________________
यद्यप्यत्यभ्युदया एते तथापि पर्यन्तेऽतिदारुणा इति दृष्टान्तेन विशदयन्नाहयद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः । किंपाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः ॥ १०७ ॥
यद्यपीत्यार्यार्धं स्पष्टार्थं, किंपाकफलान्यादौ मृष्टान्यन्ते मारणात्मकानि तेषामदनं-भक्षणं तद्वद् भवन्ति । पश्चादतिदुरन्ता इति च व्यक्तमिति ॥ १०७ ॥
જો કે વિષયો પ્રારંભમાં ઉત્સવરૂપ છે તો પણ પરિણામે અત્યંત ભયંકર છે એમ દૃષ્ટાંતથી સ્પષ્ટ કરતાં ગ્રંથકાર કહે છે–
ગાથાર્થ જો કે સેવન કરાતા વિષયો મનને આનંદ કરે છે, તો પણ પછી કિપાંક ફળની જેમ દુષ્ટપરિણામવાળા છે.
ટીકાર્થ— કિંપાક ફળો પ્રારંભમાં ભક્ષણ કરતી વખતે મધુર હોય છે, પણ અંતે મારનારા થાય છે, તેમ વિષયસુખો પ્રારંભમાં આનંદ આપતા હોવા છતાં અંતે અશુભ કર્મબંધ આદિ દ્વારા દુઃખ આપનારાં થાય છે. (૧૦૭)
यद्वच्छाकाष्टादशमन्नं बहुभक्ष्यपेयवत् स्वादु ।
विषसंयुक्तं भुक्तं, विपाककाले विनाशयति ॥ १०८ ॥
अथ निदर्शनान्तरमाह-‘यद्वे' त्यादि, यद्वद्- यथा शाकं - तीमनमष्टादशं यस्य तत्तथा। किं तदित्याह-अनं - आहारः, अष्टादश भेदास्त्वेते- 'सूवो १ यणो २ जवन्नं ३ तिन्नि य मंसाणि ६ गोरसो ७ जूसो ८ । भ ( द ) क्खा ९ गुललावणिया १० मूलफला ११ हरियगो १२ डाओ १३ ॥ १ ॥ होइ रसालू य तहा १४ पाणं १५ पाणीय १६ पाणगं चेव १७ । अट्ठारसमं सागं १८ निरुवहओ लोइओ पिण्डो ॥ २ ॥ ' तथा बहूनि अनेकानि भक्ष्याणि - मोदकादीनि पेयानि पानकविशेषा विद्यन्ते यत्र तद्बहुभक्ष्यपेयवत्, तथा स्वादु-मधुरं, एवंविधमपि विषसंयुक्तं - गरमिश्रं भुक्तम् - अभ्यवहृतं सत् विपाककाले-परिणतिप्रस्तावे, किमित्याह - विनाशयति-मारयति, भोक्तारमिति शेष इति ॥ १०८ ॥
હવે બીજા દૃષ્ટાંતને કહે છે–
પ્રશમરતિ ૦ ૮૩