Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 619
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप्पणेषु यस्तर्कशास्त्रेष्वनुमेयनिर्देशस्य प्रतिज्ञायाः परार्थानुमाने प्रयोगः स कथम् ? त एव प्रष्टव्याः । अस्माकं तु— तत्रानुमेयनिर्देशो हेत्वर्थविषयो मतः ॥ १ ॥ अवयवेषु योऽनुमेय निर्देशः सोऽस्माकं न साधनत्वेन मेतः, तत एव संशयोत्पत्तेः अपि तु हेत्वर्थविषयत्वेन । स तेन प्रकाश्यते । 5 १२६ स्वरूपेणैव निर्देश्यः स्वयमिष्टोऽनिराकृतः । प्रत्यक्षार्थानुमानाप्तप्रसिद्धेन स्वधर्मिणि ॥ २ ॥ Jain Education International १ “ततः पक्षानुक्तावपि सिद्धेरप्रतिबन्धात् त्रिषु रूपेष्वन्यतमस्यैवानुक्तिर्न्यनतोका साधनदोषः, न तु पक्षानुक्तिः । ननु यदि पक्षवचनमसाधनं तदा साधनाङ्गावसरे भवतामपि अनुमेयलक्षणनिर्देशो न युक्त इत्यत आह - अस्माकं त्वित्यादि । निर्दिश्यतेऽनेन [ इति निर्देशः ] अनुमेयस्य निर्देशोऽनुमेयनिर्देशः, स चात्र लक्षणनिर्देशो वेयः, न प्रतिज्ञावचनम् । हेतुस्त्रिरूपं लिङ्गम्, तस्यार्थः हेत्वर्थः, स विषयो यस्य स हेत्वर्थविषयः । यस्मादनुमेयलक्षणनिर्देशेन हेत्वर्थोऽविपरीतः प्रकाश्यते तस्मात् तद्विषयत्वात् साधनप्रस्तावेऽपि तदुपन्यास इति वाक्यार्थः । अवयवेष्वित्यादि । अवयवेषु प्रस्तुतेषु योऽनुमेय निर्देशः सोऽस्माकं न साधनत्वेन, कस्मात् ? तत एव संशयोत्पत्तेः । तत इति आद्यादित्वात् सप्तम्यर्थे तसिः । तत्रैव अनुमेये संशयोत्पत्तेः [ पृ० १३५ B ] इत्यर्थः । अथवा हेतुपञ्चग्यन्तादेवायं तसिः, तत एव अनुमेयोपलब्धिहेतोः संशयोस्पत्तेरित्यर्थः । एतेन अनुमेयस्य सन्दिग्धत्वं दर्शयन्निममर्थं प्रकाशयति - सिद्धः साधनम्, नेतरः । अनुमेयं च सन्दिग्धम् ।...... अनुमेयस्य चासाधनत्वदर्शनेन तद्वाक्यस्यापि दर्शितं भवति । तथाहि - अर्थ एव साक्षाद् गमकः, न वचनम् । तत् शक्तार्थ सूचकत्वात् परम्परया साधनं भवति । यत्र अर्थे एव साध्यसाधनाशक्तिर्निश्चिता तत्र वचने सुतरामशक्तिरिति व्यक्तमेव प्रतीयते अपि त्वित्यादिना 'हेत्वर्थविषयो मतः' इत्यस्यार्थो व्याख्यायते । ननु हेत्वर्थ लक्षणनिर्देशः तर्कशास्त्रेऽन्यथा कृतः, स कस्मादत्रक्रियत इत्यत आह - स तेन प्रकाश्यते इति । यस्मादस्मदिष्टो [यो]ऽनुमेयः स एव तेन हेतुना साध्यते न परपरिकल्पितः तस्मात् तस्य लक्षणं निर्दिश्यते, 'एतादृश एवार्थो हेतुना साध्यः, न तद्विपरीतः' इति यथा ज्ञातं स्यादित्याशयः । तस्मादत्र संक्षेपेण निर्देशः । बहूनां साध्यविषया विप्रतिपत्तिर्दृश्यते, तस्मात् तन्निराकरणार्थं शास्त्रे पक्षलक्षणं दर्शितम् । न तु प्रयोगकाले स निर्देश्य उपयोगाभावात् [पृ० १३६ 4 ] ।" - विशाला० । “ननु च विषयोपदर्शनाय प्रतिज्ञावचनमसाधनाङ्गमप्युपादेयमेव । 