________________
१३८
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप्पणेषु [प्राचीनस्य - पृ० ३१३ पं० १०.-पृ० ३१४ पं० ४. तस्य प्रयोगो...निगमनमिति । तुलना
"कापिलानां परप्रतिपादनार्थ 'वीतावीतविशेषाद् द्विविधमनुमानम् । तत्र वीतस्य वाक्यभावः पञ्चप्रदेशः प्रतिज्ञादिभेदात् । ...... परिशेषादावीतसिद्धिः। परपक्षप्रतिषेधेन स्वपक्षपरिग्रहक्रिया आवीत [इति Psv'] | प्रतिषेधस्य [च Psv ] उपायद्वयम्-लोकदृष्टान्तविरोधोऽभ्युपगमहानिश्च [इति Psvi]।" इति 5 प्रमाणसमुच्चयवृत्तौ तृतीये परार्थानुमानपरिच्छेदे ।
- पृ० ३१४ पं० ४. वीतस्य [आवीतस्य ] वा भावः । वस्तुतोऽत्र 'वीतस्य वाक्यभावः' इत्येव शुद्धः पाठः । दृश्यतां टिपृ० १३८५०२।
पृ० ३१४ पं० ४-५. साध्यावधारणं पसंहारः । तुलना-टिपृ० १३९ पं० १९-२७ ।
पृ० ३१४ पं० ७-१४. प्रयोगश्च दृष्टान्तवाहुल्यम् । नयचक्रवृत्तिकृता सर्वमिदं सांख्यमतं वार्षगणतन्त्रं 10 मनसि निधायाभिहितम् । तथा च नयचक्रवृत्ति-PSY-VT-युक्तिदीपिकाद्यनुसारेण निम्नलिखितः पाठो वार्षगणे तन्त्रेऽत्र आसीदिति सम्भाव्यते
"प्रयोगश्च - अस्ति प्रधानम् , भेदानामन्वयदर्शनात् । आध्यात्मिकानां भेदानों कार्यकारक ?)रणात्मकानामेक
१ “वीतावीतविशेषादिति । तत्रोक्तम् - यदेतत् सामान्यतो दृष्टमनुमानं शेषवदेष हेतुरतीन्द्रियाणां भावानां समधिगमे । तस्य प्रयोगोपचारविशेषाद् द्वैविध्यम्-वीत आवीत इति । प्रयोगोपचारविशेषात् [ब्योर' बोंगस् पडिब्ये' ब्रग् लस् VT.= ] प्रयोगप्रतिपादनविशेषादित्यर्थः । अन्ये वदन्ति-प्रयोगः परप्रतिपादनकालः, 'प्रयुज्यतेऽत्र' इति कृत्वा । उपचारोऽभिधानम् । तद्विशेषाद् द्वैविध्यम् , न पुनरर्थविभागः । क्वचित् खपक्षसाधनाय हेतुरुपादीयते क्वचित् परपक्षप्रतिषेधाय । प्रतिपाद्यार्थस्य विशेषेण अधिगतिः वीतः । परपक्षनिषेधेन स एवार्थ आयातीति आवीतः। तत्र वीतस्य वाक्यभाव इति वाक्यभावो वाक्यस्वभावो वाक्यस्वरूपम् । पञ्चप्रदेश इति पञ्चावयवः । प्रतिज्ञादिभेदादिति 'आदि'शब्दो हेतुदृष्टान्तोपसंहारनिगमनसङ्ग्रहार्थम् ।”-विशाला० पृ० १९३ । २ "स्क्येर् स्क्य' ब' नेम्सन' रे' गशन्' ल' बस्तन्' पर ब्य' बडि दोन्- दुर्नम् पर्ल्द न्' प' दङ्ब्स लते डोस पडिब्ये ब्रम् गिस्' जैस् सु' दुपग्' पर्नम् प ञिस् ते। दे' लस् र्नम् पर् ल्दन् पडि ङग्' गि' द्डोस्' पोडि युल् नम्' प' ल्ङ स्ते । दम् ब्चऽ' ब ल सोग्स्' पडि ब्ये' बस्' सो' शेस्' सेर् रो॥"