Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 622
________________ परार्थानुमानपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः। १२९ हेतुदृष्टान्ताभासवचनं परिहृतं भवति । 'तौ [हि ? ] साध्यरूपेण न निर्देश्यौ । स्वैयमिति शास्त्रानपेक्षमभ्युपगमं दर्शयति । स च अनिराकृतः प्रत्यक्षार्थानुमानाप्तप्रसिद्धन स्वधर्मिणि । यो हि धर्मी धर्मविशिष्टः साधयितुमिष्टस्तत्र यदि साध्यधर्मविरुद्वेन प्रत्यक्षानमानागमप्रसिद्धेन धर्मान्तरेण अनिराकृतस्तहि साध्य निर्देशो निरवद्यः । अन्यथा तदाभासः, यथा-अश्रावणः शब्दः, नित्यो घटः, न सन्ति प्रमाणानि प्रमेयार्थानीति प्रतिज्ञामात्रेण, यत्राप्यसाधारणत्वादनुमानाभावे १'तौ हि साध्यरूपेण न निर्दिश्यते' इत्यपि पाठोऽत्र भवेत् । २ "उक्तमाचार्येण - स्वयमिति शास्त्रानपेक्षमभ्युपगमं दर्शयति इति ।” -प्र०वार्तिकालं० पृ० ४९५ । “आचार्यो वृत्ती आह - स्वयमिति शास्त्रानपेक्षमभ्युपगमं दर्शयति ।" -प्र० वा० म० ४।३०, पृ० ४२५ । “स्वयमिष्ट इत्यनेन [ वचनेन Psv' ] शास्त्रानपेक्षमभ्युपगमं दर्शयति ।” - PSv. VT.। ३ “अत एवाह - 'यो हि धर्मी धर्मविशिष्टस्तत्र यदि साध्यधर्मविरुद्धन प्रत्यक्षानुमानागमप्रसिद्धेन न बाध्यते स पक्षः, अन्यथा तदाभासः' इति ।” -प्र. वार्तिकालं० पृ० ५५१ । तुलना-प्र०वा० ४।१३६-१४८ । “यो धर्मी धर्मविशिष्टः' इत्यनेन साध्यधर्मविशिष्टस्यैव धर्मिणः साध्यतां दर्शयन् केवलस्य धर्मिण उपरोधेऽपि बाधा न भवतीति प्रकाशयति । यदि तत्रेति साध्यधर्मनिषेधनिमित्तेन तेन धर्मान्तरेण यदि निराकृतः, यदि तस्मिन् बाध्ये तद्वारेणायाता बाधा साध्यधर्मेऽपि न भवतीत्यर्थः।"-विशाला० पृ० १४० A । ४ 'तर्हि' इत्यस्य स्थाने 'तदा' इति एवं हि' इति वा पाठोऽपि भवेत् । ५ तत्राचार्येणेदमुक्तम्-स्वरूपेणैव निर्देश्यः स्वयमिष्टोऽनिराकृतः पक्षः यदि प्रत्यक्षानुमानागमप्रसिद्धेन। तद्यथा अश्रावणःशब्दो नित्यो घट इति न सन्ति प्रमाणानि प्रमेयार्थानीति प्रतिशामात्रेण, यत्राप्यसाधारणत्वादनुमानाभावे शाब्दप्रसिद्धन विरुद्धनार्थेन अपोद्यते न स पक्ष इति।" आह चाचायेः-यत्राप्यसाधारणत्वादनुमानाभावे शाब्दप्रसिद्धेन विरुद्धनार्थेनापोद्यते न स पक्ष इति यत्र विषये प्रतिपक्षभूतस्यानुमानस्यासाधारणता तत एव तदभावः । अभावे शाब्दप्रसिद्धमनुमानं बाधकं न स पक्षः ।" [पृ० ५३४ ] 'अचन्द्रः शशी सत्त्वादिति [पृ० ५३५].....'यत्राप्यसाधारणत्वादनुमानाभावे..... प्रसिद्धेन विरुद्धनार्थेनापोद्यते न स पक्ष इति [पृ० ५३६ ].."उक्तम्- 'असाधारणत्वादनुमानाभावे' इति... अचन्द्रः शशी सत्त्वादिति ।"