________________
१०८
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप्पणेषु [प्रथमः प्रतीततामुपादाय *प्रमाणत्वमुपचर्यते, ने व्यापाराभावेऽपि* । यथा फलं "हेत्वनुरूपमुत्पद्यमानं हेतुरूपं गृह्णाति इत्युच्यते, न व्यापाराभावेऽपि, एवमत्रापि।
वसंवित्तिः फलं वात्र तद्रूपो ह्यर्थ निश्चयः ।
'विषयाभासतैवास्य प्रमाणं तेन मीयते ॥९॥ 5 स्वसंवित्तिः फलं वात्र । द्वयाभासं हि ज्ञानमुत्पद्यते-स्वाभासं विषयाभासं च । तस्योभयाभासस्य यत् स्वसंवेदन तत् फलम् । कस्मात् ? तद्रूपोह्यर्थनिश्चयः। यदा हि सविषयं ज्ञानमर्थः तदा स्वसंवित्त्यनुरूप इष्टोऽनिष्टोवार्थः प्रतीयते। यदा
१ * * अयं पाठः Ps13. Psv3. मध्ये "छद्' म' जिद्' दुऽदोगस्प' स्ते ॥ ब्य' ब मेद्प ऽङ् म यिन्' नो॥" इत्येवं श्लोकाधरूपेण अनूदितोऽस्ति तथापि अनुवादकैः वृत्त्यंश एव भ्रान्त्या श्लोकार्धरूपेण अनूदित इति प्रतिभाति । दृश्यतां टिपृ० १०७ टि०६। २ तुलना - "सव्यापारमिवाभाति व्यापारेण स्वकर्मणि । तद्वशात् तद्वयवस्थानादकारकमपि स्वयम् ॥ २॥३०८ ॥ यथा फलस्य हेतूनां सदृशात्मतयोद्भवात् । हेतुरूपग्रहो लोकेऽक्रियावत्त्वेऽपि दृश्यते ॥ २।३०९ ॥” इति प्रमाणवार्तिके । ३“यथार्थव्यापाराभावेऽपि कथं तद्वत्त्वाभासो भवतीति चेत्, आह-यथेत्यादि ।” -विशाला० पृ. ३१B। ४ तुलना - "कार्य ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत् । तत् तेनार्पिततद्रूपं गृहीतमिति चोच्यते ॥”-प्र० वा० २।२४८ । ५ * * “यङ् न रङ् रिग्' ऽब्रस्बु यिन् ........." - P3-2 Psv | टिपृ० १०७ टि० ६ । प्र० वा०म०टि. पृ. २१५,२२१ । प्र० वार्तिकालं० पृ. ३४९ । न्या०र० पृ० १५८ । मी० श्लो० वा० काशिका. पृ. २३७ । संस्कृतग्रन्थेषु सर्वत्र 'तद्रूपोह्यर्थनिश्चयः' इति पाठः । यद्यपि Ps.2. Psv. VT. अनुसारेण शाक्यमतिविरचितायाः प्रमाणवार्तिकटीकाया “दोन्' डेस्' प नि दे ङोस् यिन्” [पृ. २६७B] इति भोटभाषानुवादानुसारेण चात्र 'तद्रूपेणार्थनिश्चयः' इति पाठः प्रतिभाति तथापि तद्पो ह्यर्थनिश्चयः इति पाठ एव भोटभाषायां शैल्यन्तरेण तथानूदित इति ध्येयम् । ६ प्र० वा० म० टि० पृ० २२१ । “विषयाकारतैवास्य......” -प्र० वार्तिकालं० पृ. ३९३ । "विषयाकार एवास्य.." -मी० श्लो० वा० काशिका. पृ. २३७, न्या०र० पृ० १५८ । ७ अत्र PSv'
