Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 609
________________ ११६ न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य टिप्पणेषु [प्रथमः ___यदि 'ततोऽर्थात्' इत्यनेन विषयमात्रम् [उच्यते ] स्मृत्यनुमानाभिलाषाविज्ञानमपि आलम्बनान्तरं नापेक्षते । अग्न्यादिज्ञानं धूमावालम्ब्य न जायते । रूपादिषु लम्बनाओं वक्तव्यः । किं यैदाभासं तेषु ज्ञानमुत्पद्यते तथा ते आलम्बनम् , मैथ यथा विद्यमाना अन्याभासस्यापि विज्ञानस्य कारणं भवन्ति ? ततः किमिति चेत्, यदि यथाभासं तेषु ज्ञानमुत्पद्यते तथा संञ्चितालम्बनत्वात् पञ्चानां विज्ञानकायानां संवृतिसदेवालम्बनमिति इष्टं नीलाद्याभासज्ञानेषु 'ततोऽर्थाद् 5 विज्ञान'त्वात् प्रत्यक्षत्वं भवति, तथाहि - तेषु तत्समुदाये प्रज्ञप्तिसत्यपि द्रव्यसदाकारो लभ्यते । द्रव्यसंख्याद्याकारेष्वपि लभ्य(पस्य ?)ते । तँ एव हि द्रव्यादित्वेनाभासन्ते । अंथ यथा विद्यमाना अन्याभासस्यापि ज्ञानस्य कारणं भवन्ति तथा सति द्रव्यादिप्रसङ्गदोषो न भवति, तथा तेषामसत्त्वात् , तयपि 'येन तस्य व्यपदेशः' इत्येतन्न लभ्यते । न हि तेषु प्रत्येकं ज्ञानमस्ति । *प्रेत्येकं च ते समुदिताः कारणम् ,* १“धूमाघ लम्बनम" - Fav | २नयचक्रवृत्ति. पृ० ९६ पं० । ३ नयचक्रवृत्ति पृ० ९६ पं० १. पृ. ९९ पं० २३ । ४ नयचक्रवृत्ति. पृ० ९९ पं० २९ । ५“सञ्चितालम्बनत्वादिति समुदायालम्बनत्वात्, सञ्चितः सञ्चय इति कृत्वा, सञ्चयश्च समुदायः । सञ्चितालम्बनत्वं तेषां [पृ. ४१ B] समुदायाभासत्वात् । अथवा सञ्चितत्वेन आलम्बनत्वादिति समुदायाभासत्वादित्यर्थः । आलम्ब्यतेऽनेनेति करणकारकं कृत्वा आभास 'आलम्बन'शब्देनोच्यते । संवृतिसदेवालम्बन मिति अप्रत्यक्षत्वम् इति शेषः । संवृतिसदालम्बनत्वं संघातस्याद्रव्यसत्त्वात् । अनेन 'यत् संवृतिसदालम्बनं तदप्रत्यक्षम् , स्मृत्यादिज्ञानवत् , इन्द्रियज्ञानमपि तथा' इति व्यापकविरोधप्रसङ्ग उक्तः । ननु स द्रव्यसतामेव परमाणनामाकारः, त एव हि परस्परोपकारकाः तथा प्रतिभासन्त इति नानाकारार्थवादे कदाचिदसिद्धत्वमुच्येत इत्याशङ्कायामाह-इष्टमित्यादि। इष्टमिति अभ्युपगमे । नीलाद्याभासविज्ञानेषु 'ततोऽर्थात्' इत्यस्मालक्षणाद् भवन्मतेन प्रत्यक्षत्वं भवति । कस्मादित्याह-तथाहीत्यादि । तेष्विति नीलाद्याभासज्ञानेषु [दे छोगस्' प' ल' बतगस्' पर योद् न यङ् शेस्' प' VT =] तत्समुदाये प्रज्ञप्तिसत्यपीति नीलादिपरमाणुसमुदाये । यद्यपि स प्रज्ञप्तिसन् तथापि नीलपीतादिज्ञानेषु द्रव्यसदाकारो लभ्यते भवदभिमतन्यायेन । अथवा तेषु इति नीलादिपरमाणुषु