Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
________________
प्राचीनं च सांख्यमतम्] भोटपरिशिष्टम् ।
१३७ सर्व सांख्यमतं वार्षगणतन्त्रं मनसि निधायात्र नयचक्रवृत्तिकृतोपन्यस्तम् । तत्र कश्चिद् वार्षगणतन्त्रस्य पाठोऽक्षरश इहोपन्यस्तः कश्चित्तु संक्षिप्योपन्यस्त इति ध्येयम् । प्रमाणसमुच्चयवृत्ति-विशालामलवतीटीकयोर्दिनागजिनेन्द्रबुद्धिभ्यामपीदमेव वार्षगण्यप्रणीतं शास्त्रमवलम्ब्य सांख्यमतमुपन्यस्तम् । तथा च तदनुसारेण वार्षगण्यप्रणीते तन्त्रेऽत्र निम्नलिखितः पाठ मासीदिति भाति
"अनुमान द्विविधम्-विशेषतो दृष्टं सामान्यतो दृष्टं च । *तत्र विशेषतो दृष्टं यदा अग्निधूमयोः सम्बन्धं दृष्ट्वा तेनैव । धूगेन तस्यैव अग्नेः पुनः पुनः स एवायमग्निः' इति अस्तित्वं प्रतिपद्यते । सामान्यतो दृष्टं यत् क्वचिद् धूमान्योः सम्बन्धं दृष्ट्वा उत्तरकालं धूममात्रदर्शनादग्निसामान्यमनुमिमीते । इदं च सामान्यतो दृष्टमनुमानं द्विविधम् - पूर्ववत् शेषवच्च । तत्र पूर्ववद् यदा अविकलं कारणं दृष्ट्वा कार्यस्य भविष्यत्त्वं प्रतिपद्यते यथा मेघं भूतं दृष्ट्वा वृष्टेभविष्यत्त्वम् । शेषवद् यदा कार्य सिद्धं दृष्ट्वा कारणस्य भूतत्वं प्रतिपद्यते यथा नद्या नवीनं जलोपचयं दृष्ट्वा मेघस्य भूतत्वम् । तत्र पूर्ववदनुमान व्यभिचारि । शेषवत् सविचारमव्यभिचारि । तेषां यदेतत् सामान्यतो दृष्टमनुमानं शेषवदेष हेतुरतीन्द्रियाणां भावानां 10 समधिगमे*।
१पृ० ३२४ पं० ११ इत्यत्र यद्यपि नयचक्रवृत्तिकृता वार्षगणतन्त्रस्यैव निर्देशो विहितस्तथापि वार्षगणतन्त्रस्यैव षष्टितन्त्रमिति संज्ञा [दृश्यतां टिपृ. ४० ५० १-५] आसीदिति Prof. Dr. E. Frauwallner [ Head, Indological Institute, University of Vienna, Austria] इत्येतेषां महाशयानामभिप्रायः । अस्मिंश्च विषये तैर्महानुभावैर्महता विस्तरेण लिखितः Die Erkenntnislehre des klassischen Samkhya Systems [=The Epestemology of The Classical Samkhya. System] इति निबन्ध एव द्रष्टव्यः। आस्मिंश्च निबन्धे संस्कृत-चीन-भोटादिभाषानिबद्धानेकप्राचीनार्वाचीनग्रन्थानुसारेण प्राचीनं सांख्यमतमपि महता विस्तरेण तैरुपदर्शितमस्ति । अयं च निबन्ध: Wiener Zeitschrift fur die Kunde Sud-und-Ostasiens, Band II. 1958 इत्यत्र मुद्रितोऽस्ति । २ “यचोक्तम् 'अनुमानं द्विविधम्-सामान्यतो दृष्टं विशेषतो दृष्टं च' इति, तत्र विशेषतो दृष्टं तावदनुमानमेव नेष्यते।" इति प्रमाणसमुच्चयवृत्ती द्वितीयपरिच्छेदे PSv N.ed. पृ० ४१B, PSv• पृ० १२३ B। अतः परम् * * एतचिह्नान्तर्गतः पाठोऽस्माभिर्विशालामलवत्या भोटभाषानुवादानुसारेणेह संस्कृतीकृत्योपन्यस्तः । स चेदृशो भोटभाषानुवादः