1 - | वैयर्थ्यात् [ वादन्याय. पृ० ६५ ] । समुच्चयटीकाकारास्त्वाहुः - नन्वित्यादि । नेत्याद्युत्तरम् । अप्रदर्शिते तु सम्बन्धे संशयोत्पत्तिहेतुत्वादिदमुक्तम् - तत एव संशयोत्पत्तेरिति । ...... 'अस्माकं तु तत्रानुमेयनिर्देशो हेत्वर्थविषयो मतः' इत्यपि वचनं विरुध्यते यस्मात् 'तत्रेति तर्कशास्त्रस्य सम्बन्धोऽत्राभिधीयते । प्रयोगस्य तु सम्बन्धे बहु स्यादसमञ्जसम् ॥१॥" - - वादन्यायवृत्ति [ विपश्चितार्था ] पृ० ६५-६६ । " नन्वाचार्यस्य पक्षवचनमसाधनत्वेनेष्टमिति कथं ज्ञायत इत्याह - हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता । हेतोरर्थः साध्यः, स विषयोऽस्येति हेत्वर्थविषयः, तत्त्वेन साध्यार्थो - पदर्शकत्वेन तस्य पक्षवचनस्य साध्यसाधनं प्रति अशक्तस्योक्तिरीरिता निर्दिष्टा आचार्येण 'तत्रानुमेयनिर्देशो हेत्वर्थविषयो मतः’ इत्यनेन ग्रन्थेन । ततो ज्ञायते पक्षवचनमसाधनमिष्टमाचार्यस्येति ।" - प्र० वा० म० ४।१८ । " नन्वाचार्यस्य पक्षवचनमभिमतमेव, यदाह – स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया । पक्षधर्मत्व सम्बन्धसाध्योक्तेरन्यवर्जनम् ॥ [ प्रमाणसमुच्चय ४।६ ] । नैतदस्ति । यतः हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता ॥ [ प्र० वा० ४।१८ ], यदाह - 'तत्रानुमेयनिर्देशो हेत्वर्थविषयो मतः । अस्माकं तु योऽनुमेय निर्देशः स हेत्वर्थविषयत्वेन, न साधनत्वेन' ।.......... [ पृ० ४८८ ]... कथं तर्हि इदमुक्तम्- 'अस्माकं तु पक्षनिर्देशो यः स न साधनत्वेन अपि तु हेत्वर्थविषयत्वेन' इति [ १० ४९० ] ।” - प्र० वार्तिकालं० । २ 'मत: ' Psy'. VI. मध्ये नास्ति, प्र० वार्तिकालङ्कारेऽपि नास्ति । PSv मध्ये 'मतः' इत्यस्य स्थाने 'निर्देशः' इति दृश्यते । ३ दृश्यतां टिपू० १२४ पं० १० । प्र० वार्तिकालं० पृ० ४८९ । प्र० वा० ४।१६ । ४ " साध्यते” Psv'-' । 'उपदर्श्यते' इति 'ख्याप्यते' इति वा इत्यपि पाठोऽप्यत्र चिन्त्यः । " तस्मादनुमेयस्योपदर्शनार्थ सिद्धयर्थ पक्षवचनमुपादेयं नान्यदित्युपस्कारः ।" - वादन्यायवृत्ति. पृ० ६६ । ५ प्र० वार्तिकालं पृ० ५४५, ५४६, ५४९ । प्र० वा० म० पृ० ४२४,४४५, ४५८, ४५९ । तुलना - दिङ्गागप्रणीतन्यायमुखस्य चीनभाषानुवादमवलम्ब्य Prof. Giuseppe Tucci इत्येभिर्विहिते English भाषानुवादे पक्षस्वरूप मित्थमुपलभ्यते—→ [ तृतीयः For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662