________________
प्रत्यक्षपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुश्चयः।
१०७ गङ् छे नम्' प. [ स्नङ' बPSv." ] दे॰ ग्शल ब्य ॥ छद्' म दङ् देऽि ऽब्रस्' बु नि ॥ ऽजिन्' नेम्' रिग्' पडि दे यि' फ्यिर् ॥ दे गसुन् थ दद् दु" म ब्यस् ॥ १० ॥
**भ्रान्तिसंवृतिसज्ज्ञानमनुमानानुमानिकम् ॥७॥
स्मार्ताभिलाषिकं चेति प्रत्यक्षाभं समिरम् ॥ तंत्र भ्रान्तिज्ञानं मृगतृष्णिकादिषु तोयादिकल्पनाप्रवृत्तत्वात् प्रत्यक्षाभासम् । संवृतिसत्सु अर्थान्तराध्यारोपात् तद्रूप-5 कल्पनाप्रवृत्तत्वात् । अनुमानतत्फलादिज्ञानं पूर्वानुभूतकल्पनयेति न प्रत्यक्षम् । अत्र च
* संव्यापारप्रतीतत्वात् प्रमाणं फलमेव सत् * ॥ ८॥ अत्र बाह्यानामिव प्रमाणात् फलमर्थान्तरभूतं नास्ति । तस्यैव फलभूतस्य ज्ञानस्य विषयाकारतयोत्पत्त्या संव्यापार
१ * * प्र०वार्तिकालं० पृ० ३३२ । दृश्यतां टिपृ. ४० पं० १७-३२ । तुलना-प्र० वा० २।२८८-३०० । २°लापिकं-प्र० वा० म० पृ. २०५, प्र० वा० म० टि० पृ० २०५, “बोद्'प' लस्' ब्युङ् [=आभिलापिकं ]" -प्र० वा० देवेन्द्रबुद्धिवृत्ति.भोट. पृ० २४७ A । ३ “तदाभासं” - नयचक्रवृत्ति. पृ० ६४ पं० १० । ४ "भ्रान्तिज्ञानं तावत् मृगतृष्णिकादिषु तोयादिकल्पनया प्रवृत्तत्वात् प्रत्यक्षाभासम् । संवृतिसत्सु अर्थान्तराध्यारोपात् तद्रूपकल्पनया प्रवृत्तत्वात् प्रत्यक्षाभासम् । अनुमानतत्फलादिज्ञानं पूर्वानुभूतकल्पनया न प्रत्यक्षम् ।" - Psv-2 “अनेन चतुर्विधः प्रत्यक्षाभास उक्तः । तत्र भ्रान्तिज्ञानमित्यनेन अर्थान्तरकल्पनाज्ञानं तावदुक्तम् ।....."संवृतिसत्सु इत्यनेन संकेताश्रयकल्पनाप्रवृत्तं द्वितीयम्। संवृतिसत्स्वपि यज्ज्ञानं तत् प्रत्यक्षाभासमित्यस्य किं कारणमित्याह -अर्थान्तराध्यारोपादिति ।......सोऽपि कथं ज्ञायत इत्याह -तद्रूपकल्पनाप्रवृत्तत्वादिति । [पृ. २७ B]......"अनुमानतत्फलादिज्ञानमिति । अनुमीयतेऽनेनेति अनुमानं लिङ्गम् । तत्र ‘स 'एवायं धूमः' इति सबन्धकालानुभूतार्थकल्पनाप्रवृत्तं ज्ञानम् । तत्फले लिङ्गिज्ञानेऽपि पूर्वानुभूतकल्पना अस्ति, ‘स एवात्राग्निः' इत्यनुमानात् । स्मरणेऽपि पूर्वानुभूताकारकल्पना [पृ. २८ A] ‘एवं मया [म्योङ् डो VT. = ] अनुभूतः' इति । आभिलाषिकमपि पूर्वानुभूतकल्पनानतिक्रान्तम् , तदभावेऽभिलाषाभावात् । आदिशब्देन