________________
प्रत्यक्षपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः।
११५ ततोऽर्थादिति सर्वश्चेद् येन तत् तत एव न । यदि 'ततः' इत्यनेन सर्वः प्रत्यय उच्यते, यद् ज्ञानं यस्माद् विषयाद् भवति तस्य व्यपदिश्यते, तत एव तु न भवति, आलम्बनप्रत्ययादेव ज्ञानं न भवति 'चतुर्भिश्चित्तचैत्ताः' [अभिधर्मकोशे २।६४ ] इति सिद्धान्तात् ।
___आलम्बनं चेत् स्मृत्यादिज्ञानं नान्यदपेक्षते ॥ १४॥ दिभ्य एव तथा समुदितेभ्यस्तदुत्पद्यते । अनुमानज्ञानमप्येतेनैवापक्षिप्तम् , धूमज्ञानसम्बन्धस्मरणाभ्यामपि तदुत्पद्यते, न वढेरेवेति । तत उत्पन्नमेव, न अनुत्पन्नम् , इत्ययमप्यर्थोऽत्र अभिमतः।" -विशाला० पृ. ३९B-४०A | "अपरे पुनर्वर्णयन्ति -
विज्ञानं प्रत्यक्षमिति । तत्र 'ततोऽर्थात्' इति यस्यार्थस्य यद् विज्ञानमपदिश्यते यदि तत एव तद् भवति नार्थान्तराद् भवति तत् प्रत्यक्षम् । एतेनानुमानादिज्ञानमपक्षिप्तं भवति, न हि तत एव तद् भवति, किं तर्हि ? ततश्च अन्यतश्च तद् भवति।"-न्यायवार्तिक. १।१।४। “तदेवं प्रत्यक्षलक्षणं समर्थ्य वासुबान्धवं तावत् प्रत्यक्षलक्षणं दूषयितुमुपन्यस्थति -अपरे पुनरिति । लक्षणं व्याचष्टे-ततोऽर्थादिति । यत्तदोर्नित्याभिसम्बन्धाद् यस्यार्थस्य यद् विज्ञानं व्यपदिश्यते यदि तत एव तद् भवति नार्थान्तराद् व्यपदेशासम्बन्धिनः तत् प्रत्यक्षम् । अत एव व्यपदेशासम्बन्धिनोऽर्थान्तरात् शुक्तिरूपाजायमानं रजतेन व्यपदिश्यमानं शुक्तिज्ञानं न प्रत्यक्षम् , व्यपदेशकादनुत्पत्तेः, व्यपदेशकस्य रजतस्य तत्राभावात् ।"-न्यायवार्तिकतात्पर्यटीका १।१।४।
१“तदेवं व्यवस्थिते इदं परीक्ष्यते- किमयं प्रत्ययापेक्षो नियम आहोखिदालम्बनापेक्ष इति । ततः किम् ? उभयथापि दोषः । पूर्वनियममधिकृत्य तावदाह-ततोऽर्थादिति सर्वश्चेदिति । यदि तत इत्यादि अस्यैव विवरणम् । अत्र सर्वधर्मात्मकत्वादालम्बनप्रत्यय एव 'सर्व'शब्देनोच्यते । कथं पुनः तस्य सर्वधर्मात्मकत्वमिति चेत् , 'आलम्बनं सर्वधर्माः' [अभिधर्मकोशे २१६२] इति लक्षणात् । ततश्चायमर्थो भवति - यदि सर्वधर्मस्वरूपः प्रत्यय उच्यते, यदि आलम्बनप्रत्यय उच्यते इति यावत् ।'"येन आलम्बनप्रत्ययसम्बन्धित्वेन ज्ञानं व्यपदिश्यते तत् तत एव न भवति, किं तर्हि ? प्रत्ययान्तरादपि । 'चतुर्भिश्चितचैत्ताः' [अभि.को. २१६४] इति वचनात् । एवं प्रत्ययनियमपक्षे सिद्धान्तविरोधः प्रकाश्यते।"-विशाला० पृ. ४०० - ४०B1 २ दृश्यतां टिपृ. ३८ टि. १।३“आलम्बननियममधिकृत्याह -आलम्बनं चेदित्यादि । अत्र लक्षणस्यातिव्याप्तिरुक्ता । 