Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 608
________________ प्रत्यक्षपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः। ११५ ततोऽर्थादिति सर्वश्चेद् येन तत् तत एव न । यदि 'ततः' इत्यनेन सर्वः प्रत्यय उच्यते, यद् ज्ञानं यस्माद् विषयाद् भवति तस्य व्यपदिश्यते, तत एव तु न भवति, आलम्बनप्रत्ययादेव ज्ञानं न भवति 'चतुर्भिश्चित्तचैत्ताः' [अभिधर्मकोशे २।६४ ] इति सिद्धान्तात् । ___आलम्बनं चेत् स्मृत्यादिज्ञानं नान्यदपेक्षते ॥ १४॥ दिभ्य एव तथा समुदितेभ्यस्तदुत्पद्यते । अनुमानज्ञानमप्येतेनैवापक्षिप्तम् , धूमज्ञानसम्बन्धस्मरणाभ्यामपि तदुत्पद्यते, न वढेरेवेति । तत उत्पन्नमेव, न अनुत्पन्नम् , इत्ययमप्यर्थोऽत्र अभिमतः।" -विशाला० पृ. ३९B-४०A | "अपरे पुनर्वर्णयन्ति - विज्ञानं प्रत्यक्षमिति । तत्र 'ततोऽर्थात्' इति यस्यार्थस्य यद् विज्ञानमपदिश्यते यदि तत एव तद् भवति नार्थान्तराद् भवति तत् प्रत्यक्षम् । एतेनानुमानादिज्ञानमपक्षिप्तं भवति, न हि तत एव तद् भवति, किं तर्हि ? ततश्च अन्यतश्च तद् भवति।"-न्यायवार्तिक. १।१।४। “तदेवं प्रत्यक्षलक्षणं समर्थ्य वासुबान्धवं तावत् प्रत्यक्षलक्षणं दूषयितुमुपन्यस्थति -अपरे पुनरिति । लक्षणं व्याचष्टे-ततोऽर्थादिति । यत्तदोर्नित्याभिसम्बन्धाद् यस्यार्थस्य यद् विज्ञानं व्यपदिश्यते यदि तत एव तद् भवति नार्थान्तराद् व्यपदेशासम्बन्धिनः तत् प्रत्यक्षम् । अत एव व्यपदेशासम्बन्धिनोऽर्थान्तरात् शुक्तिरूपाजायमानं रजतेन व्यपदिश्यमानं शुक्तिज्ञानं न प्रत्यक्षम् , व्यपदेशकादनुत्पत्तेः, व्यपदेशकस्य रजतस्य तत्राभावात् ।"-न्यायवार्तिकतात्पर्यटीका १।१।४। १“तदेवं व्यवस्थिते इदं परीक्ष्यते- किमयं प्रत्ययापेक्षो नियम आहोखिदालम्बनापेक्ष इति । ततः किम् ? उभयथापि दोषः । पूर्वनियममधिकृत्य तावदाह-ततोऽर्थादिति सर्वश्चेदिति । यदि तत इत्यादि अस्यैव विवरणम् । अत्र सर्वधर्मात्मकत्वादालम्बनप्रत्यय एव 'सर्व'शब्देनोच्यते । कथं पुनः तस्य सर्वधर्मात्मकत्वमिति चेत् , 'आलम्बनं सर्वधर्माः' [अभिधर्मकोशे २१६२] इति लक्षणात् । ततश्चायमर्थो भवति - यदि सर्वधर्मस्वरूपः प्रत्यय उच्यते, यदि आलम्बनप्रत्यय उच्यते इति यावत् ।'"येन आलम्बनप्रत्ययसम्बन्धित्वेन ज्ञानं व्यपदिश्यते तत् तत एव न भवति, किं तर्हि ? प्रत्ययान्तरादपि । 'चतुर्भिश्चितचैत्ताः' [अभि.को. २१६४] इति वचनात् । एवं प्रत्ययनियमपक्षे सिद्धान्तविरोधः प्रकाश्यते।"-विशाला० पृ. ४०० - ४०B1 २ दृश्यतां टिपृ. ३८ टि. १।३“आलम्बननियममधिकृत्याह -आलम्बनं चेदित्यादि । अत्र लक्षणस्यातिव्याप्तिरुक्ता । 