संशयज्ञानग्रहणम् । तत्रापि 'किं स एव आहोखिदन्यः' इत्येतादृशाकारा पूर्वानुभूतकल्पना जायते इति इदं पूर्वानुभूतार्थ कल्पनाज्ञानं तृतीयम् । सतै मिरमित्यनेन इन्द्रियोपघातजं तैमिरादिज्ञानं प्रत्यक्षाभासं चतुर्थमुक्तमिति [पृ० २८ B] |"-विशाला। ५"अत्र चेति अस्मन्मते । सव्यापारप्रतीतत्वादिति व्यापारेण सह प्रतीतत्वादित्यर्थः । इदं प्रमाणत्वोपचारस्य कारणम् । प्रमाणं फलमेव सदिति । प्रमाणस्य फलम् अधिगतिः, तच्च स्वयमेव तदात्मकमिति । तस्मादभेदः ।”-विशाला पृ० ३०। ६ * * प्र० वार्तिकालं० पृ० ३४९। सन्मतिवृत्ति. पृ० ५२५। न्यायमञ्जरी. पृ० ६६। “सव्यापारप्रतीतत्वात् प्रमाणं फलमेव सत् । स्वसंवित्तिः फलं वात्र तद्रूपो ह्यथेनिश्चयः । विषयाभासतवास्य प्रमाणं तेन मीयते ॥ यदाभासं प्रमेयं तत् प्रमाणफलते पुनः । ग्राह्यग्राहक(ग्राहकाकार ? )संवित्ती त्रयं नातः पृथकृतम्।”-प्र० वा० म०टि० पृ० २२१। तुलना-प्र० वा० २१३०१-३१९ । तत्त्वसं० ॥१३४४॥ न्यायबिन्दु. १।१८,१९। सांख्यकारिकायुक्तिदीपिकावृत्ति पृ० ४०। “उभयत्र तदेव ज्ञानं फलम् , अधिगमरूपत्वात् । सव्यापारवत्ख्यातेः प्रमाणत्वम् ।”-न्यायप्रवेशक. पृ. ७ । ७“अत्र बाह्यानामिव प्रमाणात् फलमर्थान्तरं नास्तीति । अत्रापि तादृश एव दोषो न भवति । तस्यैवेत्यादिना अयमर्थः प्रकाश्यते [पृ. ३०B] ....... ज्ञानस्याधिगतिरूपत्वात् साध्यत्वप्रतीतिरिति फलत्वमुपचर्यते । तस्यैव च विषयाकारपरिग्रहणकर्मणा व्यापारेण च सह प्रतीतिरिति प्रमाणत्वमपचर्यते व्यपदिश्यते इत्यर्थः [ ३१ A ]" -विशाला०। ८ इदं दिङ्गागवचनं देवेन्द्रबद्धिना प्रमाणवार्तिकवृत्तौ उद्धृतम् । तस्य च “ऽब्रस्' बुर्' ग्युर् पडि शेस्' पदे जिद्' क्यि' युल' ग्यि' नम्' पर. स्क्येस् पडि स्गो नस्. [ ब्य' ब ? ] तॊग्' प दङ् ब्चस्' पल' ब्र्तेन्' नस् छद्म जिद् दु' से बर बतग्स' प' यिन्' नो" इत्येवं भोटभाषानुवाद उपलभ्यते । तदनुसारेणेत्थमस्माभिः संस्कृतेऽनूदितम् । PSva. अनुसारेण 'व्यापारेण च सह प्रतीतिः तामुपादाय प्रमाणत्वमुपचर्यते' इति 'व्यापारेण च सह प्रतीततामुपादाय' इति वा संस्कृतं भवेदिति ध्येयम् । तुलना-"तस्मिन्नधिगमरूपे फले सव्यापारप्रतीततामुपादाय प्रमाणोपचारः।" - तत्त्वार्थरा०पृ० ५६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org