-प्र०वार्तिकालं० । “अनुमानबाधायामन्तर्भावादनयोरभ्युपगमप्रतीतिबाधयोः सिद्धयोरपि पृथगाख्याने प्रयोजनं दर्शयन्नाचार्य एते अभ्युपगमप्रतीतिबाधे सहेतुके प्राह -न सन्ति प्रमाणानि प्रमेयार्थानीति प्रतिसामात्रेणेति । अत्र प्रतिज्ञामात्र शास्त्रखवचनयोः सिद्धयोरप्रामाण्यप्रतिज्ञाबाधकमुक्तम् । यत्राप्यसाधारणत्वादनुमानाभावे शाब्दप्रसिद्धनापोद्यते न स पक्ष इति । अत्र शाब्दप्रसिद्धेन शशिनश्चन्द्रत्वेन अचन्द्रत्वप्रतिज्ञाया बाधनमुक्तम् । अनुमानाध्यक्षबाधने तु न सहेतुके प्राह 'अश्रावणः शब्दो नित्यो घटः' इति ॥ तस्माद् विषयभेदोपलक्षणार्थ सहेतुत्वाहेतुत्वदर्शनम्। प्रत्यक्षानुमानबाधे सर्व विषये, अभ्युपगमप्रतीतिबाधे तु नियतविषये इत्यर्थः ।"-प्र० वा० म० ४.१३०, पृ० ४५७। "उदाहरणमप्यत्र सदृशं तेन वर्णितम् [प्र. वा. ४९६] । अत्र शास्त्र-[ख]वचनयोाघातेन आचार्येण उदाहरणमपि सदृशमभिन्नं वर्णितम् , यथा न सन्ति प्रमाणानि प्रमेयार्थानीति ।"-प्र० वा०म० पृ. ४४६॥ "योऽचन्द्रवं शशिनि प्रतिजानीते तं प्रति चन्द्रत्वसाधनाय लोकस्य ब्रुवतोऽनुमानाभाव आचार्येणोक्तः- 'यत्राप्यसाधारणत्वादनुमानाभावे शाब्दप्रसिद्धन विरुद्धनार्थेनापोह्य(घ)ते यथा 'अचन्द्रः शशी सस्वात्' इति नासौ पक्षः' इत्येतेन ग्रन्थेन।" - तत्त्वसं० पं० ॥ १३९६ ॥ पृ० ४११। “अश्रावणः शब्द इति ।...[पृ० १४० A].. इति प्रत्यक्षेण बाधनम् ।..... अनुमानविरोधस्योदाहरणं नित्यो घट इति ।......[पृ० १४० B] न सन्ति प्रमाणानीति आप्तबाधाया उदाहरणम् [पृ० १४१ A]। येनैवमेते समाने तेन उदाहरणमपि अत्र सदृशं दर्शितमाचार्येणन सन्ति प्रमाणानि प्रमेयार्थसाधनानीति । ........"प्रतिज्ञामात्रेणेति ।[पृ० १४१ B] यत्रापीत्यादिना प्रसिद्धिबाधामुदाहरति । अत्र अचन्द्रः शशीति प्रतिज्ञा । 'शशिनश्चन्द्रवाच्यत्वं नास्ति' इति अस्या अर्थः । स च शाब्दप्रसिद्धन विरुद्ध नार्थेनापोद्यते । शाब्दी प्रसिद्धिरनुमानम् , तेन प्रसिद्धो निश्चितः शाब्दप्रसिद्धः। [पृ० १४२ A]..'असाधारणस्वादिति । सत्त्वादिबाधकस्य हेतोरसाधारणत्वात् । तस्माचानुमानाभावः । [पृ. १४२ B] |" -विशाला० । विस्तरार्थिभिः सवृत्तिकं प्रमाणवार्तिकम [४९२-१४८ 1 अत्र द्रष्टव्यम् । “तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्द इति । अनुमाननिराकृतो यथा नित्यः शब्द इति। प्रतीतिनिराकृतो यथा अचन्द्रः शशीति । स्ववचननिराकृतो यथा नानुमानं प्रमाणम् । इति चत्वारः पक्षाभासा निराकृता भवन्ति । एवं सिद्धस्यासिद्धस्यापि साधनत्वेनाभिमतस्य खयं वादिना तदा साधयितुमनिष्टस्योक्तमात्रस्य निराकृतस्य च विपर्ययेण साध्यः तेनैव स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृता पक्ष इति पक्षलक्षणमनवयं दर्शितं भवति।"-न्यायबिन्दु. ३१५०-५६॥ ६ “प्रमेयार्थसाधनानि" -- PSY. VT. । नयटि. १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662