Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 602
________________ प्रत्यक्षपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः। १०९ तु बाह्य एवार्थः प्रमेयः तदा विषयाभासतैवास्य प्रमाणम् । तदा हि ज्ञानस्वसंवेद्यमपि स्वैरूपमनपेक्ष्य अर्थाः भासतैवास्य प्रमाणम् । यस्मात् सोऽर्थस्तेन मीयते । यथा यथा हि अर्थस्याकारः शुभ्राशुभ्रादित्वेन ज्ञाने निविशते तत्तद्रूपः स विषयः प्रमीयते । तथा ज्ञानस्य संवित्तिं नानाकारामुपादाय तथा तथा प्रमाणप्रमेयत्वमुपचर्यते । निर्व्यापाराः [हि ? ] सर्वधर्मा इति । भाह च १ दृश्यतां टिपृ० १०८ टि० ६ । “बाह्ये प्रमेये स्वसंवित्तिफलस्थितावपि विषयाभासतैव ज्ञानस्य प्रमाणमिष्यते, न तु विज्ञप्तिमात्रतावद् ग्राहकाकारः ।....."तदा हि ज्ञानवसंवेद्यमपीत्यादि । ज्ञानस्य स्वसंवेद्यमिति विग्रहः । यस्मादित्यादिना.....'कारणमाह मीयते इति निश्चीयते । यथा यथेत्यादि ज्ञानस्य ज्ञेयाकारवशेन बाह्योऽर्थो निश्चीयते इत्यर्थः । ..... यद्यपि 'सोऽर्थस्तेन मीयते' इत्यभिहितं तथापि 'तत्साधनया खसंवित्त्या' इति अवगन्तव्यम् । तथा हि-यथा यथा अर्थाकारः शुभाशुभादिरूपेण ज्ञाने निविशते तथा तथा खसंवित्तिःप्रथते । यथा यथा स दृश्यते तथा तथा शुभाशुभा दिः रूपादिरों विनिश्चीयते [पृ० ३३ B] | "तद्वशाद् विषयनिश्चयो भवति, नान्यथा, तस्माद् विषयाभासता प्रमाणम् [“पृ० ३४ A] ।” - विशाला। तुलना-“तस्मात् प्रमेये बाह्येऽपि युक्तं खानुभवः फलम् । यतः खभावोऽस्य यथा तथैवार्थविनिश्चयः ॥ तदर्थाभासतैवास्य प्रमाणं, न तु सन्नपि । ग्राहकात्माऽपरार्थत्वाद् बाह्येष्वर्थेष्वपेक्ष्यते ॥ यस्माद् यथा निविष्टोऽसावर्थात्मा प्रत्यये तथा । निश्चीयते निविष्टोऽसावेवमित्यात्मसंविदः ॥ इत्यर्थसंवित् सैवेष्टा यतोऽर्थात्मा न दृश्यते । तस्माद् बुद्धिनिवेश्यार्थः साधनं तस्य सा क्रिया ॥ यथा निविशते योऽर्थः यतः सा प्रथते तथा । अर्थस्थितेस्तदात्मत्वात् खविदप्यर्थविद् मता ॥”-प्र० वा० २।३४६-३५०। . २"रङ् ङो बोल' मि' बल्तोस्' पडि" - Pav | ३ “यद्याकारमनादृत्य प्रामाण्यं च प्रकल्प्यते । अर्थक्रियाऽविसंवादात तद्रूपो ह्यर्थनिश्चयः ॥ १३२८ ॥ इत्यादि गदितं सर्व कथं न व्याहतं भवेत् । वासनापाकहेतूत्थस्तस्मात् संवादसम्भवः ॥ १३२९ ॥ नैव ह्यर्थक्रियाऽविसंवादित्वमात्रेणाकारमनपेक्ष्य प्रामाण्यं कल्पनीयम् , विषयाकारस्याप्रामाण्यप्रसङ्गात् । तद्रूप इति ज्ञानस्थाभासरूपः । 'आदि'शब्देन यथा यथा ह्यर्थस्याकारः शुभ्रादित्वेन सन्निविशते तद्रूपः स विषयः प्रमीयते इत्यादिकमाचार्यायं वचनं विरुध्यत इति दर्शयति । अर्थक्रियासंवादस्तु पूर्वार्थानुभववासनापरिपाकादेव प्रमाणान्तराद् भवतीत्यवसेयम् ।"