'विषयमात्रम्' इत्यत्र यत् तदा सन्निहितं रूपादि व्यक्तं तद् विज्ञानालम्बनत्वेन 'विषय'शब्देनोच्यते । 'मात्र'शब्द आलम्बनान्तरव्यवच्छेदकः । स्मृत्यादिज्ञानमपि रूपादिभिव्यपदिश्यते 'रूपस्मृतिः, आम्लाभिलाषः, अन्यनुमानम्' इति, आलम्बनान्तरानपेक्षं च । तस्मात् तदपि प्रत्यक्षं स्यात् । स्यादेतत् -अनुमेयविषयं ज्ञानमग्निमात्रान जायते, अपि तु पक्षधर्मत्व-सम्बन्धज्ञानाभ्यामपि । ततः कुतोऽयं प्रसङ्ग इत्याह-अग्न्यादिज्ञानमित्यादि । यद्यपि तदर्थान्तरादपि जायते तथापि तदर्थान्तरं तेन नालम्ब्यते, ततश्च आलम्बनान्तरानपेक्षजन्मत्वात् [शेस्' (शेस् ?) दे VT.D] तद् ज्ञानं प्रत्यक्षं स्यात् । ननु यदि 'येन विषयेण यद् ज्ञानं व्यपदिश्यते तद् यदि ततो भवति, न न भवति' इत्ययमपि नियमोऽत्र अभीष्टः, स्मरणादीनां येनालम्बनेन व्यपदेशः तत उत्पत्तिरपि नास्ति तदभावादिति चेत्, असदेतत्, परम्परयापि तत उत्पत्तेरभीष्टत्वात् । अन्यथा कथमिदं युज्यते यद् वादविधावुक्तम् - 'अनुमानज्ञानमप्यत एव निराकृतम् , धूमज्ञानसम्बन्धस्मरणाभ्यामपि तद् भवति न तु अग्नेरेव' इति । अनेन 'धूमज्ञानसम्बन्धस्मरणाभ्याम् 'अपि'शब्दादग्नेरपि तदुत्पद्यते' इत्युक्तं भवति । तदिदं कथं युज्यते यदि व्यपदेशहेतोः परम्परयाप्यत्र जनकत्वं [न] इष्यते? अन्यथा यदि स्मरणादीनां व्यपदेशहेतोर्विषयस्य तदानीमभावादजनकत्वं तदिदमजनकत्वमनुमानेऽपि समानमिति वाक्यमिदमप्रयोक्तव्यं स्यात् । अथ स्मरणादीनां विषयः कल्पितं सामान्य व्यपदेशहेतुः, तस्य च संवृतिसत्त्वादजनकत्वमेव, तस्मात्तेषामप्रत्यक्षत्वमितीष्यते, अत्रापि इदमेवोत्तरम् । तथाहि-अनुमानमपि संवृतिसदेव आलम्बते, ततश्च 'धूमज्ञानसम्बन्धस्मरणाभ्यामपि तद् भवति, न तु अमेरेव' इति यदुक्तं तन्न युक्तं स्यात् । तस्मादतिव्याप्तिदोषः स्थित एव।"-विशाला० पृ० ४०B---४१. । बाह्यार्थवादिनां परमार्थत एव बाह्यं प्रमेयं तद्विषयं च प्रमाणमपीष्टम् । तच्च यथा न युज्यते तथा साधनाय तदालम्बनमधिकृत्य विचारणामात्रमाह-रूपादिष्वालम्बनार्थो वक्तव्य इति । बाह्यार्थवादिषु स्वयूथ्या बलवन्तः, तेषां निराकरणे इतरे. निराकृता एव भवन्ति इति तैरेव सह विचारयति । आलम्बनार्थ इति 'आलम्बन'शब्दार्थः । किं यदाभासमित्यनेन रूपादिपरमाणूनां प्रत्येक स्वरूपेणाभासाभावात् समुदायाकारेण] च तेषु विज्ञानप्रतिभासादाभासार्थ आलम्बनार्थो दर्शितः। अथ यथेयादिना हेत्वर्थः । यथा विद्यमाना इति नीलादिस्खलक्षणत्वेन । अन्याभासस्यापीति समुदायाभासस्यापि । 'यद्यपि स्वाभासं विज्ञानं न जनयति तथापि' इति अपिशब्दार्थः ।" -विशाला० पृ० ४१B ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org