________________
सादिकं यस्मिन् समये स सिद्धोऽजनि तमेवादिं कृत्वा अनन्तं पुनः क्षयाभावाद् अनुपमं-उपमातीतं अव्याबाधसुखं - व्याबाधारहितं सातमुत्तमं - सर्वोत्कृष्टं प्राप्तो- गतवान् । तथा केवलानि - अद्वितीयानि सम्यक्त्वज्ञानदर्शनान्यात्मा-स्वरूपं यस्य स तथा । भवति मुक्तः कृत्स्नकर्मक्षयादिति ॥ २८९ ॥
ગાથાર્થ– સિદ્ધ થયેલ જીવ સાદિ, અનંત, અનુપમ અને અવ્યાબાધ जेवुं उत्तम सुख पामे छे तथा भुक्त ने (केवल =) अद्वितीय सभ्यत्वકેવલજ્ઞાન-કેવલદર્શન સ્વરૂપ થાય છે.
ટીકાર્થ- સાદિ=આદિથી સહિત તે સાદિ. જીવ જે સમયે સિદ્ધ થયો એ સમયની અપેક્ષાએ તે આદિથી સહિત છે.
અનંત=ક્ષય ન થવાથી અનંત છે.
અનુપમ=કોઇ સુખની સાથે સરખાવી શકાય તેવું ન હોવાથી અનુપમ છે.
અવ્યાબાધ=પીડાથી રહિત.
મુક્ત=સર્વ કર્મોનો ક્ષય થવાથી મુક્ત છે. (૨૮૯) केषाञ्चिदभावमात्रं मोक्षस्तन्निराकरणमाह—
मुक्तः सन्नाभावः, स्वालक्षण्यात् स्वतोऽर्थसिद्धेश्च । भावान्तरसंक्रान्तेः, सर्वज्ञोपदेशाच्च ॥ २९० ॥
मुक्तः सन् जीवो नाभावो - नैवासद्रूपः । कुतः ? स्वालक्षण्याद् - -उपयोगलक्षणो जीव इति स्वरूपाद्धेतोः, अवस्थितोपयोगेन सततं व्याप्तत्वाज्जीवस्य । इदमपि कुतः ? स्वतोऽर्थसिद्धेः- जीवस्वाभाव्यादेवार्थानां ज्ञानोपयोगादीनां सिर्द्धिजीवस्य निर्हेतुकैव तस्मात् स्वतोऽर्थसिद्धेः । यद्यपि छाद्मस्थितोपयोगात् कैवल्योपयोगान्तरमुदेति तथाऽप्युपयोगसाम्यान्न भिद्यते ज्ञानस्वभावत्वादि । तथा भावान्तरसंक्रान्तेः सकाशान्मुक्तो नाभावो, भावो हि भावान्तरत्वेन संक्रामति, न सर्वथोच्छिद्यते प्रदीपवत्, यथा प्रदीपो भास्वररूपतामपहाय तामसरूपतां याति । तथा सर्वज्ञाज्ञोपदेशाच्च हेतोर्नाभावो, जिनागमभणनाच्चेति ॥ २९० ॥
કેટલાકોના મતે મોક્ષ માત્ર અભાવ સ્વરૂપ છે. તેના નિરાકરણને કહે છે— પ્રશમરતિ ૦ ૨૩૫