Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 583
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य मयचक्रस्य [पृ० ३३३, पं०८___ पृ० ३३३ पं० ८. सायोज्यं । यद्यपि 'सायुज्यम् , इति शब्दप्रयोगः सम्प्रति प्रसिद्धः तथापि नयचक्रवृत्ती 'सायोज्यम्' इति शब्दप्रयोगस्य पुनः पुनः [पृ० ३४१ पं० २३-२४, पृ० ३४३ पं० १९ ] दर्शनात् स एवात्रादृतोऽस्माभिः। पृ. ३३३ पं० २५. आख्यातशब्दः..। दृश्यतां पृ० ४४८ टि० २ । पृ० ३३३ पं० २७. यथा । अत्र भा०प्रत्यनुसारेण 'यस्माद्' इत्यपि स्यात् । 5 पृ० ३३४ पं० १. गुणसन्द्रावः। एतच्च लक्षणं कस्मिंश्चित् सांख्यग्रन्थे [ वार्षगणतन्त्रे ? ] सम्भाव्यते । दृश्यतां टिपृ० १६ पं०३५-पृ० १७ पं० १६ । पृ० ३३४ पं० ३-५. दुविहा. किमिदं...। द्विविधा प्रज्ञापना प्रज्ञप्ता-जीवप्रज्ञापना अजीवप्रज्ञापना च । किमिदं भदन्त! लोक इति प्रोच्यते ? गौतम! जीवाश्चैव अजीवाश्चैव । एवं रत्नप्रभा यावत् ईषयाग्भारा समयावलिकादि।' इत्यर्थः। तुलना-पृ० २२८ पं०५-६. टि. १-२। 10 पृ० ३३४ पं० ५. समयावलियादि [ ] । अत्र 'समयावलियादि [ ]। इति तृतीयो विध्यु भयारः।' इत्यपि मूलं स्यात् । पृ० ३३५ पं० २. नन्वेवं..। दृश्यतां पृ० ३३९५० १८ । पृ० ३३५ पं० ६. सदसवेद्या । दृश्यतां तत्त्वार्थसू० ८।५-१४ । पृ० ३३५ पं० ७. सामान्यतोदृष्टा ।। “अथ तत्पूर्वकं त्रिविधमनुमानम् - पूर्ववत् शेषवत् सामान्यतोदृष्टं 15 च ।"-न्यायसू०।११५। "त्रिविधमनुमानमाख्यातम् ।"-सांख्यका० ५। पृ. ३३५ पं० ८. अन्नप्राणत्ववत् । दृश्यतां पृ० १९९५० १२ । “अन्नं वै प्राणिनः प्राणाः"-न्यायभा० १११११। पृ० ३३६ ५० ७. स्वकर्म। तुलना- "स्वकर्मणा युक्त एव सर्वो ह्युत्पद्यते जनः । स तथाकृष्यते तेन न यथा स्वयमिच्छति ॥” इति शीलाङ्काचार्यकृतायां सूत्रकृताङ्गवृत्तौ पृ० २१० । पृ० ३३६ पं० १६. यः स्वतन्त्रो भवितापि स एव । अत्र प्रतिस्थपाठानुसारेण 'कः स्वतन्त्रः ? भविता यः स 20 एव ।' इत्यपि पाठः स्यात् । पृ० ३३७ पं० २,१७. द्रव्यादिपञ्च...। दृश्यतां पृ० ३३८ टि०१। पृ० ३३८ पं० ५. दोषौ । अत्र 'दोषी' इत्यनावश्यकं भाति, दृश्यतां पृ० ३४१ पं० १३ । पृ. ३३९ पं० ३,१९. भवति । दृश्यतां पृ. ३२५ पं०४। पृ० ३३९ पं० १०. यथा च......। दृश्यतां पृ० ३२७ पं०१। 25 पृ० ३४० पं० १,९,१०. शक्तिमत्प्रवृ पक्त्रादिवत् । दृश्यतां पृ० ३२६ पं० ३। पृ० ३४० ५० १२. एवमेव चास्य । दृश्यतां पृ० ३२८ पं० १,८। टिपृ० ८९ पं० १ टि. १ । पृ०३४. पं० २३. प्रवर्तत इति । अत्र 'प्रवर्तक इति' इत्येव पाठो युक्तः प्रतीयते। पृ. ३४१ पं. ६, २२-२३. तहणमोक्षणवत् । नयचक्रवृत्तौ अत्र 'तणमोक्षणात्' इति पाठः, अग्रे तु [पृ० ३४३ पं० १७] 'तणमोक्षणवत्' इति पाठो दृश्यते । अत एकतर एव कश्चिदपि पाठ उभयत्राप्यादरणीयः। 30 'तहणमोक्षणात्' इति तु सम्यग् भाति । वशीति । एको वशी स्वतन्त्रो निष्क्रियाणां बहूनां जीवानाम् । सर्वा हि क्रिया नात्मनि समवेताः, किन्तु देहेन्द्रियेषु । आत्मा तु निष्क्रियो निर्गुणः सत्त्वादिगुणरहितः कूटस्थः सन् अनात्मधोनात्मनि अध्यस्य अभिमन्यते - कर्ता, भोक्का, सुखी, दुःखी, कृशः, स्थूलः, मनुष्यः, अमुष्य पुत्रः, अस्य नप्तेति ।....'एकं बीजस्थानीयं भूतं सूक्ष्मं बहुधा यः करोति । तमात्मस्थं बुद्धौ स्थितं येऽनुपश्यन्ति साक्षाजानन्ति धीरा बुद्धिमन्तः तेषामात्मविदां सुखं शाश्वतम्, नेतरेषामनात्मविदाम् ।" इति शंकराचार्यरचिते श्वेताश्वतरोपनिषद्भाष्ये।। १"तत्पूर्वकमित्यनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं लिङ्गदर्शनं चाभिसम्बध्यते । लिङ्गलिङ्गिनोः सम्बद्धयोदर्शनेन लिजिस्मृतिरभिसम्बध्यते । स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षोऽर्थोऽनुमीयते । पूर्ववदिति यत्र कारणेन कार्यमनुमीयते यथा मेघोनत्या भविष्यति वृष्टिरिति।शेषवत् तद् यत्र कार्येण कारणमनुमीयते । पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्टा स्रोतसोऽनुमीयते - भूता वृष्टिरिति । सामान्यतोदृष्टम् - व्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शनमिति, तथा चादित्यस्य, तस्मादस्ति अप्रत्यक्षापि आदित्यस्य व्रज्या इति ।" इति न्यायभाष्ये। २ "अनुमानं त्रिप्रकारमाचायः व्याख्यातम् - पूर्ववत् शेषवत् सामान्यतो दृष्ठं च ।” इति सांख्यकारिकायुक्तिदीपिकायां पृ० ४३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662