द्रव्यसदाकारो लभ्यते । द्रव्यसंख्याद्याकारेष्वपि लभ्य(प्स्य ते । यदि परमाण्वाकारत्वात् समुदायाकारस्य परमार्थसत्त्वं द्रव्यसंख्यादीनामपि परमाण्वाकारत्वात् परमार्थसत्त्वं स्यात् । ततश्च तदाकाराणि विज्ञानानि [पृ० ४२ A1 प्रत्यक्षाभासाभिमतान्यपि प्रत्यक्षाणि स्युः । तत्रापि अयं न्यायो वक्तुं शक्यते यः त एवेत्यादिरुक्तः [पृ० ४२ B]" -- विशाला०।६ तुलना-नयचक्रवृत्ति. पृ. ९८५०४,१९ । ३ तुलना-नयचक्र-वृत्ति. पृ० ९८ पं० २,६,१५,२३ । ७“अथ यथेत्यादि पक्षान्तरमुपन्यस्यति । [दे ल्तर ग्युर् न शेम' पल' सोग्स' प. नि. VT.%3D] तथा सति इत्यादि । द्रव्यादिषु यद् ज्ञानं तस्य प्रत्यक्षत्वप्रसङ्गो नास्तीत्यर्थः । कस्मादित्याह -[दे ल्तर दे नम्स्' शेस' पल सोगस्' प' स्ते VI= ] तथा ते इत्यादि । तथा इति घटादिरूपेण [दे' नेम्स्' शेस्' प' Vr.] ते इति द्रव्यादयः । ते नीलादिपरमाणुवत् तत्त्वतोऽसन्तः । 'घटज्ञानम् , द्वित्वज्ञानम्' इति तैरपि ज्ञानं व्यपदिश्यते, ततश्च न तदुत्पत्तिः, तेषां तत्त्वतोऽसत्त्वात् । तस्मान्न तज्ज्ञानस्य प्रत्यक्षत्वप्रसङ्गः । संवृतिसदालम्बनत्वमप्यसिद्धम् , यस्मात् स्वरूपेण परमाण्वालम्बनत्वे इन्द्रियज्ञानं संवृतिसदालम्बनं न भवति । तर्हि को दोष इत्याह - तर्हि इत्यादि । नेत्यादिना तत्रैवोपपत्तिमाह । यदि परमाणुषु प्रत्येकं ज्ञानं स्यात् तथा सति एकैकेन परमाणुना तद्व्यपदेशः स्यात् , ततश्च ते प्रत्येकं ज्ञानस्य कारणं तैश्च प्रत्येकं तस्यपदेशः स्यादिति तदालम्बनज्ञानस्य प्रत्यक्षत्वं लभ्येत । तथा च नास्ति । तस्माद् येन तस्य व्यपदेश इत्येतन लभ्यते । अथ संघाताभासत्वात् 'तस्य व्यपदेशः' इष्यते, परमाणवोऽपि संघातावस्था एव परस्परोपकारका ज्ञानस्य हेतवः, तस्माद् येन तव्यपदेशः तत एव जन्म इति नीलादिज्ञानानां प्रत्यक्षत्वं सिद्धमित्याह-प्रत्येकं चेत्यादि । संघातावस्थायामपि प्रत्येकमेव हेतुभावः, न समदायस्य [पृ०४२ B] इत्यर्थः । तेन 'येन तस्य व्यपदेश इत्येतन लभ्यते' इति स एव प्रसङ्गः । यदामासान सा तस्मादिति समुदायाभासा । कस्मान्न भवतीत्याह-चितालम्बं हि पञ्चकमिति, समुदायाभासमित्यर्थः । करणकारकं कृत्वा आभास आलम्बनशब्देन उच्यते । [ग' लस्' दे नि दोन्' दम्' पर VT.= ] यतः सा परमार्थेनेति परमाणुतः । [ दे ल' थ' स्त्रद्' दु' म' ब्यस् VT.3] तत्र(स्य?) न व्यपदिश्यते इति, अतदाभासत्वेन तदप्रतीतत्वात् ।" -विशाला पृ० ४३ । ८* * तुलना-नयचक्रवृत्ति पृ० ९९ पं० ६,२७, पृ.१०१ पं० ९. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662