Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 623
________________ १३० न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप्पणेषु [तृतीयः शाब्दप्रसिद्धन विरुद्धेन अर्थेन अपोद्यते यथा अचन्द्रः शशी सत्त्वादिति । इदं धर्मस्वरूपनिराकरणद्वारमानं दर्शितम् । भनया दिशा धर्मधर्मिविशेषस्वरूपनिराकरणमपि वेदितव्यम् । तद्यथा - नान्योऽवयवी अवयवेभ्यः, तुलानतिविशेषाग्रहणात् । १“अर्थेन" - Psv' अनुसारेण नास्ति। २"इदं च धर्मवरूपविरोधेन निराकरणद्वारमात्रं दर्शितम्" - Pav | "एभिर्धर्मस्वरूपनिराकरणद्वारमानं दर्शितम्”-Psvl | "इदं धर्मस्वरूपनिराकरणेन दिङ्मात्रमुक्तम्” इति पाठोऽपि Vr. अनुसारेण भवेदिति भाति । “[ऽदि नि' शेस् प ल सोगस्प स्ते । VT = ] इदमित्यादि। अत्र धर्मधर्मिसमुदाय एव साध्यः। ततः सर्वथा समुदायनिराकरणादेव [जे बर् ऽगोग्' चिङ्' VT = ] उपरोधः । स क्वचिद् धर्मद्वारेण धर्मिद्वारेण तदुभयद्वारेण तद्विशेषद्वारेण वा क्रियते इति तेन व्यपदिश्यते । इदमुदाहरणचतुष्टयं धर्मस्वरूपनिराकरणेन धर्मस्वरूपनिराकरणमुखेन एकस्य प्रकारस्य दर्शनाद् दिमात्रम | बशदूप. VT = ] उक्तम । अनया दिशा धर्मधर्मिविशेषाणाम [जे. स्कब्स् सुबब् पsि V=D] उपस्थितसाध्याविनाभाविनां धर्मिस्वरूपस्य च निराकरणद्वारेण प्रकारान्तराणि वेदितव्यानि ।"-विशाला० पृ० १४४ A । “ननु 'अश्रावणः शब्दः, नित्यो घटः, नानुमानं प्रमाणम् , अचन्द्रः शशी' इत्युदाहरणैरेभिर्धर्मस्वरूपनिराकरणेन बाधा दर्शिता यथाप्रतिज्ञातधर्ममात्रस्य विपरीतधर्मोपस्थापनेन निराकरणात् । धर्मिविशेषस्य धर्मविशेषस्य धमिस्वरूपस्य च बाधनेन पक्षबाधास्ति सा कथमवगन्तव्येत्याह -'धमिधर्मविशेषाणां स्वरूपस्य च धर्मिणः । बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता' [प्र० वा० ४।१५१], धर्मिधर्मयोर्विशेषाणां, व्यक्तिभेदापेक्षया बहुवचनम् , धर्मिणः स्वरूपस्य च, सर्वेषामेषां साध्यं प्रति अङ्गभूतानां बाधा अनेनैव धर्मस्वरूपनिराकरणपरेणोदाहरणेन साध्यतोपलक्षणत्वाद् बाधा उपदर्शिता । 'तत्रोदाहृतिदिङ्मात्रमुच्यतेऽर्थस्य दृष्टये' [प्र० वा० ४।१५२], तत्र 'अश्रावणः शब्दः' इत्यादिषु उदाहरणदिङ्मात्रमुच्यते 'साध्याङ्गभूतस्य सर्वस्यैव बाधा भवति' इत्यर्थस्य दृष्टये दर्शनार्थम् ।"-प्र०वा०म० ४।१५१-२, पृ. ४६४-५ । तुलना - "कथं तर्हि धर्मधर्मितत्समुदायविशेषनिराकरणमेदः ? तबारेण निराकरणात् । यद्दारेण हि समुदायो निराक्रियते तेन व्यपदिश्यते । परमार्थतः समुदायनिराकरणमेव ।”-प्र० वार्तिकालं० ४।४०, पृ० ५०१। ३“करणं वेदितव्यम्।" - Psv' । “रणमपि लक्षितं वेदितव्यम्"- Psvi | ४"यथा"-Psv| ५ "अवयवी अवयवेभ्योऽन्यः' इति प्रतिज्ञायां कृतायां नान्योऽवयवी अवयवेभ्यः तुलाततिविशेषाग्रहणादिति । इदं । सुन्' ऽब्यिन्' पो VT=] प्रतिवचनम् । अनेन च अन्यविशेषो निराक्रियते नान्यत्वमात्रम् । तथाहि ... [पृ० १४४ A ]...."