________________
११६
न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य टिप्पणेषु [प्रथमः ___यदि 'ततोऽर्थात्' इत्यनेन विषयमात्रम् [उच्यते ] स्मृत्यनुमानाभिलाषाविज्ञानमपि आलम्बनान्तरं नापेक्षते । अग्न्यादिज्ञानं धूमावालम्ब्य न जायते । रूपादिषु लम्बनाओं वक्तव्यः । किं यैदाभासं तेषु ज्ञानमुत्पद्यते तथा ते आलम्बनम् , मैथ यथा विद्यमाना अन्याभासस्यापि विज्ञानस्य कारणं भवन्ति ? ततः किमिति चेत्, यदि यथाभासं तेषु ज्ञानमुत्पद्यते तथा संञ्चितालम्बनत्वात् पञ्चानां विज्ञानकायानां संवृतिसदेवालम्बनमिति इष्टं नीलाद्याभासज्ञानेषु 'ततोऽर्थाद् 5 विज्ञान'त्वात् प्रत्यक्षत्वं भवति, तथाहि - तेषु तत्समुदाये प्रज्ञप्तिसत्यपि द्रव्यसदाकारो लभ्यते । द्रव्यसंख्याद्याकारेष्वपि लभ्य(पस्य ?)ते । तँ एव हि द्रव्यादित्वेनाभासन्ते ।
अंथ यथा विद्यमाना अन्याभासस्यापि ज्ञानस्य कारणं भवन्ति तथा सति द्रव्यादिप्रसङ्गदोषो न भवति, तथा तेषामसत्त्वात् , तयपि 'येन तस्य व्यपदेशः' इत्येतन्न लभ्यते । न हि तेषु प्रत्येकं ज्ञानमस्ति । *प्रेत्येकं च ते समुदिताः कारणम् ,*
१“धूमाघ लम्बनम" - Fav | २नयचक्रवृत्ति. पृ० ९६ पं० । ३ नयचक्रवृत्ति पृ० ९६ पं० १. पृ. ९९ पं० २३ । ४ नयचक्रवृत्ति. पृ० ९९ पं० २९ । ५“सञ्चितालम्बनत्वादिति समुदायालम्बनत्वात्, सञ्चितः सञ्चय इति कृत्वा, सञ्चयश्च समुदायः । सञ्चितालम्बनत्वं तेषां [पृ. ४१ B] समुदायाभासत्वात् । अथवा सञ्चितत्वेन आलम्बनत्वादिति समुदायाभासत्वादित्यर्थः । आलम्ब्यतेऽनेनेति करणकारकं कृत्वा आभास 'आलम्बन'शब्देनोच्यते । संवृतिसदेवालम्बन मिति अप्रत्यक्षत्वम् इति शेषः । संवृतिसदालम्बनत्वं संघातस्याद्रव्यसत्त्वात् । अनेन 'यत् संवृतिसदालम्बनं तदप्रत्यक्षम् , स्मृत्यादिज्ञानवत् , इन्द्रियज्ञानमपि तथा' इति व्यापकविरोधप्रसङ्ग उक्तः । ननु स द्रव्यसतामेव परमाणनामाकारः, त एव हि परस्परोपकारकाः तथा प्रतिभासन्त इति नानाकारार्थवादे कदाचिदसिद्धत्वमुच्येत इत्याशङ्कायामाह-इष्टमित्यादि। इष्टमिति अभ्युपगमे । नीलाद्याभासविज्ञानेषु 'ततोऽर्थात्' इत्यस्मालक्षणाद् भवन्मतेन प्रत्यक्षत्वं भवति । कस्मादित्याह-तथाहीत्यादि । तेष्विति नीलाद्याभासज्ञानेषु [दे छोगस्' प' ल' बतगस्' पर योद् न यङ् शेस्' प' VT =] तत्समुदाये प्रज्ञप्तिसत्यपीति नीलादिपरमाणुसमुदाये । यद्यपि स प्रज्ञप्तिसन् तथापि नीलपीतादिज्ञानेषु द्रव्यसदाकारो लभ्यते भवदभिमतन्यायेन । अथवा तेषु इति नीलादिपरमाणुषु द्रव्यसदाकारो लभ्यते । द्रव्यसंख्याद्याकारेष्वपि लभ्य(प्स्य ते । यदि परमाण्वाकारत्वात् समुदायाकारस्य परमार्थसत्त्वं द्रव्यसंख्यादीनामपि परमाण्वाकारत्वात् परमार्थसत्त्वं स्यात् । ततश्च तदाकाराणि विज्ञानानि [पृ० ४२ A1 प्रत्यक्षाभासाभिमतान्यपि प्रत्यक्षाणि स्युः । तत्रापि अयं न्यायो वक्तुं शक्यते यः त एवेत्यादिरुक्तः [पृ० ४२ B]" -- विशाला०।६ तुलना-नयचक्रवृत्ति. पृ. ९८५०४,१९ । ३ तुलना-नयचक्र-वृत्ति. पृ० ९८ पं० २,६,१५,२३ । ७“अथ यथेत्यादि पक्षान्तरमुपन्यस्यति । [दे ल्तर ग्युर् न शेम' पल' सोग्स' प. नि. VT.%3D] तथा सति इत्यादि । द्रव्यादिषु यद् ज्ञानं तस्य प्रत्यक्षत्वप्रसङ्गो नास्तीत्यर्थः । कस्मादित्याह -[दे ल्तर दे नम्स्' शेस' पल सोगस्' प' स्ते VI= ] तथा ते इत्यादि । तथा इति घटादिरूपेण [दे' नेम्स्' शेस्' प' Vr.] ते इति द्रव्यादयः । ते नीलादिपरमाणुवत् तत्त्वतोऽसन्तः । 'घटज्ञानम् , द्वित्वज्ञानम्' इति तैरपि ज्ञानं व्यपदिश्यते, ततश्च न तदुत्पत्तिः, तेषां तत्त्वतोऽसत्त्वात् । तस्मान्न तज्ज्ञानस्य प्रत्यक्षत्वप्रसङ्गः । संवृतिसदालम्बनत्वमप्यसिद्धम् , यस्मात् स्वरूपेण परमाण्वालम्बनत्वे इन्द्रियज्ञानं संवृतिसदालम्बनं न भवति । तर्हि को दोष इत्याह - तर्हि इत्यादि । नेत्यादिना तत्रैवोपपत्तिमाह । यदि परमाणुषु प्रत्येकं ज्ञानं स्यात् तथा सति एकैकेन परमाणुना तद्व्यपदेशः स्यात् , ततश्च ते प्रत्येकं ज्ञानस्य कारणं तैश्च प्रत्येकं तस्यपदेशः स्यादिति तदालम्बनज्ञानस्य प्रत्यक्षत्वं लभ्येत । तथा च नास्ति । तस्माद् येन तस्य व्यपदेश इत्येतन लभ्यते । अथ संघाताभासत्वात् 'तस्य व्यपदेशः' इष्यते, परमाणवोऽपि संघातावस्था एव परस्परोपकारका ज्ञानस्य हेतवः, तस्माद् येन तव्यपदेशः तत एव जन्म इति नीलादिज्ञानानां प्रत्यक्षत्वं सिद्धमित्याह-प्रत्येकं चेत्यादि । संघातावस्थायामपि प्रत्येकमेव हेतुभावः, न समदायस्य [पृ०४२ B] इत्यर्थः । तेन 'येन तस्य व्यपदेश इत्येतन लभ्यते' इति स एव प्रसङ्गः । यदामासान सा तस्मादिति समुदायाभासा । कस्मान्न भवतीत्याह-चितालम्बं हि पञ्चकमिति, समुदायाभासमित्यर्थः । करणकारकं कृत्वा आभास आलम्बनशब्देन उच्यते । [ग' लस्' दे नि दोन्' दम्' पर VT.= ] यतः सा परमार्थेनेति परमाणुतः । [ दे ल' थ' स्त्रद्' दु' म' ब्यस् VT.3] तत्र(स्य?) न व्यपदिश्यते इति, अतदाभासत्वेन तदप्रतीतत्वात् ।" -विशाला पृ० ४३ । ८* * तुलना-नयचक्रवृत्ति पृ० ९९ पं० ६,२७, पृ.१०१ पं० ९.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org