Book Title: Prashamrati Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 250
________________ त्यक्त्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा । न स तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच्च ॥ २९१ ॥ त्यक्त्वा-हित्वा । किं ? शरीरमेव बन्धनं इहैव-मनुजभवे । तथा कृत्वा, किं ? कर्माष्टकक्षयं न स तिष्ठति । कुतः ? अनिबन्धाद्-मनुजादिभवकारणानामत्यन्तप्रलयात् । तथा अनाश्रयाच्च, मुक्तस्य हि मनुजभवो नाश्रयः, किंतु सिद्धिरेवाश्रयः । तथा अप्रयोगाद्-अव्यापारात्, स न सव्यापारोऽस्ति येन भवे स्थीयत इति ॥ २९१ ॥ ગાથાર્થ– આઠ કર્મોનો ક્ષય કરી શરીરરૂપ બંધનને છોડ્યા પછી તે મહાત્મા અહીં સંસારમાં રહેતા જ નથી. આમાં ત્રણ કારણો છે(૧) ॥२९॥नो अभाव, (२) माश्रयनी समाव सने (3) व्यापारनी अमाव. ટીકાર્થ– (૧) કર્મ, શરીર વગેરે સંસારમાં રહેવાનાં કારણો છે. આ કારણો મુક્તાત્મામાં હોતા નથી. (૨) મુક્ત આત્માને રહેવાનો આધાર મનુષ્યગતિ નથી, કિંતુ લોકાગ્ર છે. મુક્ત આત્મા અત્યંત લઘુ (હળવો) હોવાથી તેનો આશ્રય લોકાગ્ર જ છે. (3) संसारमा शरी२ महिना व्यापार विन। २ही न शाय. મુક્તાત્મામાં શરીર આદિના વ્યાપારો હોતા નથી. (૨૯૧) यदि स न तिष्ठत्यत्र तर्हि अधो यायात् ?, नेत्याहनाधो गौरवविगमादशक्यभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं, प्लवक इवोपग्रहाभावात् ॥ २९२ ॥ न-नैवाधो गच्छेन्मुक्तः । कुतः ? गौरवस्य-गुरुत्वकारिकर्माष्टकस्याधोगमनहेतोर्विगमाद्-अभावाद् । अशक्यभावात्-अशक्योऽयं भावो यत् सर्वकर्मविमुक्तोऽधो गच्छतीति । चः समुच्चये । तथा लोकान्तादपि न परं गच्छति उपग्रहकारिधर्मद्रव्याभावात् । दृष्टान्तमाह-प्लवक इवेति, प्लवकः-तारकस्तद्वत् मण्डूकवत् यानपात्रवन्मत्स्यादिवद्वेति । अयमर्थः-यथैते मण्डूकादयो जलाभावान्न स्थलं यान्तीति, तथा जीवोऽप्यलोकं न यातीति ॥ २९२ ॥ પ્રશમરતિ ૦ ૨૩૭

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272