नान्येऽवयवा अवयविन इति धर्मविशेषनिराकरणम् । अवयवा अवय. विनोऽन्ये इति प्रतिज्ञा। अत्र अवयवा धर्मिणः, तेषामन्यत्वं धर्मः साध्यः । तेषां च केषाञ्चित् प्रत्यक्षत्वं विशेषः परेणाभिमतः ततोऽन्यत्वे ततो भेदेन अभासनादनुपपन्नः ।। पृ० १४५ BT......'नास्ति द्रव्यमित्यादि ।..... 'द्रव्यमस्तीति प्रतिज्ञा । द्रव्यं पृथिव्यादि, तदस्ति सदित्यर्थः । सत्तायोगात् काणभुजस्य द्रव्यादि त्रयं सदित्यभिमतम् । ततो गुणानामपि द्रव्यतापत्तिः, द्रव्य स्थितात्मसत्तासम्बन्धात् । [पृ० १४६ A]........ यत् सत्तावद् न तद्रव्यम् , गुणवत् । द्रव्याभिमतं च वस्तु सत्तावदिति विरुद्धव्याप्तेन धर्मिस्वरूपनिराकरणात् प्रतिज्ञादोषः ।"-विशाला० । तुलना-प्र० वा०म० टि० पृ० ४६८-४६९ । “पर• स्यावयवेभ्योऽवयविनो गुरुत्वादिगुणयोगिनोऽन्यत्वेऽभिमते यदोच्यते-"नान्योऽवयवी अवयवेभ्यः तुलानतिविशेषाः ग्रहणादिति, एतद् धर्मविशेषनिराकरणेनोदाहरणं बोद्धव्यम् । तथाहि नात्रान्यत्वमानं निषेद्भुमिष्टम् , तथात्वे धर्मस्वरूपनिराकरणोदाहरणमेतत् स्यात् । तस्मादन्यत्वस्य साध्यधर्मस्य नान्तरीयका गौरवादयो विशेषा निराकर्तुमिष्टाः । तथा च धर्मविशेषोदाहरणमेव तत् । [४।१५२, पृ० ४६५] तत्र परेणावयविनः सकाशादवयवानामन्यत्वे प्रतिज्ञाते यदुच्यते नान्येऽवयवा अवयविनः, अप्रत्यक्षत्वप्रसङ्गादिति तद् धर्मिविशेषनिराकरणोदाहरणम् । तथाहि-अवयवानां भेदमिच्छन् प्रत्यक्षतामपीच्छति । अन्यत्वे च निराकृते प्रत्यक्षतायाश्च निरासादवयवानां धर्मिविशेषनिराकरणोदाहरणत्वं व्यक्तम् । अभ्युपगम एव चात्र बाधकः, अवयवादर्शने द्रव्यादर्शनस्वीकारात् । गुणव्यतिरिक्तं द्रव्यमस्तीति परेणोक्ते यदोच्यते नास्ति द्रव्यं गुणद्रव्याणां द्रव्याद्रव्यत्वप्रसङ्गात् तद् धर्मिस्वरूपनिराकरणोदाहरणम् । तथाहि-धर्मिण एव द्रव्यस्य स्वरूपमात्र(पमत्र ?) निराक्रियते। गुणद्रव्याणामन्योन्यं भेदः । गुणोऽपि द्रव्यं स्याद् द्रव्यं च गुणः भेदाविशेषादित्यभ्युपायस्य बाधकत्वम् [पृ० ४६८-४६९]"प्र०वा०म०।"नान्योऽवयवी अवयवेभ्यस्तुलानतिविशेषाग्रहणात्। नान्येऽवयवा अवयविनोवा, अप्रत्यक्ष स्वप्रसङ्गात् । नास्ति द्रव्यं गुणद्रव्याणां द्रव्याद्रव्यत्वप्रसङ्गात् [पृ० ५५३]...."नान्येऽवयवा अवयविन:, तस्य अप्रत्यक्षत्वप्रसङ्गात्।अन्यत्वे हि तेषामप्रत्यक्षतायामवयविमोऽप्यप्रत्यक्षताप्रसङ्गात्।............."नास्ति द्रध्यमिति गुणव्यतिरिक्त मिति सम्बन्धः । गुणद्रव्याणां द्रव्याद्रव्यत्वप्रसङ्गादिति गुणस्य वा द्रव्यत्वं द्रव्यस्य वा गुणत्वमित्यर्थः । तथाहि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662