________________
परार्थानुमानपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः ।
१३१ नान्येऽवयवा अवयविनः, अप्रत्यक्षत्वप्रसङ्गात् । नास्ति द्रव्यम् , गुणद्रव्याणां द्रव्याद्रव्यत्वप्रसङ्गात् । *उभयस्वरूपविशेष [निराकरण] यथा* सर्व वाक्यमनृतार्थभिति । यदेतद् वाक्यं 'वाक्यमस्ति वाक्यात्मना अनृतार्थत्वेन च' इति, अस्य अनृतत्वे व्यतिरेके सति परस्परव्यावृत्तत्वाद्रूपं सत्तयाधिष्ठितं द्रव्यस्य ग्राह्यं गुणानामपि तथैवेति न्यायः । ततो द्वयोः परस्परपरिहारेण स्थितयोरेको गुणोऽन्यद् द्रव्यमिति कुतो विवेकः ? अपरस्परपरिहारेऽपि कुतो विवेकः? [पृ०५५४ ]"-प्र० वार्तिकालं। विस्तरार्थिभिः सव्याख्याः प्रमाणवार्तिककारिका [४।१५२-१६३ ] अत्र विलोकनीयाः । नयचक्रवृत्ति. पृ० १७२ पं० १६-१९
१* * PSv* मध्ये एतत्स्थाने 'एवम्' इति पाठः। * * एतचिह्नान्तर्गतपाठात् परतस्तु Psv° अनुसारेण सर्वः संस्कृतानुवादः, PSY' मध्ये तु तत्र विशृङ्खलोऽनुवादः । VT. अनुसारेण तु यादृशः पाठः संभवति स विशालामलवत्यन्तगतप्रतीकत उन्नयः । “उभयस्वरूपनिराकरणमुखेनोदाहरणं तद्यथा सर्व वाक्यमनृतार्थमिति । 'अनृतार्थ वचः सर्वमिति वाक्यानृतत्वयोः। तत्स्वरूपविशेषस्य क्षेपे दोषो विवक्षिते ॥ २७५ ॥' वाक्यत्वमनृतत्वं च सामान्येन यदा निराकर्तुमभिप्रेतं तदोभयस्वरूपनिराकरणम्, यदा तु वाक्यस्य धर्मिणो धर्मोऽनित्यत्व[मनृतत्वञ्चानताभिधेयत्वं तदोभयविशेषनिराकरणम् , सर्वस्य वाक्यविशेषस्यानृताभिधेयत्वस्य च निराकरणात् । प्रामाण्यं हि वचनसामर्थ्यात् , अतस्तेन वाक्यत्वानृताभिधेयत्वाभाव(त्वोभय ?)निराकरणं धर्मि विशेषश्चात्र कश्चिदनित्यत्वादिको द्रष्टव्यः। यदि ह्यनित्यत्वं न साध्यते व्यर्थकमेव वक्तृप्रामाण्याङ्गीकरणम् । यदि नित्यता स्यान्न वक्त्रा किञ्चित् क्रियेतेति व्यर्थ एव वक्ता स्यादतः स्ववचनविरुद्धमेतत् । 'यदि नित्यं भवेद्वाक्यं वक्तुर्व्यर्थत्वमापतेत् । अवाक्यरूपोपकृतौ सिद्धोपस्थायितापतेत् ॥ २७६ ॥' वक्तुर्हि वाक्यस्वरूपमनुपकुर्वाणस्य न वाक्योपकारिता । अतत्कृतोपकारे न तस्य किञ्चिदित्यनुपकारी न वाक्येन वक्तापेक्ष्येत । अपेक्ष्यते च । तस्मादनित्यता तस्य साधनीया। ततस्तद्विशेष निराकरणमुखेनायं पक्षाभास इति कथितम् ।"-प्र० वार्तिकालं० पृ. ५५४-५। २ "सर्व: वाक्यमनतार्थमिति प्रतिज्ञा। अनेन च 'स्वस्मादन्यत् सर्वं वाक्यमनृतार्थमिति प्रतिज्ञायते। परप्रतिपादनाय वचनमुच्चारयतैव वादिना खवचनं प्रमाणमभ्युपगतम् । तस्मात् तदत्राविवक्षितम् । तस्मात् 'सर्व'शब्दोऽत्र वाक्यैकदेशे परस्यैव [वाक्ये] वर्तते। यच्च ‘वाक्यम्' इत्यनूद्यते तद् वाक्यं कीदृशमित्याह-वाक्यमस्ति चाक्यात्मना अनृतार्थत्वेन च इति । वाक्यात्मनेति वाक्यस्वरूपेण , अनेन