________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप्पणेषु
यस्तर्कशास्त्रेष्वनुमेयनिर्देशस्य प्रतिज्ञायाः परार्थानुमाने प्रयोगः स कथम् ? त एव प्रष्टव्याः । अस्माकं तु—
तत्रानुमेयनिर्देशो हेत्वर्थविषयो मतः ॥ १ ॥
अवयवेषु योऽनुमेय निर्देशः सोऽस्माकं न साधनत्वेन मेतः, तत एव संशयोत्पत्तेः अपि तु हेत्वर्थविषयत्वेन । स तेन प्रकाश्यते ।
5
१२६
स्वरूपेणैव निर्देश्यः स्वयमिष्टोऽनिराकृतः । प्रत्यक्षार्थानुमानाप्तप्रसिद्धेन स्वधर्मिणि ॥ २ ॥
Jain Education International
१ “ततः पक्षानुक्तावपि सिद्धेरप्रतिबन्धात् त्रिषु रूपेष्वन्यतमस्यैवानुक्तिर्न्यनतोका साधनदोषः, न तु पक्षानुक्तिः । ननु यदि पक्षवचनमसाधनं तदा साधनाङ्गावसरे भवतामपि अनुमेयलक्षणनिर्देशो न युक्त इत्यत आह - अस्माकं त्वित्यादि । निर्दिश्यतेऽनेन [ इति निर्देशः ] अनुमेयस्य निर्देशोऽनुमेयनिर्देशः, स चात्र लक्षणनिर्देशो वेयः, न प्रतिज्ञावचनम् । हेतुस्त्रिरूपं लिङ्गम्, तस्यार्थः हेत्वर्थः, स विषयो यस्य स हेत्वर्थविषयः । यस्मादनुमेयलक्षणनिर्देशेन हेत्वर्थोऽविपरीतः प्रकाश्यते तस्मात् तद्विषयत्वात् साधनप्रस्तावेऽपि तदुपन्यास इति वाक्यार्थः । अवयवेष्वित्यादि । अवयवेषु प्रस्तुतेषु योऽनुमेय निर्देशः सोऽस्माकं न साधनत्वेन, कस्मात् ? तत एव संशयोत्पत्तेः । तत इति आद्यादित्वात् सप्तम्यर्थे तसिः । तत्रैव अनुमेये संशयोत्पत्तेः [ पृ० १३५ B ] इत्यर्थः । अथवा हेतुपञ्चग्यन्तादेवायं तसिः, तत एव अनुमेयोपलब्धिहेतोः संशयोस्पत्तेरित्यर्थः । एतेन अनुमेयस्य सन्दिग्धत्वं दर्शयन्निममर्थं प्रकाशयति - सिद्धः साधनम्, नेतरः । अनुमेयं च सन्दिग्धम् ।...... अनुमेयस्य चासाधनत्वदर्शनेन तद्वाक्यस्यापि दर्शितं भवति । तथाहि - अर्थ एव साक्षाद् गमकः, न वचनम् । तत् शक्तार्थ सूचकत्वात् परम्परया साधनं भवति । यत्र अर्थे एव साध्यसाधनाशक्तिर्निश्चिता तत्र वचने सुतरामशक्तिरिति व्यक्तमेव प्रतीयते अपि त्वित्यादिना 'हेत्वर्थविषयो मतः' इत्यस्यार्थो व्याख्यायते । ननु हेत्वर्थ लक्षणनिर्देशः तर्कशास्त्रेऽन्यथा कृतः, स कस्मादत्रक्रियत इत्यत आह - स तेन प्रकाश्यते इति । यस्मादस्मदिष्टो [यो]ऽनुमेयः स एव तेन हेतुना साध्यते न परपरिकल्पितः तस्मात् तस्य लक्षणं निर्दिश्यते, 'एतादृश एवार्थो हेतुना साध्यः, न तद्विपरीतः' इति यथा ज्ञातं स्यादित्याशयः । तस्मादत्र संक्षेपेण निर्देशः । बहूनां साध्यविषया विप्रतिपत्तिर्दृश्यते, तस्मात् तन्निराकरणार्थं शास्त्रे पक्षलक्षणं दर्शितम् । न तु प्रयोगकाले स निर्देश्य उपयोगाभावात् [पृ० १३६ 4 ] ।" - विशाला० । “ननु च विषयोपदर्शनाय प्रतिज्ञावचनमसाधनाङ्गमप्युपादेयमेव ।
