Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 391
________________ [ तृतीये विध्युभयारे प्रवर्त्यव्यक्तिस्वरूपः, तथाव्यापारणाद् रजःप्रवृत्त्यात्मरूपापादनादितरतथात्मरूपापादनाद् रजोवत् । रजोऽपि हि इतरतथास्वरूपापादनादृते किमन्यत् करोति ? २७४ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् एवं च पल्लववद् रज एवापद्यते तथा प्रकाशस्य प्रवर्त्यत्वात् । तथाप्रकाशानतिरिक्ततत्त्वरूपत्वाद्वा प्रवृत्तेः कुतोऽपल्लवपवनभेदसाधर्म्यम् ? युज्यते हि पल्लव 3 प्रवर्तनात् इह रजः सन्निहितमपि प्राक् सन्निधिमात्रा देवाप्रवर्तकं स्वयमप्रवृत्तं सत्त्वाधीनप्रवृत्तित्वात्, किन्तु प्रवर्त्यमप्रवर्तनात् । कस्तर्हि प्रवर्तकः ? उच्यते - य एवासौ सत्त्वस्यात्मा प्रकाशः । कथमिति चेत्, उच्यते - तथाप्रवर्त्यव्यक्तिस्वरूपः, तेन तेन प्रकारेण शब्दादिनिर्वर्त्यप्रकारेण प्रवर्त्यव्यक्तिस्वरूपः प्रकाश नर्तकाचार्य इव क्षेपणादिप्रवर्तनाभिव्यञ्जनात्मना नर्तक्योः प्रवर्तमानः प्रवर्तकः । किं कारणम् ? तथाव्यापारणात् तेन व्यक्तिरूपेण प्रवर्तमानस्य रजसो व्यापारणात्, सत्त्वेनैव हि प्रकाशनरूपेण प्रवर्त10 मानेन रजः प्रवर्त्यते, तस्मात् संच्यस्यात्मा प्रकाशस्तथाव्यापारणाद् रजसः प्रवर्तक इति त्वदभिमतप्रवर्तकत्वविपर्ययापत्तिरेव रजसः प्रवर्त्यत्वात् सत्त्वेन सत्त्वाधीनप्रवृत्तित्वात् सत्त्वस्यैव प्रवर्तकत्वात् पक्षधर्मविपरीतता चेति । तच्च सत्त्वस्य प्रवर्तकत्वं रजःप्रवृत्त्यात्मरूपापादनात्, रजसो हि प्रवृत्तिरात्मा, तदेव रूपं रजःप्रवृत्त्यात्मरूपम्, तदापाद्यते सत्त्वेन सत्त्वाप्रकाशिते प्रवृत्त्यभावात्, सत्त्वापादितं प्रवृत्त्यात्मकरूपं रजः, २००-१ तस्माद् रजःप्रवृत्त्यात्मरूपापादनात् सत्त्वं प्रवर्तकम् ईंतरतथात्मरूपापादनाद् रजोवत् । रजोऽपि हि 15 इत्यादि, रजसोऽपि हि प्रवर्तकत्वमित्थमेव युज्यते, रजोऽपि हि यस्मात् त्वन्मतेन प्रवर्तमानमितरयोः सत्त्वतमसोस्तथास्वरूपापादनादृते किमन्यत् करोति ? प्रवृत्तिरूपमेवापादयत् प्रवर्तकमितीष्यते, नान्यथा । यथा तत् पूर्वं प्रकाशनियमात्मभ्यामप्रवृत्तयोस्तयोः प्रवर्तनादेव प्रवर्तकमेवं सत्त्वमितस्तथास्वरूपापादनात् प्रवर्तकमस्तु, को दोषः ? एवं च पल्लववद् रज एवापद्यते, एवं च कृत्वोक्तविधिना पल्लवस्थानीयं प्रवर्त्यं रज एव न प्रवर्त20 कम्, सत्त्वमेव च प्रवर्तकं पवनस्थानीयं न प्रवर्त्यमित्यापन्नम् । किं कारणम् ? तथा प्रकाशस्य प्रवर्त्य - त्वात् यस्मात् तेन प्रकारेण प्रवर्त्यत्वं रजसः प्रकाशेन तस्माद् रजसः प्रकाशेन प्रवर्त्यत्वादित्यर्थः, उक्तं " हि - रजसः प्रवृत्तिरात्मरूपम्, तदापादयति प्रकाशः प्रकाशाप्रकशिते रजसोऽप्रवृत्तेः [ ] इति । तस्मात् प्रकाशेन तथा प्रवर्त्यत्वाद् रजसः साधूक्तम् - तदात्मन एव प्रवृत्तत्वादिति । एवं तावत् सत्त्वरजसोर्भेदमुपगम्य हेतोरसिद्धिर्विपर्ययत उक्ता, नैव वा सत्त्वव्यतिरिक्तं रंजोऽभ्युपेम इत्यत आह-तथा26 प्रकाशानतिरिक्ततत्त्वरूपत्वाद् वा प्रवृत्तेः, व्याख्यातप्रकारस्य प्रकाशस्य तत्त्वमतिरिच्य नास्ति प्रवृत्तेः स्वरूपम्, तत एव हेतोः कुतोऽपल्लवपवन भेदसाधर्म्यं सत्त्वरजसोरभिन्नत्वात् पल्लवपवनयोर्भिन्नत्वात् ? १ दृश्यतां पृ० २०८-२ ॥ २ क्याः प्रवर्तमानप्रवर्तकः डे० लीं० रं० ही ० । क्याः प्रवर्तकः भा० ॥ ३ सतस्यात्मा प्र० ॥ ४ वात्मत्वेन भा० ॥ ५ सर्व प्र० ॥ ६ इतरथात्म प्र० ॥ ७ कर्म य० ॥ ८ रथा य० ॥ ९ " कृत्यानां कर्तरि वा " [ पा० २।३।७१] इति सूत्रेण उभयोरपि षष्ठीतृतीया विभक्त्योन्यय्यत्वाद् वृत्तिकृता अस्य पदस्य 'प्रकाशेन' इति व्याख्यानेऽपि न दोषः । दृश्यतां पृ० २०८-२ ॥ १० शितरजसो २० ही० ॥ ११ दृश्यतां पृ० २७३ पं० ६ ॥ १२ रजोग्यपेम प्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662