Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 624
________________ परार्थानुमानपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः । १३१ नान्येऽवयवा अवयविनः, अप्रत्यक्षत्वप्रसङ्गात् । नास्ति द्रव्यम् , गुणद्रव्याणां द्रव्याद्रव्यत्वप्रसङ्गात् । *उभयस्वरूपविशेष [निराकरण] यथा* सर्व वाक्यमनृतार्थभिति । यदेतद् वाक्यं 'वाक्यमस्ति वाक्यात्मना अनृतार्थत्वेन च' इति, अस्य अनृतत्वे व्यतिरेके सति परस्परव्यावृत्तत्वाद्रूपं सत्तयाधिष्ठितं द्रव्यस्य ग्राह्यं गुणानामपि तथैवेति न्यायः । ततो द्वयोः परस्परपरिहारेण स्थितयोरेको गुणोऽन्यद् द्रव्यमिति कुतो विवेकः ? अपरस्परपरिहारेऽपि कुतो विवेकः? [पृ०५५४ ]"-प्र० वार्तिकालं। विस्तरार्थिभिः सव्याख्याः प्रमाणवार्तिककारिका [४।१५२-१६३ ] अत्र विलोकनीयाः । नयचक्रवृत्ति. पृ० १७२ पं० १६-१९ १* * PSv* मध्ये एतत्स्थाने 'एवम्' इति पाठः। * * एतचिह्नान्तर्गतपाठात् परतस्तु Psv° अनुसारेण सर्वः संस्कृतानुवादः, PSY' मध्ये तु तत्र विशृङ्खलोऽनुवादः । VT. अनुसारेण तु यादृशः पाठः संभवति स विशालामलवत्यन्तगतप्रतीकत उन्नयः । “उभयस्वरूपनिराकरणमुखेनोदाहरणं तद्यथा सर्व वाक्यमनृतार्थमिति । 'अनृतार्थ वचः सर्वमिति वाक्यानृतत्वयोः। तत्स्वरूपविशेषस्य क्षेपे दोषो विवक्षिते ॥ २७५ ॥' वाक्यत्वमनृतत्वं च सामान्येन यदा निराकर्तुमभिप्रेतं तदोभयस्वरूपनिराकरणम्, यदा तु वाक्यस्य धर्मिणो धर्मोऽनित्यत्व[मनृतत्वञ्चानताभिधेयत्वं तदोभयविशेषनिराकरणम् , सर्वस्य वाक्यविशेषस्यानृताभिधेयत्वस्य च निराकरणात् । प्रामाण्यं हि वचनसामर्थ्यात् , अतस्तेन वाक्यत्वानृताभिधेयत्वाभाव(त्वोभय ?)निराकरणं धर्मि विशेषश्चात्र कश्चिदनित्यत्वादिको द्रष्टव्यः। यदि ह्यनित्यत्वं न साध्यते व्यर्थकमेव वक्तृप्रामाण्याङ्गीकरणम् । यदि नित्यता स्यान्न वक्त्रा किञ्चित् क्रियेतेति व्यर्थ एव वक्ता स्यादतः स्ववचनविरुद्धमेतत् । 'यदि नित्यं भवेद्वाक्यं वक्तुर्व्यर्थत्वमापतेत् । अवाक्यरूपोपकृतौ सिद्धोपस्थायितापतेत् ॥ २७६ ॥' वक्तुर्हि वाक्यस्वरूपमनुपकुर्वाणस्य न वाक्योपकारिता । अतत्कृतोपकारे न तस्य किञ्चिदित्यनुपकारी न वाक्येन वक्तापेक्ष्येत । अपेक्ष्यते च । तस्मादनित्यता तस्य साधनीया। ततस्तद्विशेष निराकरणमुखेनायं पक्षाभास इति कथितम् ।"-प्र० वार्तिकालं० पृ. ५५४-५। २ "सर्व: वाक्यमनतार्थमिति प्रतिज्ञा। अनेन च 'स्वस्मादन्यत् सर्वं वाक्यमनृतार्थमिति प्रतिज्ञायते। परप्रतिपादनाय वचनमुच्चारयतैव वादिना खवचनं प्रमाणमभ्युपगतम् । तस्मात् तदत्राविवक्षितम् । तस्मात् 'सर्व'शब्दोऽत्र वाक्यैकदेशे परस्यैव [वाक्ये] वर्तते। यच्च ‘वाक्यम्' इत्यनूद्यते तद् वाक्यं कीदृशमित्याह-वाक्यमस्ति चाक्यात्मना अनृतार्थत्वेन च इति । वाक्यात्मनेति वाक्यस्वरूपेण , अनेन धर्मिस्वरूपमनूद्यते । अनृतार्थत्वेन चेति अयथार्थत्वेन, अनेन च धर्मस्वरूपम् । इत्थम्भूतलक्षणे इयं तृतीया। चशब्दो धर्मिधर्मविशेषानुवादवाक्यसंग्रहार्थः । तत् पुनः कीदृशमिति चेत् , 'वाक्यस्य विशेषो ऽनित्यत्वादिरस्ति, अनृतार्थत्वस्य च अनृतपदाभिधेयत्वादिरस्ति' एवंविधम् । अस्येति अनुवादवाक्यस्य । अस्यापि प्रतिज्ञावाक्येन भारतादिवाक्यवदनृतार्थत्वं प्रतिज्ञायते। तस्य चानृतार्थत्वे भारतादिवाक्यस्वरूपमवाचकमपि सत्यार्थ सम्भवति यच्चासत्यार्थत्वं तद्विशेषः सोऽपि हीयते । तस्मात् प्रतिज्ञा स्ववाच्ये निराकृता भवति तत्स्वरूपद्वारेण [पृ० १४६ B] विशेषद्वारेण वा । तत्र यदि वाक्यासत्यत्वयोः सर्वथा निराकरणमिति अनेन धर्मधर्मिस्वरूपनिराकरणद्वारेण प्रतिज्ञार्थनिराकरणं दर्श्यते । कथं कृत्वेति चेत्, वाक्यासत्यत्वयोरिति निमित्तार्था सप्तमी । तेनायमर्थो भवति-यदि वाक्येन धर्मिणा असत्यार्थेन साध्यधर्मेण च निमित्तेन सर्वथा निराकरणं पक्षीभूतम् । इदमुक्तं भवति-यदि धर्मिरूपे धर्मरूपे वा बाध्यमाने तद्वारेण साध्ये समुदाये बाधा भवति तथा सति उभयस्वरूपनिराकरणमिति । 'सर्वथा' इत्यनेन सर्वप्रकारेण समस्तं साध्यं यदि उपरुध्यते तर्हि प्रतिज्ञादोषः न तु यथा केचिदाहुः धर्मिमात्रबाधयेति दर्शयति।......एवं तावत् [स्त्र' जिल्त शिन्' पडि ङग् गि VT.=] यथाशब्दं वाक्यस्यानृतार्थत्वे उभयस्वरूपद्वारेण निराकरणम् । [द' नि' स्पस्' शिन्' प VT. = ] इदानीं शब्दितस्य अयथार्थत्वे विशेषद्वारेण प्रतिज्ञार्थनिराकरणप्रतिपादनायाह-अथेत्यादि । वाक्यात्मन इति ।..........अयमपि क इति चेत्, धर्मिवाक्यविशेषः। कुतोऽयमिति चेत्, यतः स वाक्यात्मभूतः । अपि च धर्मिधर्मविशेषनिराकरणप्रतिपादनं प्रकृतम्, यतस्तदनन्तरमेवोक्तम्-तथासति उभयविशेषनिराकरणमिति । तस्मादयं सामान्यशब्दोऽपि प्रकरणात् सामर्थ्याच वाक्य 1“र' जिदू' लस्'-VT. I तुलना-“सर्व मिथ्या ब्रवीमीति नैतद् वाक्यं विवक्ष्यते । तस्य मिथ्याभिधाने हि प्रक्रान्तोऽर्थो न गम्यते ॥३३॥२३॥ न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता । प्रतिपाद्यं न तत् तत्र ॥३।३।२४॥ असाधिका प्रतिज्ञेति नेयमेवाभिधीयते । यथा तथास्य धर्मोऽपि नैव कश्चित् प्रतीयते ॥३३३२२५॥"वाक्यपदीय. । प्र० वा० ४।९४,१०३। न्यायबिन्दुटीका ३।५४ । 2 'ङग्' फ्योग्स् चिग्' फ रोल् बोऽि खो' न ल' ऽजुग्' गो ॥"-VT.I 3 'ग्' गि' ब्दग्' जिद् क्यिस्-VT. = वाक्यात्मत्वेन ?। 4 'क्य-VT. = अपि?। 5 'ब्र्जुन' छिग्' गि' बौद् पर्' व्य' ब चन्' जिद् ल सोगस् प'-VT. । (अनृताभिधेयत्वादिः ?)। 6 “अदिति शेस प”Vr | 7 'ङग् दङ् ब्देन् मिन्' जिद्द गल' VT. I (वाक्यानृतत्वयोः ?)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662