________________
१३०
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप्पणेषु [तृतीयः शाब्दप्रसिद्धन विरुद्धेन अर्थेन अपोद्यते यथा अचन्द्रः शशी सत्त्वादिति । इदं धर्मस्वरूपनिराकरणद्वारमानं दर्शितम् । भनया दिशा धर्मधर्मिविशेषस्वरूपनिराकरणमपि वेदितव्यम् । तद्यथा - नान्योऽवयवी अवयवेभ्यः, तुलानतिविशेषाग्रहणात् ।
१“अर्थेन" - Psv' अनुसारेण नास्ति। २"इदं च धर्मवरूपविरोधेन निराकरणद्वारमात्रं दर्शितम्" - Pav | "एभिर्धर्मस्वरूपनिराकरणद्वारमानं दर्शितम्”-Psvl | "इदं धर्मस्वरूपनिराकरणेन दिङ्मात्रमुक्तम्” इति पाठोऽपि Vr. अनुसारेण भवेदिति भाति । “[ऽदि नि' शेस् प ल सोगस्प स्ते । VT = ] इदमित्यादि। अत्र धर्मधर्मिसमुदाय एव साध्यः। ततः सर्वथा समुदायनिराकरणादेव [जे बर् ऽगोग्' चिङ्' VT = ] उपरोधः । स क्वचिद् धर्मद्वारेण धर्मिद्वारेण तदुभयद्वारेण तद्विशेषद्वारेण वा क्रियते इति तेन व्यपदिश्यते । इदमुदाहरणचतुष्टयं धर्मस्वरूपनिराकरणेन धर्मस्वरूपनिराकरणमुखेन एकस्य प्रकारस्य दर्शनाद् दिमात्रम | बशदूप. VT = ] उक्तम । अनया दिशा धर्मधर्मिविशेषाणाम [जे. स्कब्स् सुबब् पsि V=D] उपस्थितसाध्याविनाभाविनां धर्मिस्वरूपस्य च निराकरणद्वारेण प्रकारान्तराणि वेदितव्यानि ।"-विशाला० पृ० १४४ A । “ननु 'अश्रावणः शब्दः, नित्यो घटः, नानुमानं प्रमाणम् , अचन्द्रः शशी' इत्युदाहरणैरेभिर्धर्मस्वरूपनिराकरणेन बाधा दर्शिता यथाप्रतिज्ञातधर्ममात्रस्य विपरीतधर्मोपस्थापनेन निराकरणात् । धर्मिविशेषस्य धर्मविशेषस्य धमिस्वरूपस्य च बाधनेन पक्षबाधास्ति सा कथमवगन्तव्येत्याह -'धमिधर्मविशेषाणां स्वरूपस्य च धर्मिणः । बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता' [प्र० वा० ४।१५१], धर्मिधर्मयोर्विशेषाणां, व्यक्तिभेदापेक्षया बहुवचनम् , धर्मिणः स्वरूपस्य च, सर्वेषामेषां साध्यं प्रति अङ्गभूतानां बाधा अनेनैव धर्मस्वरूपनिराकरणपरेणोदाहरणेन साध्यतोपलक्षणत्वाद् बाधा उपदर्शिता । 'तत्रोदाहृतिदिङ्मात्रमुच्यतेऽर्थस्य दृष्टये' [प्र० वा० ४।१५२], तत्र 'अश्रावणः शब्दः' इत्यादिषु उदाहरणदिङ्मात्रमुच्यते 'साध्याङ्गभूतस्य सर्वस्यैव बाधा भवति' इत्यर्थस्य दृष्टये दर्शनार्थम् ।"-प्र०वा०म० ४।१५१-२, पृ. ४६४-५ । तुलना - "कथं तर्हि धर्मधर्मितत्समुदायविशेषनिराकरणमेदः ? तबारेण निराकरणात् । यद्दारेण हि समुदायो निराक्रियते तेन व्यपदिश्यते । परमार्थतः समुदायनिराकरणमेव ।”-प्र० वार्तिकालं० ४।४०, पृ० ५०१। ३“करणं वेदितव्यम्।" - Psv' । “रणमपि लक्षितं वेदितव्यम्"- Psvi | ४"यथा"-Psv| ५ "अवयवी अवयवेभ्योऽन्यः' इति प्रतिज्ञायां कृतायां नान्योऽवयवी अवयवेभ्यः तुलाततिविशेषाग्रहणादिति । इदं । सुन्' ऽब्यिन्' पो VT=] प्रतिवचनम् । अनेन च अन्यविशेषो निराक्रियते नान्यत्वमात्रम् । तथाहि ... [पृ० १४४ A ]...."