________________
परार्थानुमानपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः।
१२९ हेतुदृष्टान्ताभासवचनं परिहृतं भवति । 'तौ [हि ? ] साध्यरूपेण न निर्देश्यौ । स्वैयमिति शास्त्रानपेक्षमभ्युपगमं दर्शयति । स च अनिराकृतः प्रत्यक्षार्थानुमानाप्तप्रसिद्धन स्वधर्मिणि । यो हि धर्मी धर्मविशिष्टः साधयितुमिष्टस्तत्र यदि साध्यधर्मविरुद्वेन प्रत्यक्षानमानागमप्रसिद्धेन धर्मान्तरेण अनिराकृतस्तहि साध्य निर्देशो निरवद्यः । अन्यथा तदाभासः, यथा-अश्रावणः शब्दः, नित्यो घटः, न सन्ति प्रमाणानि प्रमेयार्थानीति प्रतिज्ञामात्रेण, यत्राप्यसाधारणत्वादनुमानाभावे
१'तौ हि साध्यरूपेण न निर्दिश्यते' इत्यपि पाठोऽत्र भवेत् । २ "उक्तमाचार्येण - स्वयमिति शास्त्रानपेक्षमभ्युपगमं दर्शयति इति ।” -प्र०वार्तिकालं० पृ० ४९५ । “आचार्यो वृत्ती आह - स्वयमिति शास्त्रानपेक्षमभ्युपगमं दर्शयति ।" -प्र० वा० म० ४।३०, पृ० ४२५ । “स्वयमिष्ट इत्यनेन [ वचनेन Psv' ] शास्त्रानपेक्षमभ्युपगमं दर्शयति ।” - PSv. VT.। ३ “अत एवाह - 'यो हि धर्मी धर्मविशिष्टस्तत्र यदि साध्यधर्मविरुद्धन प्रत्यक्षानुमानागमप्रसिद्धेन न बाध्यते स पक्षः, अन्यथा तदाभासः' इति ।” -प्र. वार्तिकालं० पृ० ५५१ । तुलना-प्र०वा० ४।१३६-१४८ । “यो धर्मी धर्मविशिष्टः' इत्यनेन साध्यधर्मविशिष्टस्यैव धर्मिणः साध्यतां दर्शयन् केवलस्य धर्मिण उपरोधेऽपि बाधा न भवतीति प्रकाशयति । यदि तत्रेति साध्यधर्मनिषेधनिमित्तेन तेन धर्मान्तरेण यदि निराकृतः, यदि तस्मिन् बाध्ये तद्वारेणायाता बाधा साध्यधर्मेऽपि न भवतीत्यर्थः।"-विशाला० पृ० १४० A । ४ 'तर्हि' इत्यस्य स्थाने 'तदा' इति एवं हि' इति वा पाठोऽपि भवेत् । ५ तत्राचार्येणेदमुक्तम्-स्वरूपेणैव निर्देश्यः स्वयमिष्टोऽनिराकृतः पक्षः यदि प्रत्यक्षानुमानागमप्रसिद्धेन। तद्यथा अश्रावणःशब्दो नित्यो घट इति न सन्ति प्रमाणानि प्रमेयार्थानीति प्रतिशामात्रेण, यत्राप्यसाधारणत्वादनुमानाभावे शाब्दप्रसिद्धन विरुद्धनार्थेन अपोद्यते न स पक्ष इति।"
आह चाचायेः-यत्राप्यसाधारणत्वादनुमानाभावे शाब्दप्रसिद्धेन विरुद्धनार्थेनापोद्यते न स पक्ष इति यत्र विषये प्रतिपक्षभूतस्यानुमानस्यासाधारणता तत एव तदभावः । अभावे शाब्दप्रसिद्धमनुमानं बाधकं न स पक्षः ।" [पृ० ५३४ ] 'अचन्द्रः शशी सत्त्वादिति [पृ० ५३५].....'यत्राप्यसाधारणत्वादनुमानाभावे..... प्रसिद्धेन विरुद्धनार्थेनापोद्यते न स पक्ष इति [पृ० ५३६ ].."उक्तम्- 'असाधारणत्वादनुमानाभावे' इति... अचन्द्रः शशी सत्त्वादिति ।"