अनुसारेण 'खसंवित्तिः फलं चात्र' इति पाठः । केषुचिच्च संस्कृतग्रन्थेष्वपि 'चात्र' इति पाठ उपलभ्यते इति ध्येयम् । - "स्वसंवित्तिः फलं वात्रेति । पूर्व विषयसंवित्तिः फलमुक्तम् । तस्माद् 'वा'शब्दो विकल्पार्थः । अत्रेति पूर्वोक्तप्रत्यक्षे। स्वाभासं विषयाभासं चेति ....। तस्येत्यादि [पृ० ३२ A ] । उभयाभासं विज्ञानमनुभूयते । तस्य यत् स्वसंवेदनं खानुभवः तत फलं भवति । कस्मादिति, कया युक्त्या ?.."स्वसंवित्तेः फलत्वमनुपपन्न मित्याशयेन पृच्छति [पृ. ३२ B]"-विशाला० ८ * * तत्त्वार्थरा० पृ० ५६ पं० १०-११ । तुलना-प्र० वा०म० पृ० २२८ । प्र० वा० २।३३७ । प्र० वार्तिकालं० पृ. ३४९। ९"संवेदनं” - तत्त्वार्थरा० पृ. ५६ । प्र० वा० २।३३७ । “स्वसंवेदन"-प्र. वा० म० पृ० २२८ । प्र० वार्तिकालं० पृ० ३४९ । १० टिपृ० १०८ टि० ५। “तद्रूपो ह्यर्थनिश्चय इति हेतुः । “यदा हीत्यादि अस्यैव विवरणम् । हिशब्दो यस्मादर्थे । यस्माद् यदा सविषयं ज्ञानमर्थः तदा स्वसंवित्त्यनुरूपोऽर्थ इष्टोऽनिष्टो वा प्रतिपत्त्त्रा प्रतीयते तस्मात् खसंवित्तिः फलं युज्यते । सविषयमिति विषयेण सहितं सविषयम् [ पृ० ३२ B] | 'स्वसंवित्त्यनुरूप इष्टोऽनिष्टो वार्थः प्रतीयते' इत्येतावन्मात्राभिधाने स्वसंवेदनप्रत्यक्षमेवाधिकृत्येयं फलव्यवस्थेति कस्यचिदाशङ्का स्यात् । इदं तु सर्वस्य प्रमाणस्य फलमिति । तस्मात् आशङ्कानिवृत्त्यर्थ 'यदा हि सविषयं ज्ञानमर्थः' इत्युक्तम् । अयं च 'अर्थ'शब्दः प्रमेयवाची [ पृ०३३ A]" -विशाला०। ११ तुलना - “यदा सविषयं ज्ञानं ज्ञानांशेऽर्थव्यवस्थितेः । तदा य आत्मानुभवः स एवार्थविनिश्चयः ॥ यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते इष्टोऽनिष्टोऽपि वा तेन भवत्यर्थः प्रवेदितः ॥"-प्र० वा०
२॥३३९-३४० । १२ एतदस्माभिः VT. अनुसारेणोपन्यस्तम् , दृश्यतां टिपृ० १०८ टि. १० । शाक्यमतिना विरचितायां - प्रमाणवार्तिकटीकायामपि सङ्ग्रहीतमिदं दिङ्गागस्य वचनम् । तस्य च “देडिछे रङ रिग्' प' दङ् जैसू. सु. मथुन्' प" इति भोटभाषानुवाद उपलभ्यते । तदनुसारेणापि तदा खसंवित्त्यनुरूपः' इति पाठ एव समीचीनः। १३ “यदा तु बाह्य एवार्थः प्रमेयः"-प्र०वा०म०टि० पृ. २२४,२३६ । “अत्रापि फले विषयाकारतैव प्रमाणम् । यदाह आचायः'यदा तु बाह्य एवार्थः प्रमेयः तदा विषयाकारतैवास्य प्रमाणम्, तथा(दा) हि ज्ञान(न)स्वसंवेद्यमपि स्वरूपमपेक्ष्य अर्थाभासतैवास्य प्रमाणम् । यस्मात् सोऽर्थस्तेन मीयते। यथा ह्यर्थस्याकारः शुभादित्वेन प्रतिभाति निविशते तद्रूपः स विषयः प्रतीयते यावदाकारभेदेन प्रमाणप्रमेयत्वमुपचर्यते ।” -प्र० वार्तिकालं० पृ. ३९३ । “यदा त्वित्यादि” - विशाला० पृ० ३३ B । तुलना-प्र० वा० २।३४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org