धर्मिस्वरूपमनूद्यते । अनृतार्थत्वेन चेति अयथार्थत्वेन, अनेन च धर्मस्वरूपम् । इत्थम्भूतलक्षणे इयं तृतीया। चशब्दो धर्मिधर्मविशेषानुवादवाक्यसंग्रहार्थः । तत् पुनः कीदृशमिति चेत् , 'वाक्यस्य विशेषो ऽनित्यत्वादिरस्ति, अनृतार्थत्वस्य च अनृतपदाभिधेयत्वादिरस्ति' एवंविधम् । अस्येति अनुवादवाक्यस्य । अस्यापि प्रतिज्ञावाक्येन भारतादिवाक्यवदनृतार्थत्वं प्रतिज्ञायते। तस्य चानृतार्थत्वे भारतादिवाक्यस्वरूपमवाचकमपि सत्यार्थ सम्भवति यच्चासत्यार्थत्वं तद्विशेषः सोऽपि हीयते । तस्मात् प्रतिज्ञा स्ववाच्ये निराकृता भवति तत्स्वरूपद्वारेण [पृ० १४६ B] विशेषद्वारेण वा । तत्र यदि वाक्यासत्यत्वयोः सर्वथा निराकरणमिति अनेन धर्मधर्मिस्वरूपनिराकरणद्वारेण प्रतिज्ञार्थनिराकरणं दर्श्यते । कथं कृत्वेति चेत्, वाक्यासत्यत्वयोरिति निमित्तार्था सप्तमी । तेनायमर्थो भवति-यदि वाक्येन धर्मिणा असत्यार्थेन साध्यधर्मेण च निमित्तेन सर्वथा निराकरणं पक्षीभूतम् । इदमुक्तं भवति-यदि धर्मिरूपे धर्मरूपे वा बाध्यमाने तद्वारेण साध्ये समुदाये बाधा भवति तथा सति उभयस्वरूपनिराकरणमिति । 'सर्वथा' इत्यनेन सर्वप्रकारेण समस्तं साध्यं यदि उपरुध्यते तर्हि प्रतिज्ञादोषः न तु यथा केचिदाहुः धर्मिमात्रबाधयेति दर्शयति।......एवं तावत् [स्त्र' जिल्त शिन्' पडि ङग् गि VT.=] यथाशब्दं वाक्यस्यानृतार्थत्वे उभयस्वरूपद्वारेण निराकरणम् । [द' नि' स्पस्' शिन्' प VT. = ] इदानीं शब्दितस्य अयथार्थत्वे विशेषद्वारेण प्रतिज्ञार्थनिराकरणप्रतिपादनायाह-अथेत्यादि । वाक्यात्मन इति ।..........अयमपि क इति चेत्, धर्मिवाक्यविशेषः। कुतोऽयमिति चेत्, यतः स वाक्यात्मभूतः । अपि च धर्मिधर्मविशेषनिराकरणप्रतिपादनं प्रकृतम्, यतस्तदनन्तरमेवोक्तम्-तथासति उभयविशेषनिराकरणमिति । तस्मादयं सामान्यशब्दोऽपि प्रकरणात् सामर्थ्याच वाक्य
1“र' जिदू' लस्'-VT. I तुलना-“सर्व मिथ्या ब्रवीमीति नैतद् वाक्यं विवक्ष्यते । तस्य मिथ्याभिधाने हि प्रक्रान्तोऽर्थो न गम्यते ॥३३॥२३॥ न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता । प्रतिपाद्यं न तत् तत्र ॥३।३।२४॥ असाधिका प्रतिज्ञेति नेयमेवाभिधीयते । यथा तथास्य धर्मोऽपि नैव कश्चित् प्रतीयते ॥३३३२२५॥"वाक्यपदीय. । प्र० वा० ४।९४,१०३। न्यायबिन्दुटीका ३।५४ । 2 'ङग्' फ्योग्स् चिग्' फ रोल् बोऽि खो' न ल' ऽजुग्' गो ॥"-VT.I 3 'ग्' गि' ब्दग्' जिद् क्यिस्-VT. = वाक्यात्मत्वेन ?। 4 'क्य-VT. = अपि?। 5 'ब्र्जुन' छिग्' गि' बौद् पर्' व्य' ब चन्' जिद् ल सोगस् प'-VT. । (अनृताभिधेयत्वादिः ?)। 6 “अदिति शेस प”Vr | 7 'ङग् दङ् ब्देन् मिन्' जिद्द गल' VT. I (वाक्यानृतत्वयोः ?)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org