________________
१३९
सांख्यमतस्य निर्देशः]
भोटपरिशिष्टम् । जातिसमन्वयो दृष्टः । आध्यात्मिकाः कार्यात्मका भेदाः शब्दस्पर्शरसरूपगन्धाः पञ्च त्रयाणां सुखदुःखमोहानां सनिवेशविशेषाः । कस्मात् ? पञ्चानां पञ्चानामेककार्यभावात् । सुखानां शब्दस्पर्शरसरूपगन्धानां प्रसादलाघवप्रसवाभिष्वङ्गोद्धर्षप्रीतयः कार्यम् । दुःखानां शोषतापभेदोपष्टम्भोद्वेगापद्वेषाः । मूढानां वरणसदनापध्वंसनबैभत्स्यदैन्यगौरवाणि । *शब्दाद्यारब्धानि चाकाशादीनि भूतानि सुखादिमयान्येव, तन्मयकारणारब्धत्वात् , यद् यन्मयैः कारणैरारब्धं तन्मयं तत् , कार्पासिकपटवत् । भूतैरारब्धानि पुनः शरीरादीनि पटकुटीवत् परम्परारब्धत्वात् । तथा करणात्मकाः श्रोत्रत्वक्चक्षुर्जिह्वा-5 घ्राणवाग्हस्तपादपायूपस्थमनांस्येकादश तैर्यग्योनमानुषदैवानि बाह्याश्च भेदाः सत्त्वरजस्तमसा कार्य समन्वयदर्शनात् । एवं पृथिव्यादि गवादि घटादि । सामान्यपूर्वकाणां च भेदानां लोके एकजातिसमन्वयो दृष्टो यथा शकलकपालामत्रभूषणप्रभृतीनां चन्दनादिजातिसमन्वयः । आध्यात्मिकानां बाह्यानां च भेदानामेकजातिसमन्वयोऽयमस्ति, तस्माद् मन्यामहेभेदात् पूर्वमेते क्वचित् सामान्यभूताः । यच्च सामान्य तत् प्रधानम् । तस्मादस्ति प्रधानमिति ।” - इदमत्रावधेयम् -अन्वय-परिमाण-कार्यकारणभाव-शक्तितःप्रवृत्ति-वैश्वरूप्याख्याः प्रधानास्तित्वसाधकाः पञ्च हेतवो येन 10 क्रमेणात्र नयचक्रवृत्तौ वर्णिताः स एव क्रमो दिङ्गागादिभिरप्याहतोऽतो वार्षगणतन्त्रेऽपि स एव क्रमः प्रत्येतव्यः। दृश्यतां Psvi N. ed. पृ० ४० b, Psvi. पृ० १२२ a । विशाला० पृ० १२१ b. । ब्रह्मसूत्रशाङ्करभाष्य. २।२।। ईश्वरकृष्णरचितायां सांख्यसप्ततौ [का० १५] तु भिन्नः क्रमः, दृश्यतां पृ० ३१४ टि० ५।
पृ० ३१८ पं० ७. शब्दाद्यात्मना । दृश्यतां पृ० २८७ पं० २४, पृ० २८८ पं० १। तुलना - "सत्त्वरजस्तमांसि परस्परोपकारकभावेन प्रवर्तमानानि शब्दाद्यात्मना व्यवतिष्ठन्ते इति शब्दादि एक 15 कार्यमुक्तम्, सत्त्वादीनां चैकजातिसमन्वयो नास्ति अत्यन्तं भेदात् । लोकेऽपि चक्षुरूपालोकमनस्काराणामेकजातिसमन्वया- . भावेऽपि विज्ञानमेकं कार्यमस्ति । तस्माच्चानैकान्तिकत्वादेकजातिसमन्वयोऽसिद्धः।"-विशाला० पृ० १९७ a ।
