतद्वन्द्वानां वन्दनाभिरतः स तथा । तथा संलेखनां च शरीरोपकरणकषायसंकोचरूपां च काले- अवसरे योगेन- व्यापारेणाराध्य - आसेव्य सुविशुद्धांशास्त्रोक्तामिति ॥ ३०६ ॥ प्राप्तः कल्पेष्विन्द्रत्वं वा सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरूपम् ॥ ३०७ ॥ ततः प्राप्तः। केषु किं ? कल्पेषु - सौधर्मादिषु इन्द्रत्वं सामानिकत्वमन्यद्वा स्थानमुदारं- प्रधानं । तत्र तेषु स्थानेषु अनुभूय च संवेद्य च सुखं- शर्म तदनुरूपं निजस्थानकानुसदृशमिति ॥ ३०७ ॥ नरलोकमेत्य सर्वगुणसम्पदं दुर्लभां पुनर्लब्ध्वा । शुद्धः स सिद्धिमेष्यति, भवाष्टकाभ्यन्तरे नियमात् ॥ ३०८ ॥ પ્રશમરતિ ૦ ૨૪૪

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272