________________
प्रत्यक्षपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः।
१०९ तु बाह्य एवार्थः प्रमेयः तदा विषयाभासतैवास्य प्रमाणम् । तदा हि ज्ञानस्वसंवेद्यमपि स्वैरूपमनपेक्ष्य अर्थाः भासतैवास्य प्रमाणम् । यस्मात् सोऽर्थस्तेन मीयते । यथा यथा हि अर्थस्याकारः शुभ्राशुभ्रादित्वेन ज्ञाने निविशते तत्तद्रूपः स विषयः प्रमीयते । तथा ज्ञानस्य संवित्तिं नानाकारामुपादाय तथा तथा प्रमाणप्रमेयत्वमुपचर्यते । निर्व्यापाराः [हि ? ] सर्वधर्मा इति । भाह च
१ दृश्यतां टिपृ० १०८ टि० ६ । “बाह्ये प्रमेये स्वसंवित्तिफलस्थितावपि विषयाभासतैव ज्ञानस्य प्रमाणमिष्यते, न तु विज्ञप्तिमात्रतावद् ग्राहकाकारः ।....."तदा हि ज्ञानवसंवेद्यमपीत्यादि । ज्ञानस्य स्वसंवेद्यमिति विग्रहः । यस्मादित्यादिना.....'कारणमाह मीयते इति निश्चीयते । यथा यथेत्यादि ज्ञानस्य ज्ञेयाकारवशेन बाह्योऽर्थो निश्चीयते इत्यर्थः । ..... यद्यपि 'सोऽर्थस्तेन मीयते' इत्यभिहितं तथापि 'तत्साधनया खसंवित्त्या' इति अवगन्तव्यम् । तथा हि-यथा यथा अर्थाकारः शुभाशुभादिरूपेण ज्ञाने निविशते तथा तथा खसंवित्तिःप्रथते । यथा यथा स दृश्यते तथा तथा शुभाशुभा दिः रूपादिरों विनिश्चीयते [पृ० ३३ B] | "तद्वशाद् विषयनिश्चयो भवति, नान्यथा, तस्माद् विषयाभासता प्रमाणम् [“पृ० ३४ A] ।” - विशाला। तुलना-“तस्मात् प्रमेये बाह्येऽपि युक्तं खानुभवः फलम् । यतः खभावोऽस्य यथा तथैवार्थविनिश्चयः ॥ तदर्थाभासतैवास्य प्रमाणं, न तु सन्नपि । ग्राहकात्माऽपरार्थत्वाद् बाह्येष्वर्थेष्वपेक्ष्यते ॥ यस्माद् यथा निविष्टोऽसावर्थात्मा प्रत्यये तथा । निश्चीयते निविष्टोऽसावेवमित्यात्मसंविदः ॥ इत्यर्थसंवित् सैवेष्टा यतोऽर्थात्मा न दृश्यते । तस्माद् बुद्धिनिवेश्यार्थः साधनं तस्य सा क्रिया ॥ यथा निविशते योऽर्थः यतः सा प्रथते तथा । अर्थस्थितेस्तदात्मत्वात् खविदप्यर्थविद् मता ॥”-प्र० वा० २।३४६-३५०। . २"रङ् ङो बोल' मि' बल्तोस्' पडि" - Pav | ३ “यद्याकारमनादृत्य प्रामाण्यं च प्रकल्प्यते । अर्थक्रियाऽविसंवादात तद्रूपो ह्यर्थनिश्चयः ॥ १३२८ ॥ इत्यादि गदितं सर्व कथं न व्याहतं भवेत् । वासनापाकहेतूत्थस्तस्मात् संवादसम्भवः ॥ १३२९ ॥ नैव ह्यर्थक्रियाऽविसंवादित्वमात्रेणाकारमनपेक्ष्य प्रामाण्यं कल्पनीयम् , विषयाकारस्याप्रामाण्यप्रसङ्गात् । तद्रूप इति ज्ञानस्थाभासरूपः । 'आदि'शब्देन यथा यथा ह्यर्थस्याकारः शुभ्रादित्वेन सन्निविशते तद्रूपः स विषयः प्रमीयते इत्यादिकमाचार्यायं वचनं विरुध्यत इति दर्शयति । अर्थक्रियासंवादस्तु पूर्वार्थानुभववासनापरिपाकादेव प्रमाणान्तराद् भवतीत्यवसेयम् ।"