__ पृ० ३२० पं०७. इति एभिः पञ्चभिर्वीतैः । दृश्यतां टिपृ० १३९ पं० ३४। . .. कस्मात् ?......"साधनसमासवचनं हेतुः' इति लक्षणात् । [ पृ० १ ६४ A ]........."तन्निदर्शनं दृष्टान्तः' इत्यत्राधिकरणसाधनमाश्रीयते 'ते साध्यसाधने निदर्येते यस्मिन्' इति, करणं वा 'ते निदर्येतेऽनेन' इति ।...... दृष्टान्तदोषान्तरमाह-अन्वयाभावादिति । साध्येन साधनस्य व्याप्युपदर्शनमन्वयः। अत्र साधनेन साध्यव्याप्तिरुच्यते-सामान्यपूर्वकाणां च भेदानां लोके एकजातिसमन्वयो दृष्ट इति । एवं साधनार्थः कश्चिदपि नास्तीति दृष्टान्ताभासत्वे हेतुः । ......[पृ० १९४ B] ......"उपसंहारो न युक्त इति । साध्यदृष्टान्तयोरेकक्रिया [उपसंहार इति ] उपसंहारलक्षणम् । तद् वाक्यस्य दृष्टान्तत्वेऽनुपपन्नम्। [ पेर् न दुम्' शोगस दङ्' थोद्प' द स्नोद्' स्ब्यद्' द य॑न् ल. सोग्स् पVT= ] 'यथा शकलकपालामत्रभूषणप्रभृतीनाम्' इति यादृशं वाक्यं न तथा प्रधानादि साध्यम् । एवमवयवलक्षणं साक्षात् प्रधानास्तित्वे इति 'अस्ति प्रधानम्' इत्यव्यवहिते साध्ये सर्वथाऽसम्बद्धम् । तथाहि-साध्यावधारणं प्रतिज्ञा इति प्रतिज्ञालक्षणम् ।....."तन्निदर्शनं दृष्टान्त इति दृष्टान्तलक्षणम् । तयोरेकक्रिया उपसंहार इत्युपसंहारलक्षणम् । तदुभयमप्यत्र नास्तीति प्रतिपादितम् । न्यायमुखदिशेति । तेन प्रधानमर्थतः साध्यते, न साक्षात् । साक्षाद् भेदा एव साध्यन्ते। 'भेदा एव तत्र एककारणत्वेन साध्यत्वात् पक्षः' इति वचनात् ।...."प्रतिज्ञार्थविरोधो भवतीत्यभ्युपगमविरोध उच्यते ।...... यत् तत् शकलकपालामत्रभूषणप्रभृतीनां भेदत्वे सति [पृ० १९५०] चन्दनघट-मृत्पिण्ड-सुवर्णादिनानाकरणपूर्वकत्वमभ्युपगम्यते तेन एककारणपूर्वकत्वनिरासात् प्रतिज्ञार्थविरोधः। अथ सत्पूर्वकत्वेनेति । 'अस्ति प्रधानम्' इति प्रतिज्ञायाः तस्मादस्ति प्रधानमिति निगमनाच्च सत्पूर्वका एव भेदाः साध्यन्ते दृष्टान्ताभावो नास्ति शकलादीनां सत्पूर्वकत्वेन प्रतीतेरिति चेत्, न, एकत्वेऽपीत्यादि । एकत्वेऽपि प्रधानस्य साध्ये इदमेव साधनं दर्यते, 'एभिः पञ्चभिर्वीतैःप्रधानस्यास्तित्वं सिद्धम् , अत एवास्यैकत्वमपि सिध्यति' इति वचनात् । ..........य(अ)थोक्तदोषपरिहाराय पक्षान्तरमाश्रीयते [ पृ० १९५ b].....तथाहि- यद् यन्मयैरारब्धं तन्मयमेव तद् इति शास्त्रं कार्यकारणयोरेकखरूपत्वं प्रतिपादयति । इदमुक्तं भवति-यद् यजातिमत् तत् तन्मयकारणकम् , शकलादिवत् , भेदा अपि सुखादिजातिमन्त इति [ पृ० १९६ a ] ।”-विशाला। ६ सांख्यकारिकायुक्तिदीपिकावृत्ति. पृ० ४९ पं० ११ । .:. १ नयचक्रवृत्ति पृ० १२ पं० १९-२३ । २ * * एतचिह्नान्तर्गतः पाठो नयचक्रवृत्तेः 'पृ० २६५, पृ० २६६ पं० २-३, पृ० २९१ पं० २०-२१' अनुसारेण कल्पनयवास्माभिरिहोपन्यस्तः, वार्षगणतन्त्रे तु यथावत् कीदृशः पाठ इति निश्चित्य वक्तुं न पार्यते। ३ दृश्यतां टिपृ० १४ पं० ३१-३२। ४ तुलना-नयचक्रवृत्ति, पृ० ३२० पं० ४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org