SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ १२८ न्यायागमानुसारिणीवृत्त्यलकृतस्य नयचक्रस्य टिप्पणेषु [तृतीयः . स च स्वरूपेणैव निर्देश्यः स्वयमिष्टः । स्वरूपेणैवेति साध्यरूपेण, न तु सिद्धसाधनरूपेण । तथाच सिद्ध contradicted by inference.-न्यायमुख. पृ. ५-७ । चीनभाषानुवादानुसारेणास्य संस्कृतमीदृशं सम्भाव्यते"साधनदूषणस्वरूपव्युत्पादनार्थमिदमारभ्यते । पक्षादिवचनानीति साधनं तंत्र तु स्वयम् । साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृतः ॥२॥ पंक्षादीति, पक्षहेतुदृष्टान्तवचनैर्हि परेषामप्रतीतोऽर्थः प्रतिपाद्यते। [वसुबन्धुना ] वादविध्यादौ बहूनां वचनानां साधनत्वाभिधानेऽपि अत्रैकवचननिर्देशः समस्तानां साधनत्वप्रतिपादनाय । तेनान्यतमस्य न्यूनतायां साधनदोषः । 'तत्र शब्दः शास्त्रोपन्यासार्थोऽवधारणाओं वा 'तेष्वेव पक्षादिषु' इति । 'तु'शब्दो विशेषणार्थः [पक्षमितरेभ्यो व्यावर्तयति । स्वयमिति शास्त्रानपेक्षमभ्युपगमं दर्शयति । 'साध्यत्वेनेप्सितः' इति अनभिधाने असिद्धहेतु दृष्टान्ताभासयोरपि पक्षत्वं स्यात् । "विरुद्धार्थानिराकृत इति । [यदि विरुद्धार्थेन न निराक्रियते स पक्षः, अन्यथा तदाभासः ] । यदि विरुद्धार्थवाचिना स्ववचनेन बाध्यते यथा 'सर्वमुक्तं मृषा' इति, पूर्वाभ्युपगमेन वा यथा औलूक्यस्य 'नित्यः शब्दः' इति साधयतः, यत्राप्य पाधारणत्वादनुमानाभावे शाब्दप्रसिद्धेन विरुद्धनार्थेनापोद्यते यथा 'अचन्द्रः शशी सत्त्वात्' इति, यो वा धर्मी धर्मविशिष्टः साधयितुमिष्टः तत्र यदि प्रत्यक्षानुमानप्रसिद्धेन बाध्यते यथा 'अश्रावणः शब्दः' 'नित्यो घटः' इति [नासौ पक्षः]।" १ "स्वरूपेणैवेत्यादि । अत्र रूप-निपात-इष्ट-स्वयंपदैश्चतुर्भिर्यथाक्रमम् १ असिद्धः २ असाधनम् ३ इच्छाविषयीकृतः ४ साधनका सिसाधयिषितश्च गृह्यते । ततश्च चतूरूपं साध्यमिति दर्शितं भवति । न सिद्धसाधनरूपेणेति यथाक्रम रूपनिपाताभ्यां व्यवच्छेद्यं दर्शयति । तथाहि - स्वरूपशब्देन असिद्धं गृह्यते, तद्वयवच्छेद्यं सिद्धम् , [ यथा ] 'शब्दः श्रावणः' इति । स्वरूपेणैव इति निपातेन असाधनं गृह्यते, असिद्धमपि साधनत्वेनेष्टं तद्वयवच्छेद्यम् , यथा असिद्धहेतुदृष्टान्तौ ‘शब्दो नित्यः चाक्षुषत्वाद् बुद्धिवत्' इत्येतादृशरूपौ । तत्र सिद्धव्यवच्छेद फलस्य [गो स्ल'ब' जिद्' क्यि' क्यिर' ' साधनव्यवच्छेदफलमेव 'तथाच' इत्यादिना दर्शयति । तथाचेत्यवधारणे सतीत्यर्थः । हेतुश्च दृष्टान्ताभासश्च, तौ असिद्धौ चेति विग्रहः । असिद्धहेतुदृष्टान्ताभासवचनं परिहृतं भवति । प्रतिज्ञात्वेन [ दोर्' बर्' ऽग्युर् VI=] प्रतिक्षिप्त भवतीत्यर्थः ।......[ पृ० १३६ B] तौ साध्यरूपेण न निर्देश्या विति, असिद्धयोरपि साधनत्वेनाभिधानात् । [पृ. १३७ A] "शास्त्रानपेक्षमिति शास्त्रनिरपेक्षमित्यर्थः । अभ्युपगम इति प्रतिज्ञार्थः, सोऽभ्युपगम्यत इत्यभ्युपगमः ।... स्वयमिष्ट इत्यनेन शास्त्रानपेक्षमभ्युपगमं दर्शयति...[ पृ० १३७ B]..'तम्मादनुक्तोऽपि इच्छया व्याप्तः साध्यः । तदन्वयाभावे साध्यवैकल्यादयो दृष्टान्तादिदोषा इति । अनिराकृत इत्यादि । प्रत्यक्षश्वासावर्थश्चेति प्रत्यक्षार्थः, स चानुमानं चाप्तश्च प्रसिद्धश्चेति विग्रहं कृत्वा द्वन्द्वैकवद्भावेन तथा निर्देशः । स्वधर्मिणीति निमित्ते सप्तमी । स्वधर्मिनिमित्तेन अनिराकृत इत्यर्थः । एतदुक्तं भवति-वधर्मिणि बाधायां तद्वारेणायाता बाधा यदि साध्यधर्मेऽपि न भवतीत्यर्थः [पृ० १३८ B]"विशाला०॥ तुलना- "कीदृशः पुनः पक्ष इति निर्देश्यः । स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्ष इति । स्वरूपेणेति साध्यत्वेनेष्टः । खरूपेणैवेति साध्यत्वेनैवेष्टो न साधनत्वेनापि । यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात् साध्यम् , न पुनस्तदिह साध्यत्वेनैवेष्टं साधनत्वेनाभिधानात् । खयमिति वादिना । यस्तदा साधनमाह । एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह तच्छास्त्रकारेण तस्मिन् धर्मिणि अनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति । इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन साध्यः । तदधिकरणत्वाद् विवादस्य । यथा परार्थाश्चक्षुरादयः, सङ्घातत्वात् , शयनासनाद्यङ्गवदिति, अत्रात्मार्था इत्यनुक्तावपि आत्मार्थता साध्या, तेन नोक्तमात्रमेव साध्यमित्युक्तं भवति । अनिराकृत इति एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमान प्रतीतिववचनैर्निराक्रियते न स पक्ष इति प्रदर्शनार्थम् ।”-न्यायबिन्दु. ३३७-४८ । २“असिद्धहेतुदृष्टान्ताभासवचनं परिहृतम्"- Psv.। maranamaina 1 टिपृ० ७३ पं०१०-११। 2 प्र०वार्तिकालं० पृ० ५१०,५१९, ५२२,५६१ । प्र० वा० म०पृ० ४४३ । न्यायवार्तिकतात्पर्यटीका. १।१।३३ । टिपृ० ७३ टि. ३,४ । 3 तुलना - “पक्षादिवचनेन हेतुदृष्टान्तयोः परिग्रहः । बहनामवयवानां साधनत्वाभिधानेऽपि 'साधनम्' इति चैकवचननिर्देशः समस्त साधनत्वख्यापनार्थम् ।” - न्यायप्रवेशवृत्ति पृ० १३-२३। 4 "न्यायमुखे-यदि....."साधयतः।" -प्र० वार्तिकालं० ४।१०३, पृ० ५२६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy