Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 632
________________ १३९ सांख्यमतस्य निर्देशः] भोटपरिशिष्टम् । जातिसमन्वयो दृष्टः । आध्यात्मिकाः कार्यात्मका भेदाः शब्दस्पर्शरसरूपगन्धाः पञ्च त्रयाणां सुखदुःखमोहानां सनिवेशविशेषाः । कस्मात् ? पञ्चानां पञ्चानामेककार्यभावात् । सुखानां शब्दस्पर्शरसरूपगन्धानां प्रसादलाघवप्रसवाभिष्वङ्गोद्धर्षप्रीतयः कार्यम् । दुःखानां शोषतापभेदोपष्टम्भोद्वेगापद्वेषाः । मूढानां वरणसदनापध्वंसनबैभत्स्यदैन्यगौरवाणि । *शब्दाद्यारब्धानि चाकाशादीनि भूतानि सुखादिमयान्येव, तन्मयकारणारब्धत्वात् , यद् यन्मयैः कारणैरारब्धं तन्मयं तत् , कार्पासिकपटवत् । भूतैरारब्धानि पुनः शरीरादीनि पटकुटीवत् परम्परारब्धत्वात् । तथा करणात्मकाः श्रोत्रत्वक्चक्षुर्जिह्वा-5 घ्राणवाग्हस्तपादपायूपस्थमनांस्येकादश तैर्यग्योनमानुषदैवानि बाह्याश्च भेदाः सत्त्वरजस्तमसा कार्य समन्वयदर्शनात् । एवं पृथिव्यादि गवादि घटादि । सामान्यपूर्वकाणां च भेदानां लोके एकजातिसमन्वयो दृष्टो यथा शकलकपालामत्रभूषणप्रभृतीनां चन्दनादिजातिसमन्वयः । आध्यात्मिकानां बाह्यानां च भेदानामेकजातिसमन्वयोऽयमस्ति, तस्माद् मन्यामहेभेदात् पूर्वमेते क्वचित् सामान्यभूताः । यच्च सामान्य तत् प्रधानम् । तस्मादस्ति प्रधानमिति ।” - इदमत्रावधेयम् -अन्वय-परिमाण-कार्यकारणभाव-शक्तितःप्रवृत्ति-वैश्वरूप्याख्याः प्रधानास्तित्वसाधकाः पञ्च हेतवो येन 10 क्रमेणात्र नयचक्रवृत्तौ वर्णिताः स एव क्रमो दिङ्गागादिभिरप्याहतोऽतो वार्षगणतन्त्रेऽपि स एव क्रमः प्रत्येतव्यः। दृश्यतां Psvi N. ed. पृ० ४० b, Psvi. पृ० १२२ a । विशाला० पृ० १२१ b. । ब्रह्मसूत्रशाङ्करभाष्य. २।२।। ईश्वरकृष्णरचितायां सांख्यसप्ततौ [का० १५] तु भिन्नः क्रमः, दृश्यतां पृ० ३१४ टि० ५। पृ० ३१८ पं० ७. शब्दाद्यात्मना । दृश्यतां पृ० २८७ पं० २४, पृ० २८८ पं० १। तुलना - "सत्त्वरजस्तमांसि परस्परोपकारकभावेन प्रवर्तमानानि शब्दाद्यात्मना व्यवतिष्ठन्ते इति शब्दादि एक 15 कार्यमुक्तम्, सत्त्वादीनां चैकजातिसमन्वयो नास्ति अत्यन्तं भेदात् । लोकेऽपि चक्षुरूपालोकमनस्काराणामेकजातिसमन्वया- . भावेऽपि विज्ञानमेकं कार्यमस्ति । तस्माच्चानैकान्तिकत्वादेकजातिसमन्वयोऽसिद्धः।"-विशाला० पृ० १९७ a । __ पृ० ३२० पं०७. इति एभिः पञ्चभिर्वीतैः । दृश्यतां टिपृ० १३९ पं० ३४। . .. कस्मात् ?......"साधनसमासवचनं हेतुः' इति लक्षणात् । [ पृ० १ ६४ A ]........."