नान्येऽवयवा अवयविन इति धर्मविशेषनिराकरणम् । अवयवा अवय. विनोऽन्ये इति प्रतिज्ञा। अत्र अवयवा धर्मिणः, तेषामन्यत्वं धर्मः साध्यः । तेषां च केषाञ्चित् प्रत्यक्षत्वं विशेषः परेणाभिमतः ततोऽन्यत्वे ततो भेदेन अभासनादनुपपन्नः ।। पृ० १४५ BT......'नास्ति द्रव्यमित्यादि ।..... 'द्रव्यमस्तीति प्रतिज्ञा । द्रव्यं पृथिव्यादि, तदस्ति सदित्यर्थः । सत्तायोगात् काणभुजस्य द्रव्यादि त्रयं सदित्यभिमतम् । ततो गुणानामपि द्रव्यतापत्तिः, द्रव्य स्थितात्मसत्तासम्बन्धात् । [पृ० १४६ A]........ यत् सत्तावद् न तद्रव्यम् , गुणवत् । द्रव्याभिमतं च वस्तु सत्तावदिति विरुद्धव्याप्तेन धर्मिस्वरूपनिराकरणात् प्रतिज्ञादोषः ।"-विशाला० । तुलना-प्र० वा०म० टि० पृ० ४६८-४६९ । “पर• स्यावयवेभ्योऽवयविनो गुरुत्वादिगुणयोगिनोऽन्यत्वेऽभिमते यदोच्यते-"नान्योऽवयवी अवयवेभ्यः तुलानतिविशेषाः ग्रहणादिति, एतद् धर्मविशेषनिराकरणेनोदाहरणं बोद्धव्यम् । तथाहि नात्रान्यत्वमानं निषेद्भुमिष्टम् , तथात्वे धर्मस्वरूपनिराकरणोदाहरणमेतत् स्यात् । तस्मादन्यत्वस्य साध्यधर्मस्य नान्तरीयका गौरवादयो विशेषा निराकर्तुमिष्टाः । तथा च धर्मविशेषोदाहरणमेव तत् । [४।१५२, पृ० ४६५] तत्र परेणावयविनः सकाशादवयवानामन्यत्वे प्रतिज्ञाते यदुच्यते नान्येऽवयवा अवयविनः, अप्रत्यक्षत्वप्रसङ्गादिति तद् धर्मिविशेषनिराकरणोदाहरणम् । तथाहि-अवयवानां भेदमिच्छन् प्रत्यक्षतामपीच्छति । अन्यत्वे च निराकृते प्रत्यक्षतायाश्च निरासादवयवानां धर्मिविशेषनिराकरणोदाहरणत्वं व्यक्तम् । अभ्युपगम एव चात्र बाधकः, अवयवादर्शने द्रव्यादर्शनस्वीकारात् । गुणव्यतिरिक्तं द्रव्यमस्तीति परेणोक्ते यदोच्यते नास्ति द्रव्यं गुणद्रव्याणां द्रव्याद्रव्यत्वप्रसङ्गात् तद् धर्मिस्वरूपनिराकरणोदाहरणम् । तथाहि-धर्मिण एव द्रव्यस्य स्वरूपमात्र(पमत्र ?) निराक्रियते। गुणद्रव्याणामन्योन्यं भेदः । गुणोऽपि द्रव्यं स्याद् द्रव्यं च गुणः भेदाविशेषादित्यभ्युपायस्य बाधकत्वम् [पृ० ४६८-४६९]"प्र०वा०म०।"नान्योऽवयवी अवयवेभ्यस्तुलानतिविशेषाग्रहणात्। नान्येऽवयवा अवयविनोवा, अप्रत्यक्ष स्वप्रसङ्गात् । नास्ति द्रव्यं गुणद्रव्याणां द्रव्याद्रव्यत्वप्रसङ्गात् [पृ० ५५३]...."नान्येऽवयवा अवयविन:, तस्य अप्रत्यक्षत्वप्रसङ्गात्।अन्यत्वे हि तेषामप्रत्यक्षतायामवयविमोऽप्यप्रत्यक्षताप्रसङ्गात्।............."नास्ति द्रध्यमिति गुणव्यतिरिक्त मिति सम्बन्धः । गुणद्रव्याणां द्रव्याद्रव्यत्वप्रसङ्गादिति गुणस्य वा द्रव्यत्वं द्रव्यस्य वा गुणत्वमित्यर्थः । तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org