Book Title: Prashamrati Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 246
________________ सर्वगतियोग्यसंसारमूलकरणानि सर्वभावानि । औदारिकतैजसकार्मणानि सर्वात्मना त्यक्त्वा ॥ २८६ ॥ देहत्रयनिर्मुक्तः, प्राप्यर्जु श्रेणिवीतिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोर्ध्वमप्रतिघः ॥ २८७ ॥ सिद्धिक्षेत्रे विमले, जन्मजरामरणरोगनिर्मुक्तः । लोकाग्रगतः सिद्ध्यति, साकारेणोपयोगेन ॥ २८८ ॥ सर्वगतियोग्यश्चासौ संसारश्च तस्य मूलकरणानि - अस्य हेतवस्तानि तथा, किल एतेषु सत्सु सर्वगतयो बध्यन्ते, तथा सर्वान् भावान्-शुभाशुभादीन् सर्वत्र भवन्तीति सर्वभावानि, यद्वा पाठान्तरतः सर्वत्र भवनशीलानि सर्वभावानि । कान्येवंविधानीत्याह - औदारिकतैजसकार्मणानि प्रसिद्धानि सर्वात्मना त्यक्त्वा - विहायेति ॥ २८६ ॥ देहत्रयनिर्मुक्तः-अपगताशेषदेहत्रयकरणपञ्चाशीतिकर्मा, तथा प्राप्य - लब्ध्वा ऋजुश्रेणिवीति- अवक्र श्रेणिगति, विशिष्टा इतिर्वीतिरितिकृत्वा, अस्पर्शाम् अकृतप्रदेशान्तरसमयान्तरसंस्पर्शां, येनैव समयेन गच्छति येष्वेव चाकाशप्रदेशेषु समारूढो गच्छति न तत् समयान्तरं प्रदेशान्तरं वा स्पृशतीत्यर्थः । समयेनैकेनाविग्रहेण गत्वोर्ध्व ऊर्ध्वगतिं तिर्यगादिव्यवच्छेदेन अप्रतिघो-न केनचिदपि प्रतिहन्तुं शक्य इति ॥ २८७ ॥ सिद्धिक्षेत्रे विमले - अशेषजन्मजरामरणरोगरहिते । स कीदृश: ? जन्मजरामरणरोगैः प्रसिद्धैर्निर्मुक्तः स तथा । लोकाग्रगतो-लोकान्तप्राप्तः । त्यक्त्वा प्राप्य गत्वेति पूर्वक्रिया - त्रयस्योत्तरक्रियामाह-सिद्ध्यति - सिद्धो भवति साकारेणोपयोगेन-केवलज्ञानोपयोगेन । ततः परमुपयोगद्वयं सिद्धानामिति ॥ २८८ ॥ હવે જીવ જેને છોડીને સિદ્ધ થાય છે, જેવી ગતિને પામેલો સિદ્ધ થાય છે, જેવા સિદ્ધક્ષેત્રને પામે છે, તે જેવો થાય છે, જે રીતે તેની ઊર્ધ્વગતિ જ થાય છે, તેને જેવું સુખ હોય, આ બધું કહેવાની ઇચ્છાવાળા ગ્રંથકાર કહે છે– ગાથાર્થ– સર્વગતિને યોગ્ય એવા સંસારનાં મૂળ કારણ અને શુભાશુભ વગેરે સર્વ વસ્તુઓને ઉત્પન્ન કરનારા ઔદારિક-તૈજસ-કાર્યણ શરીરોનો પ્રશમરતિ ૦ ૨૩૩

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272