तन्निदर्शनं दृष्टान्तः' इत्यत्राधिकरणसाधनमाश्रीयते 'ते साध्यसाधने निदर्येते यस्मिन्' इति, करणं वा 'ते निदर्येतेऽनेन' इति ।...... दृष्टान्तदोषान्तरमाह-अन्वयाभावादिति । साध्येन साधनस्य व्याप्युपदर्शनमन्वयः। अत्र साधनेन साध्यव्याप्तिरुच्यते-सामान्यपूर्वकाणां च भेदानां लोके एकजातिसमन्वयो दृष्ट इति । एवं साधनार्थः कश्चिदपि नास्तीति दृष्टान्ताभासत्वे हेतुः । ......[पृ० १९४ B] ......"उपसंहारो न युक्त इति । साध्यदृष्टान्तयोरेकक्रिया [उपसंहार इति ] उपसंहारलक्षणम् । तद् वाक्यस्य दृष्टान्तत्वेऽनुपपन्नम्। [ पेर् न दुम्' शोगस दङ्' थोद्प' द स्नोद्' स्ब्यद्' द य॑न् ल. सोग्स् पVT= ] 'यथा शकलकपालामत्रभूषणप्रभृतीनाम्' इति यादृशं वाक्यं न तथा प्रधानादि साध्यम् । एवमवयवलक्षणं साक्षात् प्रधानास्तित्वे इति 'अस्ति प्रधानम्' इत्यव्यवहिते साध्ये सर्वथाऽसम्बद्धम् । तथाहि-साध्यावधारणं प्रतिज्ञा इति प्रतिज्ञालक्षणम् ।....."तन्निदर्शनं दृष्टान्त इति दृष्टान्तलक्षणम् । तयोरेकक्रिया उपसंहार इत्युपसंहारलक्षणम् । तदुभयमप्यत्र नास्तीति प्रतिपादितम् । न्यायमुखदिशेति । तेन प्रधानमर्थतः साध्यते, न साक्षात् । साक्षाद् भेदा एव साध्यन्ते। 'भेदा एव तत्र एककारणत्वेन साध्यत्वात् पक्षः' इति वचनात् ।...."प्रतिज्ञार्थविरोधो भवतीत्यभ्युपगमविरोध उच्यते ।...... यत् तत् शकलकपालामत्रभूषणप्रभृतीनां भेदत्वे सति [पृ० १९५०] चन्दनघट-मृत्पिण्ड-सुवर्णादिनानाकरणपूर्वकत्वमभ्युपगम्यते तेन एककारणपूर्वकत्वनिरासात् प्रतिज्ञार्थविरोधः। अथ सत्पूर्वकत्वेनेति । 'अस्ति प्रधानम्' इति प्रतिज्ञायाः तस्मादस्ति प्रधानमिति निगमनाच्च सत्पूर्वका एव भेदाः साध्यन्ते दृष्टान्ताभावो नास्ति शकलादीनां सत्पूर्वकत्वेन प्रतीतेरिति चेत्, न, एकत्वेऽपीत्यादि । एकत्वेऽपि प्रधानस्य साध्ये इदमेव साधनं दर्यते, 'एभिः पञ्चभिर्वीतैःप्रधानस्यास्तित्वं सिद्धम् , अत एवास्यैकत्वमपि सिध्यति' इति वचनात् । ..........य(अ)थोक्तदोषपरिहाराय पक्षान्तरमाश्रीयते [ पृ० १९५ b].....तथाहि- यद् यन्मयैरारब्धं तन्मयमेव तद् इति शास्त्रं कार्यकारणयोरेकखरूपत्वं प्रतिपादयति । इदमुक्तं भवति-यद् यजातिमत् तत् तन्मयकारणकम् , शकलादिवत् , भेदा अपि सुखादिजातिमन्त इति [ पृ० १९६ a ] ।”-विशाला। ६ सांख्यकारिकायुक्तिदीपिकावृत्ति. पृ० ४९ पं० ११ । .:. १ नयचक्रवृत्ति पृ० १२ पं० १९-२३ । २ * * एतचिह्नान्तर्गतः पाठो नयचक्रवृत्तेः 'पृ० २६५, पृ० २६६ पं० २-३, पृ० २९१ पं० २०-२१' अनुसारेण कल्पनयवास्माभिरिहोपन्यस्तः, वार्षगणतन्त्रे तु यथावत् कीदृशः पाठ इति निश्चित्य वक्तुं न पार्यते। ३ दृश्यतां टिपृ० १४ पं० ३१-३२। ४ तुलना-नयचक्रवृत्ति, पृ० ३२० पं० ४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662