"दे' ल' ख्यद्' पर' मूथोल्ब ' नि । गङ्' गि' छे' मे' दङ् दुब' ऽबेल्प ' मथो नस् । दु'ब' देखो ' नस्' मे. देखो' नडि यङ् दङ्' यङ्' दु मे देखो'न' ऽदिडो शेस' योद्'प' जिद्दुःोंग्स्' पर ब्येद्' पडो॥ स्प्यिर् मथोङ्'ब' नि' ग' ऽगऽ' शिग तु' दु'ब' दङ्' मे ऽब्रेल' पर मथोङ् नस् । दुस् फ्यिस् दुब' चम् [पृ० १२४ A] मथो बलस्' मे स्प्यिर् जेस्' सु पोग्' पडो॥ स्प्यिर मथोङ् बडिजेस् सु द्पग् प' ऽदि यङ्नम्' प जिस्' ते । स्ङ' म' दङ्' ल्दन्' प' दङ्' ल्हग्' म' दङ्' ल्दन्' पो॥ दे' ल स्ङ' म' दङ्' ल्दन्' प' नि' गङ्' गि' हे ग्यु' म छाब' मेद्प ' मथोङ् नस्' ब्रस्' बु' ऽब्युङ् बर' ऽग्युर प' जिद् तोंग्स्' प स्ते । पेर् न स्प्रिन् ब्यु ब' मथोङ् नस्' छर्ब ऽब्युङ बर्' ऽग्युर् प. जिद्' ल्त' बुडओ ॥ ल्हग्' म' दङ् ल्दन्' पनि गङ्' गिछे ऽब्रस्' बु गुब्' प' मथो नस्' ग्यु' ब्युङ् सिन्' प जिद् तॊग्स' प' स्ते । दुपेर् न' छु' क्लुङ गसर' दु: छु' ऽफेल्ब मथो नस्' स्प्रिन्' ब्युङ् प' जिद्' ल्त' बुडो ॥ दे ल स्ङ' म' दङ्' ल्दन्' पडि जैस्' सु' द्पग्' प' नि' ऽखुल्' पजे ॥ ल्हग् म दङ्' ल्दन्' प' नेम्' पर प्यद्प दङ् ब्चस्प नि' ऽख्नुल' प. मेद्' पो ॥ दे नम्स्' क्यिस्' (क्यि) गङ् ऽदि' स्प्यिर् मथोङ् बडि जैस् सु' दूपग्' प ल्हग्' म' द ल्दन्' प• ऽदि नि' बङ' पो लस्' ऽदस्' पति द्ङोस्' पोर्नम्स्' यङ् दग्' पर्' तॊग्स्' पर् ब्येद् पो शे॥ [पृ० १२४ ]"-VT.I
३ इदमपि सामान्यतो...(2)। ४ “सामान्यतो दृष्टं द्विविधम्"-Psv'पृ. N. ed. ४१ B, Psv' पृ० १२३ । ५ तुलना-युक्तिदीपिका, पृ० ४४ । ६ कार्योत्पत्तिं (?)। ७“पूर्ववदनुमानं व्यभिचारि"-PsvN. ed. पृ. ४२ A PS* पृ० १२४ A । ८. "तेषां यदेतत् सामान्यतो दृष्टं शेषवदेष हेतुरतीन्द्रियाणां भावानां समधिगमे"-नयचक्रवृत्ति पृ० ३१३ पं० ६ । दृश्यतां टिपृ. ८८ पं० १३-१६ । ९ PSV N. ed. पृ. ४२ B PSv* पृ० १२४ । १० “गतन्' गिस् यिन्' नो"-Pav VT.पृ० १९३ A । “ब्येद् दो"-PIV' |
नयटि. १८ Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662