Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 598
________________ प्रत्यक्षपरिच्छेदः ] भोटपरिशिष्टे प्रमाण समुच्चयः । एवं तावत् पञ्चेन्द्रियजं प्रत्यक्षज्ञानमविकल्पकम् । क्षेत्र विशेषणं परमतापेक्षम्, सर्वे त्वविकल्पका एव । * मानसं चार्थ रागादिस्वसंवित्तिरकल्पिका । * मानसमपि रूपादिविषय|लम्बनमविकल्पकमनुभवाकारप्रवृत्तं * रागादिषु च स्वसंवेदनमिन्द्रियानपेक्षत्वाद् मानसं प्रत्यक्षम् । तद्वत् - १०५ * 'योगिनां गुरुनिर्देशाव्यतिभिन्नार्थमात्रदृक् ॥ ६ ॥* १ “एवं तावदित्यादिरुपसंहारः । अत्र 'एवं तावत् पञ्चेन्द्रियजम्' इति वचनात् तावच्छब्देन अपञ्चेन्द्रियजमपि अन्यदस्ति तस्यापि लक्षणस्य विशेषणं [ पृ० २३ B ] पृथग् वक्ष्यते इत्येतत् ख्याप्यते । अत्र विशेषणं परमतापेक्षमिति । विशेषणं विशेषः विभाग इति पर्यायाः । स च प्रस्तुतत्वात् प्रत्यक्षलक्षणस्येति प्रतीयते । अत्रेति प्रकरणे । यदिदं लक्षणस्य पृथग् विशेषणं तत् परैर्यद् विप्रतिपन्नं लक्षणमिष्टं तदपेक्षया । तत्र मनोविज्ञानप्रत्यक्षे इन्द्रियज्ञानेनानुभूतोऽर्थः स एव गृह्य केषाञ्चिद् विप्रतिपत्तिः, रागादिस्वसंवेदनं तद् नास्ति । योगिज्ञानेऽपि इदमेव । यस्मादेवं परेषां विप्रतिपत्तिः तस्मात् तदपेक्षया 'प्रत्यक्ष कल्पनापोढम्' इत्यनेन संग्रहेऽपि अपञ्चेन्द्रियजस्य प्रत्यक्षस्य लक्षणस्य विशेषणं पृथगुच्यते परविप्रतिपत्तिनिराकरणायेत्याशयः [पृ० २४] "सर्वे त्वविकल्पका एवेति तुशब्देन लक्षणविशेषणस्य पृथगभिधानमिदं न स्वमतापेक्षया विप्रतिपत्त्यभावादिति अर्थः प्रकाश्यते । ‘प्रत्यक्षं कल्पनापोढम्' इत्यनेनैव विशेषणेन सर्वं लक्ष्यं संगृह्यते [ पृ० २४ B ] ।” - विशाला० । प्रमाणवार्तिकालंकारे त्वस्य आशयोऽन्यथा वर्णितः - " परे तु सविकल्पकमपि साक्षात्करणाकारमभ्रान्तमिच्छन्ति तदनुरोधेन द्वयमेतदुच्यते । तथा चाह— विशेषणं लक्षणे परमतापेक्षम्, सर्वे त्वविकल्पका एव इति ।" - प्र० वार्तिकालं० पृ० ३३५, २५२ । २ प्र० वा० म० टि० पृ० १९१ । प्र० वार्तिकालं० पृ० ३०३ । तुलना - प्र० वा० म० २।२३९।२८० । “मानसं चेत्यादि । चशब्दः समुच्चयार्थः । अर्थशब्दोऽयं ज्ञेयपर्यायः । रागादीनां स्वं रागादिखम् । स्वशब्दोऽयमात्मवाचकः । अर्थश्च रागादिस्वं च तत्संवित्तिरर्थरागादिखसंवित्तिः । संवेद्यते ज्ञायतेऽनयेति संवित्तिः । 