-PSV N. ed. पृ० ५९ b। “सेर् स्क्य' बनम्स् क्यङ्. ग्शन्' ततॊग्स्' पडि दोन् ग्यि' र्जेस्' सु द्पग्' प नि बसल् ते डोङस्' प' दङ् ल्दन्' पडि ख्यद्’ पर् ग्यिस्' नेम्' प गजिस्' सो ॥ दे' ल' ल्दन् पनि दम्' बचs बल' सोगस्' पडि ख्यद्' पर ग्यिस्' ङग् गि' रङ्' शिन्' ल्ङडि फ्योग्स' सो ॥"-Psv N. ed. पृ० १४२ b। ३ "परिशेषादावीतसिद्धिरिति इदमावीतस्य लक्षणम् । [ऽदिडि. ब्शद्' प नि VT= ] अस्य भाष्यम् - यदा नेदमतोऽन्यथा सम्भवति, अस्ति चेदम् , तस्मात् परिशेषतो हेतु रेवायमित्यवधार्य कार्यसिद्धावपदिश्यते तदा आवीताख्यो भवतीति। परपक्षप्रतिषेधेनेत्यादिना आवीतलक्षणार्थ संक्षिप्य कथयति । लोक]शब्दोऽनभिमतनिराकरणार्थः । प्रतिषेधस्योपायद्वयमिति द्वौ मार्गावित्यर्थः। उदाहरणे दृष्टान्तः प्रसिद्धः, तद्व्यवच्छेदार्थमुक्तं लोकदृष्टान्तति । यद् लोकप्रसिद्धि विरुद्धं वचनं तद् दृष्टान्तविरुद्धम् । तस्य तद्विरुद्धाभिधानेनैव निराकरणे 'लोकदृष्टान्तः' इति ‘अनुमानम्' इत्यन्ये । ... शास्त्रस्य प्रमाणत्वमभ्युपेत्य यत् तद्विरुद्धाभिधानं सा अभ्युपगमहानिः।”विशाला० पृ० २०० B-२०१०। ४ Psvi N. ed. पृ० ६१ B-६२ A Psy* N. ed. पृ० १४४ B। ५ तुलना-"ऑस्त प्रधानं भेदानामन्वयदशेनात्' इति । तत्र यदि प्रधानस्य अस्तित्वं साध्यते तदसम्यक्, प्रमाणविषयाज्ञानात् । असामान्यलक्षणविषयमनुमानमिति दर्शितम् ।" Psv N. ed पृ० ५९ b, Psv* पृ० १४२ b। “अस्ति प्रधानमिति प्रतिज्ञा ।...... प्रधानं सत्त्वरजस्तमसां साम्यावस्था। मेदानामन्वयदर्शनादित्यादिहेतुः । परस्परं भिद्यन्ते विभज्यन्त इति भेदा विकाराः। तेषामन्वयोऽनुगमः, सुखदुःखमोहात्मकत्वात् ।......तथोक्तम्-आध्यात्मिकानां बाह्यानां च मेदानामेकजातिसमन्वयोऽयमस्ति । ते मन्यामहे भेदात् पूर्वमेते क्वचित् सामान्यभूता इत्यादि [ पृ० १९३ B]""आस्त प्रधानं भेदानामन्वयदशेनात् । आध्यात्मिकानां मेदानां कार्यकारणभूतानामेकजातिसमन्वयो दृष्टः । [जि' सिद्' दु VT = ] यावत् शब्द-स्पर्श-रूप-रस-गन्धाः पञ्च त्रयाणां सुखदुःखमोहानां सन्निवेशविशेषाः। कस्मात् ? पश्चानां पञ्चानामेककार्यभावात् इत्यादि विस्तरवाक्यं हेतुर्न भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org