-प्र०वार्तिकालं० । “अनुमानबाधायामन्तर्भावादनयोरभ्युपगमप्रतीतिबाधयोः सिद्धयोरपि पृथगाख्याने प्रयोजनं दर्शयन्नाचार्य एते अभ्युपगमप्रतीतिबाधे सहेतुके प्राह -न सन्ति प्रमाणानि प्रमेयार्थानीति प्रतिसामात्रेणेति । अत्र प्रतिज्ञामात्र शास्त्रखवचनयोः सिद्धयोरप्रामाण्यप्रतिज्ञाबाधकमुक्तम् । यत्राप्यसाधारणत्वादनुमानाभावे शाब्दप्रसिद्धनापोद्यते न स पक्ष इति । अत्र शाब्दप्रसिद्धेन शशिनश्चन्द्रत्वेन अचन्द्रत्वप्रतिज्ञाया बाधनमुक्तम् । अनुमानाध्यक्षबाधने तु न सहेतुके प्राह 'अश्रावणः शब्दो नित्यो घटः' इति ॥ तस्माद् विषयभेदोपलक्षणार्थ सहेतुत्वाहेतुत्वदर्शनम्। प्रत्यक्षानुमानबाधे सर्व विषये, अभ्युपगमप्रतीतिबाधे तु नियतविषये इत्यर्थः ।"-प्र० वा० म० ४.१३०, पृ० ४५७। "उदाहरणमप्यत्र सदृशं तेन वर्णितम् [प्र. वा. ४९६] । अत्र शास्त्र-[ख]वचनयोाघातेन आचार्येण उदाहरणमपि सदृशमभिन्नं वर्णितम् , यथा न सन्ति प्रमाणानि प्रमेयार्थानीति ।"-प्र० वा०म० पृ. ४४६॥ "योऽचन्द्रवं शशिनि प्रतिजानीते तं प्रति चन्द्रत्वसाधनाय लोकस्य ब्रुवतोऽनुमानाभाव आचार्येणोक्तः- 'यत्राप्यसाधारणत्वादनुमानाभावे शाब्दप्रसिद्धन विरुद्धनार्थेनापोह्य(घ)ते यथा 'अचन्द्रः शशी सस्वात्' इति नासौ पक्षः' इत्येतेन ग्रन्थेन।" - तत्त्वसं० पं० ॥ १३९६ ॥ पृ० ४११। “अश्रावणः शब्द इति ।...[पृ० १४० A].. इति प्रत्यक्षेण बाधनम् ।..... अनुमानविरोधस्योदाहरणं नित्यो घट इति ।......[पृ० १४० B] न सन्ति प्रमाणानीति आप्तबाधाया उदाहरणम् [पृ० १४१ A]। येनैवमेते समाने तेन उदाहरणमपि अत्र सदृशं दर्शितमाचार्येणन सन्ति प्रमाणानि प्रमेयार्थसाधनानीति । ........"प्रतिज्ञामात्रेणेति ।[पृ० १४१ B] यत्रापीत्यादिना प्रसिद्धिबाधामुदाहरति । अत्र अचन्द्रः शशीति प्रतिज्ञा । 'शशिनश्चन्द्रवाच्यत्वं नास्ति' इति अस्या अर्थः । स च शाब्दप्रसिद्धन विरुद्ध नार्थेनापोद्यते । शाब्दी प्रसिद्धिरनुमानम् , तेन प्रसिद्धो निश्चितः शाब्दप्रसिद्धः। [पृ० १४२ A]..'असाधारणस्वादिति । सत्त्वादिबाधकस्य हेतोरसाधारणत्वात् । तस्माचानुमानाभावः । [पृ. १४२ B] |" -विशाला० । विस्तरार्थिभिः सवृत्तिकं प्रमाणवार्तिकम [४९२-१४८ 1 अत्र द्रष्टव्यम् । “तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्द इति । अनुमाननिराकृतो यथा नित्यः शब्द इति। प्रतीतिनिराकृतो यथा अचन्द्रः शशीति । स्ववचननिराकृतो यथा नानुमानं प्रमाणम् । इति चत्वारः पक्षाभासा निराकृता भवन्ति । एवं सिद्धस्यासिद्धस्यापि साधनत्वेनाभिमतस्य खयं वादिना तदा साधयितुमनिष्टस्योक्तमात्रस्य निराकृतस्य च विपर्ययेण साध्यः तेनैव स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृता पक्ष इति पक्षलक्षणमनवयं दर्शितं भवति।"-न्यायबिन्दु. ३१५०-५६॥ ६ “प्रमेयार्थसाधनानि" -- PSY. VT. ।
नयटि. १७ Jain Education International For Private & Personal Use Only
www.jainelibrary.org