'विषयमात्रम्' इत्यत्र यत् तदा सन्निहितं रूपादि व्यक्तं तद् विज्ञानालम्बनत्वेन 'विषय'शब्देनोच्यते । 'मात्र'शब्द आलम्बनान्तरव्यवच्छेदकः । स्मृत्यादिज्ञानमपि रूपादिभिव्यपदिश्यते 'रूपस्मृतिः, आम्लाभिलाषः, अन्यनुमानम्' इति, आलम्बनान्तरानपेक्षं च । तस्मात् तदपि प्रत्यक्षं स्यात् । स्यादेतत् -अनुमेयविषयं ज्ञानमग्निमात्रान जायते, अपि तु पक्षधर्मत्व-सम्बन्धज्ञानाभ्यामपि । ततः कुतोऽयं प्रसङ्ग इत्याह-अग्न्यादिज्ञानमित्यादि । यद्यपि तदर्थान्तरादपि जायते तथापि तदर्थान्तरं तेन नालम्ब्यते, ततश्च आलम्बनान्तरानपेक्षजन्मत्वात् [शेस्' (शेस् ?) दे VT.D] तद् ज्ञानं प्रत्यक्षं स्यात् । ननु यदि 'येन विषयेण यद् ज्ञानं व्यपदिश्यते तद् यदि ततो भवति, न न भवति' इत्ययमपि नियमोऽत्र अभीष्टः, स्मरणादीनां येनालम्बनेन व्यपदेशः तत उत्पत्तिरपि नास्ति तदभावादिति चेत्, असदेतत्, परम्परयापि तत उत्पत्तेरभीष्टत्वात् । अन्यथा कथमिदं युज्यते यद् वादविधावुक्तम् - 'अनुमानज्ञानमप्यत एव निराकृतम् , धूमज्ञानसम्बन्धस्मरणाभ्यामपि तद् भवति न तु अग्नेरेव' इति । अनेन 'धूमज्ञानसम्बन्धस्मरणाभ्याम् 'अपि'शब्दादग्नेरपि तदुत्पद्यते' इत्युक्तं भवति । तदिदं कथं युज्यते यदि व्यपदेशहेतोः परम्परयाप्यत्र जनकत्वं [न] इष्यते? अन्यथा यदि स्मरणादीनां व्यपदेशहेतोर्विषयस्य तदानीमभावादजनकत्वं तदिदमजनकत्वमनुमानेऽपि समानमिति वाक्यमिदमप्रयोक्तव्यं स्यात् । अथ स्मरणादीनां विषयः कल्पितं सामान्य व्यपदेशहेतुः, तस्य च संवृतिसत्त्वादजनकत्वमेव, तस्मात्तेषामप्रत्यक्षत्वमितीष्यते, अत्रापि इदमेवोत्तरम् । तथाहि-अनुमानमपि संवृतिसदेव आलम्बते, ततश्च 'धूमज्ञानसम्बन्धस्मरणाभ्यामपि तद् भवति, न तु अमेरेव' इति यदुक्तं तन्न युक्तं स्यात् । तस्मादतिव्याप्तिदोषः स्थित एव।"-विशाला० पृ० ४०B---४१. । बाह्यार्थवादिनां परमार्थत एव बाह्यं प्रमेयं तद्विषयं च प्रमाणमपीष्टम् । तच्च यथा न युज्यते तथा साधनाय तदालम्बनमधिकृत्य विचारणामात्रमाह-रूपादिष्वालम्बनार्थो वक्तव्य इति । बाह्यार्थवादिषु स्वयूथ्या बलवन्तः, तेषां निराकरणे इतरे. निराकृता एव भवन्ति इति तैरेव सह विचारयति । आलम्बनार्थ इति 'आलम्बन'शब्दार्थः । किं यदाभासमित्यनेन रूपादिपरमाणूनां प्रत्येक स्वरूपेणाभासाभावात् समुदायाकारेण] च तेषु विज्ञानप्रतिभासादाभासार्थ आलम्बनार्थो दर्शितः। अथ यथेयादिना हेत्वर्थः । यथा विद्यमाना इति नीलादिस्खलक्षणत्वेन । अन्याभासस्यापीति समुदायाभासस्यापि । 'यद्यपि स्वाभासं विज्ञानं न जनयति तथापि' इति अपिशब्दार्थः ।" -विशाला० पृ० ४१B । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662