-तत्त्वसं० पं० पृ० ३९५। ४ "शुभ्राशुभ्रादित्वेन" - Psvi-"शुभ्रादित्वेन"-तत्त्वसं० पं० पृ० ३९५ । “शुभादित्वेन"-प्र०वार्तिकालं० पृ. ३९३ । [स्दुग्' प. मि स्दुग्' प' ल' सोगस प VT=] शुभाशुभादि° - विशाला० पृ० ३३ ।। ५ “तत्तद्रूपः" - PSY'-. । “तद्रूपः" - तत्त्वसं० पं० पृ. ३९५, प्र० वार्तिकालं० पृ. ३९३ । ६"अभिन्नात्मकस्य ज्ञानस्य ग्राहकाकारादिविभागः कथमिति चेत् ,.. आह-[दे ल्तर शेस' प' ल' सोगस्' प' स्ते VT.=1 तथेत्यादि । अयमस्य संक्षिप्तोऽर्थः-तत्त्वतस्तद्विभागोऽसन्नेव ।..'यथादर्शनं प्रमाणप्रमेयव्यवस्थेयं क्रियते, न तु यथावत् तत्त्वतः । [पृ० ३४ A] ... । तथेति यथोक्तोभयाभासस्य ज्ञानस्येति । ज्ञानस्य संवित्तिमिति कर्मभूतस्य ज्ञानस्य संवित्तिं दर्शयति । किम्भूताम् ? नानाकाराम् । नाना आकारो यस्याः सा तथोक्ता।""उपादायेति तां प्रमाणभूतां गृहीत्वा तथा तथा इत्यादौ अविकल्पके तावद् ग्राहकाकारः कल्पनापोढः प्रत्यक्षप्रमाणम् , स्पष्टावभासि ग्राह्याकारस्खलक्षणं प्रमेयम् । लिङ्गजेऽपि ग्राहकाकारोऽनुमानप्रमाणम् । ...अस्पष्टाभं ग्राह्याकारसामान्यलक्षणं प्रमेयमिति । उपचर्यते इति व्यपदिश्यते [पृ० ३४B] ।"-विशाला०। ७“अत एवोक्तम्-निर्व्यापाराः सर्वधर्मा इति ।"-प्र०वार्तिकालं० पृ. ३६६ । “
निर्व्यापाराः [हि?] सर्वधर्मा इति, अनेन तस्या ज्ञानसंवित्तः भ्रान्तत्वं ग्रकाश्यते।"-विशाला० पृ० ३४ B | "न, व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः। निराकारे तु विज्ञाने सा संस्था न हि युज्यते [ तत्त्वसं० ॥ १३४६ ॥ 1. नेत्यादिना उत्तरमाह । नीलस्येदं संवेदनं न पीतस्यति विषयाधिगतिव्यवस्थाया अर्थसारूप्यमेव निबन्धनम् , नान्यत्, इति व्यवस्थाप्यव्यवस्थापकभावेन साध्यसाधनव्यवस्था नोत्पाद्योत्पादकभावेन । यस्मान्न पारमार्थिकः कर्तृकरणादिभावोऽस्ति क्षणिकत्वेन निर्व्यापारत्वात् सर्वधर्माणाम् । ज्ञानं हि विषयाकारमुत्पद्यमानं विषयं परिच्छिन्ददिव सव्यापारमिवाभाति ।......तस्मात् साकारमेव ज्ञानं प्रमाणं न निराकारम् ।"-तत्त्वसं० पं० पृ० ३९९ । ८"[स्म्रस्' प' य... VT.D] आह चेत्यादिना प्रमेयादिव्यवस्थां तां दर्शयति । य आभासोऽस्येति विग्रहः । खांशप्रमाणत्वसाधनात् अत्र विषयाभासो ग्राह्यः । प्रमेयं तदिति स विषयाभासः प्रमेयः । प्रमाणफलते पुनः ग्राहकाकारसंवित्ती [पृ० ३५ A] इति । ग्राहकाकारः प्रमाणता, संवित्तिः फलता । "त्रयं नातः पृथक्कृतमिति [पृ० ३५ B]"विशाला० । दृश्यतां टिपृ० १०३ टि० ९ । 'तदेव (एतदेव Psvi) कथयति'-PSV I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org