'संवित्तिः' प्रत्येकमभिसम्बध्यते । अविकल्पिका सा मानसं प्रत्यक्षम् ।" - विशाला० पृ० २४ B। ३ " मानसमपि रूपादिविषयालम्बनमनुभवाकारप्रवृत्तम विकल्पकमेव रागद्वेषमोहसुखदुःखादिषु [च] इन्द्रियानपेक्षत्वात् स्वसंवेदनं प्रत्यक्षम् ।" - PSV-2. । “वृत्तिः - ‘मानसमपि रूपादिविषयमविकल्पकमनुभवाकारप्रवृत्तम्' इति ।" - प्र० वा० म० टि० पृ० १९१ । तुलना - प्र० वार्तिकालं० पृ० ३०३ । “मानसमपीत्यादि । रूपादयश्च ते [ पृ० २४ B ] विषयाश्चेति कर्मधारयः ।.................. रूपादिविषयाणां विकारः रूपादिविषयविकारः, स आलम्बनं यस्य तत् तथोक्तम् । 'समुदायविकारषष्छ्याश्च बहुव्रीहिरुत्तरपदलोपश्च' [ पा० म० भा० २।२।२४ ] इति वचनात् समास उत्तरपदलोपश्च यथा सुवर्णालंकार इति । ...... अनुभवाकारप्रवृत्तमिति [ पृ० २५ A ] । रागादिषु च स्वसंवेदनमिति [ पृ० २५B] ननु इन्द्रियजस्यापि सर्वस्यैव ज्ञानस्य आश्रयोऽस्ति इति एष्टव्यं ‘पञ्च विज्ञानकाया द्वीन्द्रियाश्रिताः' इति वचनात् तत् कस्मादिदमेव मानसमुच्यते इत्याह- इन्द्रियानपेक्षत्वादिति । रूपीन्द्रियानपेक्षत्वादित्याशयः । यस्य आश्रयो मन एव न तु रूपि इन्द्रियं तद् 'मानसम्' अभिधीयते [ पृ० २६ B ] ।”-विशाला० । “समुदायविकारषष्ठयाश्च बहुव्रीहिर्वक्तव्यः उत्तरपदस्य च लोपो वक्तव्यः । केशानां समाहारचूडा अस्य केशचूडः। सुवर्णविकारोऽलङ्कारो यस्य सुवर्णालङ्कारः । " - पातञ्जलमहाभाष्य. २।२।२४ । ** ४ प्र० वा० म० टि० पृ० २२९,१९४ | "अत्रापि मूलाचार्यवचनं विरुध्यते - रागद्वेषमोहसुखदुःखादिषु [च] स्वसंवेदनमिन्द्रियानपेक्षत्वाद् मानसं प्रत्यक्षम् इति ।" - प्र० वार्तिकालं० पृ० ३०५ । ५ “[ दे' ब्शिन् दु VT= ] तद्वद् योगिनामिति । यथा मनोविज्ञानमविकल्पकं प्रत्यक्षं तद्वद् योगिनामपि । योगः समाधिः, स येषामस्ति ते योगिनः । 'पृ० २६ B] गुरुनिर्देशाव्यतिभिन्नमिति, अत्र विषयेण विषयिनिर्देशः आगमविकल्पो गुरुनिर्देश 'शब्देन अभिधीयते । तेन यतिभिन्नम् अपोढमित्यर्थः । अनेन स्पष्टावभासित्वमपि तत्र श्रूयते । अविकल्पकं स्पष्टत्वाव्यभिचारात् । 'मात्र' शब्द यारोपितार्थव्यवच्छेदार्थम्, तेन यत् सद्भूतार्थविषयमार्यसत्यदर्शनं तदेव प्रमाणम्, न तु असद्भूतार्थविषयम् 'अशुभा कृत्स्ना वी' इत्यादि [ पृ० २७ A] ।” - विशाला० । तुलना - प्र० वा० २।२८१-२८७ । ६ प्र० वा० म० टि० १९१ | तत्त्वार्थरा० १।१२, पृ० ५४ । Jain Education International For Private & Personal Use Only 5 www.jainelibrary.org

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662