1
-
| वैयर्थ्यात् [ वादन्याय. पृ० ६५ ] । समुच्चयटीकाकारास्त्वाहुः - नन्वित्यादि । नेत्याद्युत्तरम् । अप्रदर्शिते तु सम्बन्धे संशयोत्पत्तिहेतुत्वादिदमुक्तम् - तत एव संशयोत्पत्तेरिति । ...... 'अस्माकं तु तत्रानुमेयनिर्देशो हेत्वर्थविषयो मतः' इत्यपि वचनं विरुध्यते यस्मात् 'तत्रेति तर्कशास्त्रस्य सम्बन्धोऽत्राभिधीयते । प्रयोगस्य तु सम्बन्धे बहु स्यादसमञ्जसम् ॥१॥" - - वादन्यायवृत्ति [ विपश्चितार्था ] पृ० ६५-६६ । " नन्वाचार्यस्य पक्षवचनमसाधनत्वेनेष्टमिति कथं ज्ञायत इत्याह - हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता । हेतोरर्थः साध्यः, स विषयोऽस्येति हेत्वर्थविषयः, तत्त्वेन साध्यार्थो - पदर्शकत्वेन तस्य पक्षवचनस्य साध्यसाधनं प्रति अशक्तस्योक्तिरीरिता निर्दिष्टा आचार्येण 'तत्रानुमेयनिर्देशो हेत्वर्थविषयो मतः’ इत्यनेन ग्रन्थेन । ततो ज्ञायते पक्षवचनमसाधनमिष्टमाचार्यस्येति ।" - प्र० वा० म० ४।१८ । " नन्वाचार्यस्य पक्षवचनमभिमतमेव, यदाह – स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया । पक्षधर्मत्व सम्बन्धसाध्योक्तेरन्यवर्जनम् ॥ [ प्रमाणसमुच्चय ४।६ ] । नैतदस्ति । यतः हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता ॥ [ प्र० वा० ४।१८ ], यदाह - 'तत्रानुमेयनिर्देशो हेत्वर्थविषयो मतः । अस्माकं तु योऽनुमेय निर्देशः स हेत्वर्थविषयत्वेन, न साधनत्वेन' ।.......... [ पृ० ४८८ ]... कथं तर्हि इदमुक्तम्- 'अस्माकं तु पक्षनिर्देशो यः स न साधनत्वेन अपि तु हेत्वर्थविषयत्वेन' इति [ १० ४९० ] ।” - प्र० वार्तिकालं० । २ 'मत: ' Psy'. VI. मध्ये नास्ति, प्र० वार्तिकालङ्कारेऽपि नास्ति । PSv मध्ये 'मतः' इत्यस्य स्थाने 'निर्देशः' इति दृश्यते । ३ दृश्यतां टिपू० १२४ पं० १० । प्र० वार्तिकालं० पृ० ४८९ । प्र० वा० ४।१६ । ४ " साध्यते” Psv'-' । 'उपदर्श्यते' इति 'ख्याप्यते' इति वा इत्यपि पाठोऽप्यत्र चिन्त्यः । " तस्मादनुमेयस्योपदर्शनार्थ सिद्धयर्थ पक्षवचनमुपादेयं नान्यदित्युपस्कारः ।" - वादन्यायवृत्ति. पृ० ६६ । ५ प्र० वार्तिकालं पृ० ५४५, ५४६, ५४९ । प्र० वा० म० पृ० ४२४,४४५, ४५८, ४५९ । तुलना - दिङ्गागप्रणीतन्यायमुखस्य चीनभाषानुवादमवलम्ब्य Prof. Giuseppe Tucci इत्येभिर्विहिते English भाषानुवादे पक्षस्वरूप मित्थमुपलभ्यते—→
[ तृतीयः
For Private & Personal Use Only
www.jainelibrary.org