-तत्त्वसं० पं० पृ० ३९५। ४ "शुभ्राशुभ्रादित्वेन" - Psvi-"शुभ्रादित्वेन"-तत्त्वसं० पं० पृ० ३९५ । “शुभादित्वेन"-प्र०वार्तिकालं० पृ. ३९३ । [स्दुग्' प. मि स्दुग्' प' ल' सोगस प VT=] शुभाशुभादि° - विशाला० पृ० ३३ ।। ५ “तत्तद्रूपः" - PSY'-. । “तद्रूपः" - तत्त्वसं० पं० पृ. ३९५, प्र० वार्तिकालं० पृ. ३९३ । ६"अभिन्नात्मकस्य ज्ञानस्य ग्राहकाकारादिविभागः कथमिति चेत् ,.. आह-[दे ल्तर शेस' प' ल' सोगस्' प' स्ते VT.=1 तथेत्यादि । अयमस्य संक्षिप्तोऽर्थः-तत्त्वतस्तद्विभागोऽसन्नेव ।..'यथादर्शनं प्रमाणप्रमेयव्यवस्थेयं क्रियते, न तु यथावत् तत्त्वतः । [पृ० ३४ A] ... । तथेति यथोक्तोभयाभासस्य ज्ञानस्येति । ज्ञानस्य संवित्तिमिति कर्मभूतस्य ज्ञानस्य संवित्तिं दर्शयति । किम्भूताम् ? नानाकाराम् । नाना आकारो यस्याः सा तथोक्ता।""उपादायेति तां प्रमाणभूतां गृहीत्वा तथा तथा इत्यादौ अविकल्पके तावद् ग्राहकाकारः कल्पनापोढः प्रत्यक्षप्रमाणम् , स्पष्टावभासि ग्राह्याकारस्खलक्षणं प्रमेयम् । लिङ्गजेऽपि ग्राहकाकारोऽनुमानप्रमाणम् । ...अस्पष्टाभं ग्राह्याकारसामान्यलक्षणं प्रमेयमिति । उपचर्यते इति व्यपदिश्यते [पृ० ३४B] ।"-विशाला०। ७“अत एवोक्तम्-निर्व्यापाराः सर्वधर्मा इति ।"-प्र०वार्तिकालं० पृ. ३६६ । “ निर्व्यापाराः [हि?] सर्वधर्मा इति, अनेन तस्या ज्ञानसंवित्तः भ्रान्तत्वं ग्रकाश्यते।"-विशाला० पृ० ३४ B | "न, व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः। निराकारे तु विज्ञाने सा संस्था न हि युज्यते [ तत्त्वसं० ॥ १३४६ ॥ 1. नेत्यादिना उत्तरमाह । नीलस्येदं संवेदनं न पीतस्यति विषयाधिगतिव्यवस्थाया अर्थसारूप्यमेव निबन्धनम् , नान्यत्, इति व्यवस्थाप्यव्यवस्थापकभावेन साध्यसाधनव्यवस्था नोत्पाद्योत्पादकभावेन । यस्मान्न पारमार्थिकः कर्तृकरणादिभावोऽस्ति क्षणिकत्वेन निर्व्यापारत्वात् सर्वधर्माणाम् । ज्ञानं हि विषयाकारमुत्पद्यमानं विषयं परिच्छिन्ददिव सव्यापारमिवाभाति ।......तस्मात् साकारमेव ज्ञानं प्रमाणं न निराकारम् ।"-तत्त्वसं० पं० पृ० ३९९ । ८"[स्म्रस्' प' य... VT.D] आह चेत्यादिना प्रमेयादिव्यवस्थां तां दर्शयति । य आभासोऽस्येति विग्रहः । खांशप्रमाणत्वसाधनात् अत्र विषयाभासो ग्राह्यः । प्रमेयं तदिति स विषयाभासः प्रमेयः । प्रमाणफलते पुनः ग्राहकाकारसंवित्ती [पृ० ३५ A] इति । ग्राहकाकारः प्रमाणता, संवित्तिः फलता । "त्रयं नातः पृथक्कृतमिति [पृ० ३५ B]"विशाला० । दृश्यतां टिपृ० १०३ टि० ९ । 'तदेव (एतदेव Psvi) कथयति'-PSV I Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662